________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० २०-२४ इति वुन । पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकः । पूर्वकन्याकुब्जायां पूर्वस्यां कन्याकुब्जायां वा जातः अणि णे च कृते पूर्वकान्यकुब्जः । ननु चैकमेव पाटलिपुत्रम् । पाटलिपुत्रान्तरस्य व्यवच्छेद्यस्याभावाद् कथं पूर्वशब्देन विशेष्यते ? पाटलिपुत्रौकदेशे पाटलिपुत्रशब्दो वर्तते इत्यदोषः ।
__ सङ्ख्यायाः सङ्ख्यासंवत्सरस्य ॥२२२०॥ सङ्ख्यायाः परस्य सङ्ख्याशब्दस्य संवत्सरस्य च घोरचामादेरच ऐब्भवति णिति हृति परतः । द्विनावतिकम् । त्रिनावतिकम् । द्वाभ्यां नवतिभ्यां क्रीतम् । हृदर्थ रसः । “प्रार्हाटण" [३१४१७] । तस्य "रादुबखौ” [३।१२६] इत्युप् । द्विनवतिना द्रव्येण क्रीतं पुनष्ठण । अथवा द्वौ च नवतिश्च । “वा चत्वारिंशदादौ" [॥३।१६०] इत्यनात्वम् । “लिङ्गमशिप्यं लोकाश्रयत्वाल्लिङ्गस्य" [१०] इति नैकवद्भावेऽपि नपुसकत्वम् । “द्वन्द्वे धुवल्लिङ्गम्" [१।४।१०२] द्विनवत्या क्रीतम । एवं द्वे षष्ठी भूतो भावी वा द्विषाष्ठिकः । द्विषष्ठयादिशब्दो वर्षेषु सङ्खये येषु वर्तमानः कालवाची । तेन कालाधिकारविहितष्ठत्र । द्वौ संवत्सरौ भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः। संवत्सरग्रहणं निरर्थकम् । "परिमाणस्याखुशाणे" [५।२।२२] इत्येव सिद्धम् । तत्र अशाण इति प्रतिषेधात् परिच्छेदमात्र गृह्यते नारोहपरिणाहलक्षणम् । तेन द्विवैतस्तिकम् , त्रिवैतस्तिकमिति सिद्धम् । एवं तर्हि संवत्सरग्रहणं ज्ञापकम् । "परिमाणग्रहणेन कालपरिमाणं गृह्यते"। तेन द्वे समे अधीष्टो द्वैसमिकः। द्योरैम्न भवति तथा द्विवर्ष माणविका । "परिमाणादपि ३११२६] "रात्" [ २५] इति डीनं भवति । द्वे वर्षे भूता प्राग्वतष्ठनः “वर्षादुप् च' [३।८५] “प्राणिन्युप” [३।४।८६] ।
वर्षस्याभाविनि ॥शश२१॥ सङ्घयाया इति वर्तते । सङ्ख्यायाः परस्य वर्षशब्दस्य अचामोदरच ऐन्भवति हति णिति परतः यद्यभाविन्य) हत्तदैव स्यात् । वे वर्षे भूतं द्विवार्षिकम । अभाविनीति किम् ? त्रीणि वर्षाणि भावि त्रैवर्षिकं धान्यम् । ननु द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्पिको मनुष्य इति भाविता गम्यते कथं न प्रतिषेधः ? नैवम् ; करिष्यतीति प्रयोगे भाविता गम्यते न तु हृदों भावी । ननु मनुष्या भिधाने "प्राणिन्युप" [
३८६] इति ठण उप कस्मान्न भवति । भूतविषये सोऽभ्युपगम्यते नाधीष्टादी। ततो “वर्षादुप्च” [३।४।८५] इति विकल्प उब् भवति ।
परिमाणस्याखुशाणे ॥ २२॥ सङ्ख्याया इति वर्तते । सङ्खथायाः परस्य परिमाणस्य समुदायेनाखो गम्यनानायामशाणे च द्योरचादेरचो ऐच भवति । अखुशाण इति विषयलक्षणेयमीप । द्विसोवर्णिकम् । द्वाभ्यां सुवर्णाभ्यां क्रोतम् । अार्हाहणः “कार्षापणसहस्रसुवर्णशतमानाद्वा" [३।४।२५] इति वानुप् । एवं द्वि नैष्तिकम् । त्रिनष्किकम् । बहुनैष्किकम् । “द्वित्रिबहोर्निष्कविस्तात्" [३१२८] इति वोए । द्विकोडविकम् । द्वाभ्यां कुडवाभ्यां क्रीतम् । “रादुबखौ” [३।४।२६] इत्युप् । द्विकुड़वेन द्रव्येण क्रोतं पुनष्ठण । अखुशाग इति किम् ? पञ्च लोहितानि परिमाणमत्य, पञ्च कलापाः परिमाणमस्य पाञ्चलौहितिकम् , लोहिनीशब्दस्य "वा ठण छसोः" [ठक्छसोश्व] [ वा० ] इति पुंवद्भावे रूपम् । पाञ्चकालापिकम् । “परिमाणात्सङ्ख्यायाः सङ्घसूत्राध्ययने" [३।४।५६] इति ठणः “रादुबखौं" [३।४।२६] इति नोप । द्वैशाणम् । त्रैशाणम् । “द्वित्रिभ्यामण" [३।४१३४] इत्यम् । “कुलि- जस्यापि प्रतिषेधो वक्तव्यः” [वा०] । द्विकुलिजे प्रयोजनमस्य द्वैकुलिजिकम् ।
प्रोष्टपदानां जाते ॥५॥२।२३॥ योरिति वर्तते । प्रोष्ठपदानां द्योरचामादेरच ऐब् भवति जाताथै हृति ञ्णिति परतः । प्रोष्ठपदाभिर्युक्तः कालः । “भायुक्तः कालः" [३।२।४] इत्यण । तत्य "उसभेदे" [३।२।५] इत्युस् । उसि युक्तवल्लिङ्गसङ्ख्यातिदेशः । प्रोष्टपदासु जातः । अण । तस्य "भेभ्यो बहुलम्" [३।३।१३] इति बहुलवच नादिहानुप् । प्रोष्ठपादो माणवकः । जात इति किम् ? प्रोष्ठपदासु भवः प्रौष्ठपदो मेघः।
हृत्सिन्धुभगे द्वयोः ॥॥॥२४॥ हृसिन्धु भग इस्येषु द्युष द्वयोः पदयोरचामादेरच ऐल्भवति । सुहृदयस्येदं सौहार्दम् । “हृदयस्य हृल्लेखयारलासेषु" [४।३।१६१] इति हृद्भावः । अथवा “सुहृदुहृदौ मित्रा
For Private And Personal Use Only