________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
३६०
[ श्र० ५ पा० २ सू० १० - १४
ग्रहणम् । द्वारपाल्या अपत्यं दौवारपालिकः । " रेवत्यादेष्टण ” [३।३।१३४] इति ठण | स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । तदादेरपि । स्वराध्याये भवः सौवराध्यायः । व्यल्कसे भवः वैयल्कसः । स्वस्तीत्याह सौवस्तिकः । तदाहेत्यस्मिन्नर्थ ठरणुक्तः । स्वर्भयं सौम् । “केर्ममात्रे टिखम्" [वा०] इति टिखम् । स्वर्गमनमाह सौवर्गमनिकः । स्वः अध्याय स्वाध्यायः । स्वाध्यायेन चरति सौवाध्यायिकः । श्रचामादेरित्यनुवर्तनादाद्यचः समीपस्य यौवादेशौ स्वशब्दस्यैव । तदादिविधिना सिद्धमिति चेत्, न "स्वशब्देन तदादिविधिरनित्यः " इतीदमेव ज्ञापकम् । तेन स्वपती साधु स्वापतेयमिति । स्पयकृतस्यापत्यं स्फेयकृतः । “कुर्वृष्यन्धकवृणे: " [३।१।१०३] इत्यण् । स्वादुष्यस्येदं सौवादुष्यम् । शुनो विकारः शौवः सङ्कोचः “श्वाश्मचर्मणां संकोचविकारकोशेषु" [ ४|४|१३२] इति टिखम् । शुनो दंष्ट्रा श्वादंष्ट्रा । " श्रन्यस्यापि " [४।३।२३२] इति दीत्वम् । तत्र भवः शौवादी मणिः । तथा शौवाहननम् । स्वस्येदं सौम् । तदादेः स्वग्रामे भवः सौवग्रामिकः । श्रव्यात्मादित्वाह ।
न्यग्रोधस्य केवलस्य || ५|२|१०|| न्यग्रोधस्य केवलस्य यो यकारस्तस्य ऐयित्ययमादेशो भवति हृति िित परतः । न्यग्रोधस्यायं नैयग्रोधो दण्डः । केवलस्येति किम् ? न्यग्रोधा अस्मिन्देशे सन्ति “बुन्छगुट" [३६] इत्यादि पाटात्कः । टापू “त्यस्थे क्यापी" [ ५|२|५० ] इत्यादित्यम् । न्यग्रोधिकायां भवः न्यायोधिकः ग्रत्र “भस्य हृत्यढे" [वा०] इति पुंवद्भावः प्राप्तः । " न वुहकोड: [४ | ३ | १४६ ] इति प्रतिषेधः तथा न्यग्रोधमूले भवं न्याग्रोधमूलं तृणम् । ऐबेव भवति । ननु न्यग्रोधस्योच्यमानं कथमन्याधिकस्य स्यात् १ तदन्तविधिना । स्येवं नार्थः केवलग्रहणेन न्यग्रोधस्य प्राधान्येनाश्रयणात्तदन्तविन्ध्यभावः । एवं तर्हि तदादिनिवृत्यर्थं केवलग्रहणम् । ग्रन्यत्रेह तदादिविधिरस्तीति ज्ञाप्यते । न्यग्रोधतीति व्युत्पत्तिपक्षे नियमार्थम् । केवलस्यैव । व्युत्पत्तिपक्षे विध्यर्थं सूत्रम् ।
न मे || ५|२| ११ || मे आयें कर्मव्यतिहारे विशति हृति यदुक्त तन्न भवति । व्यात्युची । व्याक्रोशी । व्यापचोरी वर्तते । "कर्मव्यतिहारे जः " [ २|३|७६ ] इति ञः । “जात् स्त्रियाम्" [४/२/२२] इत्यण् । तस्मिन् प्रतिषेधः ।
स्वागतादेः ||१२|| स्वागतादेश्च यदुक्तं तन्न भवति । स्वागतेन चरति स्वागतिकः । स्वध्वरस्यापत्यं स्वाधरिः । स्वङ्गः स्वाङ्गिः । व्यङ्गः व्याङ्गिः । व्यङः व्याडि । व्यवहारेण चरति व्यावहारिकः । व्यवहारशब्दो न कर्मव्यतिहार एव वर्तते किन्तर्हि लोकवृत्तेऽपि । ततः पाठः । स्वपतौ साधु स्वापतेयम् ।
श्वादेरावतः || २|१३|| श्वादेगौरिकादौ यदुक्त तन्न भवति । श्रतश्च य उत्पद्यते तस्मिंश्च । चकारमन्तरेणापि समुच्चयो गम्यते । यथा पृथिव्यापस्तेजोवायुराकाशमिति । श्वाभस्त्रिः । श्वादष्ट्रिः । श्वा करिणः । श्वाशीर्पिः । श्वागणिकः । श्वेव भस्त्रास्य, शुन इव दंष्ट्राऽस्य, शुन इव कर्णावस्य शुन इव शिरोऽस्य । स्वशिरसोऽपत्यं ब्राह्वादिपाठादिञ् । श्रजादौ हृति शिरसः शीर्पादेश उपसङ्ख्यानेन । इकारदीलं व्यपदेशवद्भावेन | तो य उत्पद्यते तत्रापि प्रतिषेधः । श्वामस्त्रेरिटं श्वाभस्त्रम् । श्वाकर्णम् | "इज: " [३] इत्यण् । श्वन्शब्दो द्वारादिषु पठ्यते । तस्य तदादिविधिः श्रस्तीति इदमेव प्रतिपेधवचनं ज्ञापकम् । श्वादेरिति किम् ? श्वभिश्चरति शौविकः । केवलस्य न प्रतिषेधः "नोऽषु सो हृति" [४|४|१३०] इति टिम् । आयत इति किम् ? श्वाभस्त्रस्येदं शौत्राभस्त्रम् । शौवादंष्ट्रो मणिः ।
वा पदान्तस्य || ५|२|१४|| श्वादेगः पदशब्दान्तस्य यदुक्त तन्न भवति वा । किमुक्तम् ? द्वारादौ श्वशब्दस्य तदादिविधिना श्रयुक्तः । श्वापदानां समूहः श्वापदम् । शौवापदम् । शुन इव पदस्य श्वापदः । “अन्यस्यापि” [४।३।२३२] इति दीत्वम् । इकारादौ पूर्वनिर्णयेन नित्यः प्रतिषेधः । श्वापदेन चरति श्वाप दिकः । ग्रन्तग्रहणं न कर्तव्यम् । “येनालि विधिस्तदन्तायोः " [३।११६७ ] इति स्वयमेव पदान्तस्य श्वादेरित्यनु
For Private And Personal Use Only