________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० ४५-५१ लो वा स्नेहद्रवे ॥२४॥ला इत्येतस्य णौ परतः वा लुगागमो भवति स्नेहऽर्थे । घृतं विलालयति विलापयति । विलाययति । ला इति लिनातेः द्रवीकरणार्थस्य "विभाषा लियोः" [३।४४] इति कृतात्वस्य धूनामनेकार्थत्वाल्लातेश्च स्नेहद्रवे वृत्तिरित्युभयोर्ग्रहणम् । स्नेहद्रव इति किम् ? अयो विलापयति । जटाभिरालापयते । लीयतेः कृतात्वात् "लियोऽधाष्टय सन्मानने च" [१२६६] इति दः।।
लियो नुक् ॥शरा४६॥ ली इत्येतस्य णौ परतः स्नेहद्रवेऽर्थे वा नुग्भवति । घृतं विलीनयति । घृतं विलापयति । लियोऽनात्वपक्षे स्नेहद्वार्थस्य ग्रहणम् । स्नेहद्रय इत्येव । अयो चिलाययति । णो ऐवयादेशौ । अथ "विभाषा लियोः" [३।४४] इत्यात्वपक्षे एकदेशविकृतस्यानन्यत्वान्नुक कस्मान्न भवति ? लिय इत्यत्र ली ई इतीकारप्रश्लेषादीकारान्तस्य नुक् ।
रुहः पः ॥शरा४७॥ रुहः णौ परतः पारादेशो भवति वा । अारोपयति । प्रारोहयति स्वर्ग जिनधर्मः । अथ "युप रुप लुप विमोहने" [धा०] इति रुप्यतेः रोपयति, रुहेः रोह्यतीति भविष्यति । न शक्यमेवम् , अारोपयतीति भविष्यति न शक्यमेवम् । ग्रारोपयतीत्यत्र रहेरर्थः प्रतीयते न रुप्यतेः । अनेकार्था धव इति पादप्रसारिकैषा ।
स्फायो वः ॥शरा४८॥ वेति निवृत्तम् । स्कायी इत्येतत्य वकारादेशो भवति णौ परतः । स्कावयति । स्फावयतः । स्फावयन्ति । “अन्तेऽलः” [9091४६] इत्यन्तस्य ।
शदोऽगतौ तः ॥॥२॥४६॥ शदेणों परतः अगतावथें तकारादेशो भवति । पुष्पाणि शातयति । फलानि शातयति । अगताविति किम् ? गाः शादयति यष्टया । "शद्ल शातने" [धा०] इति निपातनात् सिद्ध मिति चेत् ; निपातनंमबाधकमितरस्य शक्येत । यथा “पूर्वकालैक' [१॥३॥४४] इत्यत्र पुराणशब्दः पुरातनशब्दस्य ।
त्यस्थे क्यापीदतोऽसुपोऽयत्तदौ ॥१२॥५०॥ त्यस्थे ककारे परतः पूर्वस्य अकास्येकारादेशो भवति असुपो य श्राप तस्मिन् यत्तदित्येतौ वर्जयित्वा । कुत्सिता जटा जटिका । मुण्डिका । त्य इति किम् ? शक्नोतीति शका। तका। धोरयं कः। स्थग्रहणं किम् ? कारिका । हारिका । असति स्थग्रहणे ये कीत्युच्यमाने "येनाल विधिः" [१1१।६७] इति ककारादावेवं स्यात् । स्थग्रहणे सर्वत्र सिद्धम् । कीति किम् ? नन्दना । रमणा । कीतीनिर्देशः किम् ? "ईप्केत्यव्यवाये पूर्वपरयोः" [१६०] इति परस्य मा भूत् । पटुका | मृदुका । अापीति किम् ? कारको हारकः । अत इति किम् ? गोका। नौका। तपरकरणं किम् ? बहुखवाका । वहुमालाका । “वाऽपः" [५/२।१२७] इत्यप्रादेशपथे। प्रपक्षे असुवः कपः परोऽयमाप । असुप इति किम् ? (बहवः परिव्राजका अस्यां बहुपरिव्राजका मथुरा ) "त्यखे त्याश्रयम्" [१०१।६३] इति सुबन्तात्परिव्राजकशब्दादयमाप । ननु च बसे समुदायादसुबन्तादावितीत्व प्राप्नोति, तदसत् , असुप इति प्रसज्यप्रतिषेधोऽयम् । न चाप सुबन्तादवयवान्परो भवति । पर्युदासे हि दोषः। सुपोऽन्यः असुप समुदायत्तस्मादाबितीत्वं स्यात् । बहूनि चर्माणि अस्यां बहुचर्मिकेत्यत्र असुबन्ताकपः परोऽयमावितीत्वम् । अयत्तदाविति किम् ? यका। सका। यकां यकां पश्यति तकां तकां वृणीते । इह कथं प्रतिषेधः, यातीति स्यतीति विचि या सा इति स्थिते के प्रादेशे च कृते यका सका । क्षिपकादावेतौ द्रष्टव्यौ। ननु कीति वर्णनिर्देशः तस्यापीति परत्वेन विशेषणं नोपपद्यते आकारेण व्यवधानात् । एकादेशे भविष्यति । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव । एवं तर्हि वर्णेनैकेन व्यवधानेऽपि वचनप्रामाण्याद्भवति । सङ्घातेन पुनर्व्यवधानमिति । रथानां समूहो रथकट्या पुत्रकाम्यानं पुत्रकाम्या इत्यादौ न भवति ।
वाऽतोऽधोर्यकात् ॥१२॥५१॥ अधोर्यो यकारः ककारश्च ताभ्यामुत्तरस्यातः स्थाने यो अकारः तस्याप्यसुपः वा इन्द्रवति । कुत्सिता इभ्या इभ्यका । इभमहतीति "दण्डादेः" [३१४१६४] यः। एवं
For Private And Personal Use Only