________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ. ५ पा०२ सू०३-६ ] महावृत्तिसहितम्
३५६ ञ्णित्यचः ॥५॥३॥ जिति णिति च परतोऽजन्तस्य गोरैभवति । प्राकारः। अध्यायः। "अध्यायानुवाकयोर्वोप" [४/११६४] इति निपातनाद्घञ् । कारको हारकः। नायकः । लावकः । सखायौ। सखायः । अनर्थकमिदम् । एपिरन्नत्वे अयवीश्च कृतयोः "उङोऽतः" [५।१४] इत्यैपा सिद्धम् । मैवं शक्यम् । “गुकार्ये निवृत्ते पुनर्न तन्निमित्तम् [प०] इति असि च सख्युरेम्न विहितः गौत्रमित्यत्र चावयादेशाभावादैम्न सिद्ध्येत् । अज्ग्रहणमनिगर्थे गौरिति । णित्करणं तु गावौ गावः इत्यत्राबादेशे सति "उकोऽतः" [५।२।४] इलैपि चरितार्थ स्यात् ।
उडोऽतः॥५॥राठ॥ गोरकारस्य उडः ऐन भवति णिति परतः । पाकः। पाट: । पाचकः । पायकः । पाचयति । उद्ध इति किम् ? पिपटिपकः । 'पकाराकारस्य मा भूत् । अन्त्यस्य पूर्वेण प्राप्नोति । नैवम् । पूर्वविप्रतिषेधेनातः खं भवति । अतः इति किम् ? भेदकः । तपरकरणं मुखसुखार्थम् ।
हृत्यचामादेः ॥५॥२॥५॥ श्रच इत्यनुवर्तते । हृति णिति परतः अचामादेरच ऐव् भवति । श्राश्यग्रीविः। पृष्ठिः । सौलोचनः । सौतारः । “नदीमानुपी" [३1१1१०२] इत्यादिनाए । अचामिति किम् ? हला मविवक्षार्थमन्यथा अजादीनामेव स्यात् । अजन्तलनशास्यो लक्षणस्य चैपः परत्वादादरैप । त्वाष्ट्रः । जागतः। "तस्येदम्" [३।३।८८] इत्यण । “सकृद्गते परनिर्णये बाधितः एव" [१०] पुनः प्रसङ्गविज्ञानपक्षेऽपि न दोपः । अनुशतिकादिषु पुष्करसच्छब्दपाठात् पौष्करसादिः । बाह्रादेरिज् [३।१।८५] । अन्यथा तत्रोभयोः पदयोरैवर्थपाठोऽनर्थकः स्यात् ।
देविकाशिशपादीर्घसत्रश्रेयसामाः ॥६॥ देविकादिभिरायचो विशेषणात् कंवलानां तदादीनां च ग्रहगाम । देविकायां भवं दाविकमदकम्। आद्यविशेषणा विकुले भवा दाविकुलाः शालयः। शिशपाया विकारः शांशपं भन्म । शिशपास्थले भवं शांशपास्थलम् । दीर्घसत्रे भवं दार्पसत्रम् । श्रेयोऽधिकृत्य कृतो ग्रन्थः श्रेयसि भवो वा श्रायसः स्याहादः । देविकादीनामादेरच इति किम् ? सुदेविकायां भवा सौदेविकाः। पूर्वदविकायां भवः पूर्वदाविकः । पूर्वशांशपः । प्राचां ग्रामौ । "प्राचां ग्रामाणाम्" [५।२।१६] इति धोरैप्प्रसङ्गे अनेनाकारः ।
केकयमित्रयुप्रलयानां यादेरिय ॥राजा केकय मिनयु प्रलय इत्येतेषां यकारादेरियादेशो भवति हृति णिति परतः। केकयस्थापत्यम । “राष्ट्रशब्दादाज्ञोऽञ्" [३।१।१५०]। श्रादरैप । कैकेयः। मित्रयोर्भावः "वृद्धचरणाछलाघात्याकारावेते” [३१४१९२४] इति वुञ् । लौकिकं तत्र वृद्धं गृह्यते । मैत्रेयकमाश्लायते। प्रलयादागतं प्रालेयम् ।
पदे य्वोरै योय ॥२८॥ पदे परतः अचामादेरचः स्थाने कृतौ यौ यकारवकारी तयोरैयो इत्येतावादेशौ भवतः हृति निणति परतः । व्याकरणं वेत्त्यधीते वा वैयाकरणः । एवं नैयायिकः "क्रतक्थादिसूत्रान्ताहण्" [३।२।५२] इति ठण । शोभना अश्वा अत्येति स्वश्वः। तस्यापत्यं सौवश्विः । श्रादरैपः परत्वादैयौत्रो भवतः । अर्हता प्रोक्त माईतं तत्त्वम् । पद इति किम् ? इणः शतरि यत् । यतः छात्रा याता अन्त्यचामाटेरचः स्थाने "यणेत्योः ७७] इति यकारो न तु पदे परतः । योरिति किम? अाश्विः । अचामादेरचः इति किम् ? अभ्यञ्जनेन चरति अाभ्यञ्जनिकः । दाध्यश्विः। इह कस्मान्न भवति अशीती भृतो भावी वा द्वयाशीतिकः ? यौवादेश्च ऐप्राप्तिस्तत्रायं विधिः । अत्र च "संखायाः संख्यासंवत्सरस्य" [५।२।२०] इति योः प्राप्तिनं द्विशब्दस्य । द्योरैपोऽप्ययमपवादः । पूर्वव्यलिन्दे जातः पृर्वत्र यलिन्दः । "प्राचां प्रामाणाम्" [५।२।१६] इति प्राप्तिः ।
द्वारादेः ॥५२॥९॥ द्वार इत्येवमादीनां च धोरैयौवित्येताबादेशा भवतः णिति हृति परतः द्विारे नियुक्तः दौवारिकः । नायं पदेऽचः स्थाने वकारः इति पूर्वेणाप्राप्तिः । अत्र द्वारादिभिद्योर्विशेषणात्तदादि
For Private And Personal Use Only