________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० १५-१६] महावृत्तिसहितम् वर्तमानाच्च नान्यस्य कस्यचिद् भविष्यति । एवं तन्तग्रहणं ज्ञापकमनित्यस्तदन्तविधिः । तेन “स-त्य-विधौ न तदन्तविधिः" [प०] इति न वक्तव्यम् ।
द्योः॥१५॥ द्योरित्ययमधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिप्यामः द्योरित्येवं तद् वेदितव्यम् । "हनस्तोऽभिणलोः [५।२।३६] इत्यतः प्राग्वक्ष्यति । "प्रोष्टपदानां जाते" [५।२।२३] प्रोष्ठपटासु जातः प्रोष्ठपादो माणवकः । द्योरै । पूर्वपदस्य तेन न भवति । “येन नाप्राप्ते तस्य तदाधनम्" [१०] इति न्यायात् । ननु "ईकेन्यव्यवाये पूर्वपरयोः" [११६०] इति न्यायेन "अवयवाहतोः" [५।२।१६] इत्यादौ कानिर्देशाद् द्योरेव भविष्यति नार्थोऽनेन ? "प्रोष्टपदानां जाते' इत्यादौ कानिर्देशो नास्ति तदर्थं वचनम्। अन्यथा प्रोष्ठपढाटौ नियमो न शक्येत ।
अवयवाहतोः ॥५॥२॥१६॥ अवयववाचिनः शब्दादुत्तरस्य ऋतो रचामादेरच ऐभवति । पूर्ववार्षिकः । अपरवार्पिकः । पूर्वासु वर्षासु जातः । हृदर्थविवक्षायां "हृदर्थयुसमाहारे" [१।३।४६] इति षसः । "काला?" [३।२।१३१] इति ठञ् । ननु कालाजुक्तः । “स-त्य-विधौ न तदन्तविधिः" [प०] । कथं कालान्तात् ? नव दोषः। “तोजिद्विधाववयवात्" इति तदन्तविधिरुपसङ्ख्यातः। एवं पूर्व हेमनः। अपरहेमनः। "भसन्ध्या' [३।२।१३७] इत्यादिनाए । “हेमन्तात्तखम्" [३।१।१३८] इति तखम् । अवयवादिति किम् ? पूर्वास्वतीतासु वर्षामु जातः पौर्ववर्षः । अापरवर्पः । “प्राग्दोरण' [३।१।६८] । पूर्वशब्दोऽत्र कालवाची नावयवधाची । अत एवावयवलक्षणतदन्तविध्यभावात् “कालाह" [३।२।१३१] नेप्यते ।
सुसर्या द्राष्ट्रस्य ॥५।२।१७॥ सु सर्व अर्धा इत्येवं पूर्वस्य राष्ट्रवाचिनः शब्दस्य गोरचामादेरच ऐब भवति । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्द्ध पाञ्चालकः । शोभनाः पाञ्चालाः। प्रादिलक्षणः पसः । सर्वे पाञ्चालाः । “पूर्वकाल" [१॥३॥४४] इत्यादिना यसः । अर्द्धपाञ्चाला इति । “विशेषणं विशेष्येणेति" [१॥३॥५२] पसः । मुपञ्चालेगु जातः “राष्ट्रावध्योः" [३।२।१०२] "बहुत्वेऽदोरपि" [३।२।१०३] इति बुन । कथं राष्ट्रादुन्यमानस्तदन्ता[। “सुसर्या दिवशब्देभ्यो जनपदस्य” इति तदन्तविधिरुपसङ्ख्यातः । एवं मुमागधकः । सर्वमागधकः । अर्द्धमागधकः ।
दिशोऽमद्राणाम् ॥५॥२॥१८॥ राष्ट्रस्येत्यनुवर्तते । दिक्शब्दादुत्तरस्य राष्ट्रस्य मद्रवर्जितस्य धोरचामादेच ऐब् भवति । पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणमागधकः । उत्तरमागधकः। पूर्वेषु पाञ्चालेषु जातः । हृदथै पसः । पूर्वोक्तेन तदन्तविधिना बुञ्। अमद्राणामिति किम् ? पौर्वमद्रः। “म भ्योऽण" [३।२८५] | दिश इति किम् ? पूर्वेप्ववयवभूतेषु पाञ्चालेषु भवः । अणि । पौर्वपञ्चालः। दिशि यः पूर्वशब्दो वर्तते स किशब्दोऽभिप्रेतो नावयवे वर्तमानः। अत एव तदन्तविध्यभावाद्वञ् नास्ति । योगविभाग उत्तरार्थः।
प्राचां ग्रामाणाम् ॥५॥१६॥ दिश इत्यनुवर्तते। दिच्छब्दादुत्तरे प्राचां देशे ग्रामाणामचामादरच ऐभवति । राष्ट्रस्येत्यनुवर्तनात् प्राचामित्याचार्यग्रहणं नाशङ्कयम् । यदि पूर्वोत्तर पदसमुदायो ग्रामनामधेयस्तदा ग्रामवाचिनो गोरवयवस्य दिक्छब्दात परस्य ऐब्भवतीत्यभिसम्बन्धः । इतरत्र तु दिश उत्तरेषां ग्रामाणामिति । पूर्वा चासौ पुकामशमी च "दिक्सङ्ख्यौं खी" [१।३।४५] इति पसः । पूर्वेषुकामशम्यां जातः। अणि । पूर्वैपुकामशमः । अपरैपुकामशमः । “नेन्द्रस्य" [५।२।२७] इति प्रतिषेधवचनं ज्ञापकम् । प्राक्पूर्वोत्तरपदयोरैबादिकार्य पश्चादेकादेश इति । एवं पूर्वा चासौ कृष्णमृत्तिका च पूर्वकार्णमृत्तिकः । असज्ञापक्षे पूर्वस्यामिपुकामशम्यां जातः । "हृदर्थ" [१॥३।४६] इति पसः । “दिगादेरखौ' [३।२।८४] इति णः । शेषं पूर्ववत् । "अत्र ग्रामग्रहणे नगरस्यापि ग्रहणम्" [वा०] । यथा लोके अभक्ष्यो ग्रामकुक्कुट इति नागरोऽपि न भक्ष्यते । सज्ञापक्षे पूर्व च तत्पाटलिपुत्रं च । अन्यत्र पूर्वस्मिन् पाटलिपुत्रे जात इति “रोडीतो प्राचाम्" [३।२।१०१]
For Private And Personal Use Only