________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० १-३ कुक्को तयोः ॥५१६॥ किमः कु क इत्येतावादेशौ भवतस्तकारादावकारे च परतः । कुतः । छ । "कुतसोः" इति सूत्रे सित्करणसामर्थ्यात्पदसज्ञया भसज्ञाकार्ये उत्वे बाधिते यणादेशेन सिद्ध करूपे साको यथा स्यादित्येवमर्थः कादेशः ।
तोः सः साधनन्त्ये ॥११॥१६४॥ त्यदादीनां तवर्गस्यानन्त्ये सकारादेशो भवति सौ परतः । स्यः । सः एषः । अनन्त्य इति किम् ? यः । सः । त्यदाद्यत्वस्येदमादयोऽवकाशाः । सत्वस्यानन्यस्तवर्गः। परत्वाद् दस्य सत्त्वं स्यात् । ननु सत्त्वेऽपि यखे सिध्यति । नैवम् “अनिनस्मिनग्रहणेऽनर्थकस्यापि ग्रहणात्" [५० ४।४१२] इति दीत्वं स्यात् । इह च स पुरुष इति हलि सुखे दोषः स्यात् । सा इत्यत्र "अतः" [३१११४] इति टाम्न स्यात् । तस्मादनन्त्य इत्युच्यते । अनेष इत्यत्र नकारस्य कस्मान्न भवति ? “नजोऽन्" [४३११८१] इति नकारस्य त्यदादिग्रहाऐनाग्रहणात् भिवानित्यत्र "स्फान्तस्य खम्" [५/३१४१] इति तखस्यासिद्धत्वात्तकारस्य प्राप्नोति । यद्यवं परस्वत्वस्याप्यसिद्धत्वानकारो नास्ति । ततोऽन्तरङ्गत्वादनुस्वार एव स्यात् ।
असौ ॥११।१६५॥ असाविति निपात्यते । अदसः सकारस्यौत्वं सौ सुखम् । अत्वचाधनार्थम् । “तोः" [५/११६४] इति दस्य च सत्वम् । असौ। हे असौ। स्त्रीपुसयोरिदम् । सावित्येव । अदः कुलम् । अदसः परस्य सोरौत्वमेव निपात्यमिति चेत् , न, कुत्साद्यर्थविवक्षायामकि त्यदाद्यत्वे टापि कृते "त्यस्थे क्यापीदतः" [५।२।५०] इति इत्वं स्यात् । तेन असको स्त्रीति न सिध्येत् । सकारस्य त्वौत्वे टाम्नास्तीति न दोषः
इदमो मः॥५॥१२१६६॥ इदमित्येतस्य मकारादेशो भवति विभक्त्यां परतः। साविति निवृत्तम् । उत्तरत्र साविति निर्देशात् । इमौ । इमे । इमे । इमाः । इमे। इमानि ।
दः ॥५॥१॥१६७॥
यः सौ ॥५११६८॥ इदमो दस्य यकारादेशो भवति सौ परतः । उत्तरत्र पुसीति निर्देशात् स्त्रियामयं विधिः । इयं स्त्री । नपुंसके सुखे नास्ति ।।
पुंसीदोऽय ॥५॥११६६॥ इदम इद्रूपत्य अयादेशो भवति सौ परतः पुंस्यभिधेये । अयम् । परभायम् । "पूर्वोत्तरपदयोस्तावत्कार्य पश्चादेकादेशः" । "नेन्द्रस्य' [५।२।२७] इति ज्ञापकात् ।
नाप्यकः ॥५॥११७०॥ इदम इद्रपस्याककारस्यान इत्ययमादेशो भवति श्रापि विभक्त्यां परतः । अनेन । परमानेन । श्रनयोः। अक इति किम् ? इमकेन । इमकयोः । प्राविति प्रत्याहारः टादिरासुपः पकारेण ।
हलि खम् ॥५॥२॥१७१॥ हलादावापि परतः अककारस्येदम इद्र पस्य खं भवति । ग्राभ्याम् । एभिः । एभ्यः । एषु । अक इत्येव । इमकेभ्यः । “अन्तेऽलः" [1111४६] कस्मान्न भवति । "नानर्थकेऽन्तेऽलो विधिः" [१०] । अथवा अर्थवशाद्विभक्तीपरिणाम इति पूर्वेण सिद्ध स्यानोऽन्तेऽल इति नखम् ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमाध्यायस्य प्रथमः पादः समाप्तः।
मृजैरेप ॥२॥१॥ गोरित्येतदेवानुवर्तते । मृजेरिक ऐब्भवति । मार्टा । मृजेरितीग निर्देशः “धोः स्वरूपग्रहणात्तत्यविज्ञानम्" [40] भ्रौणहत्येति तत्वनिपातनाज्ज्ञायते । अन्यथा "हनस्तो अिणलोः" [५/३६] इत्येव तत्वं स्यात् । धोर्विहिते त्ये ऐब्भवति । न मृदस्त्ये तेन कंसपरिमृभिरिति । ननु “विङति" [1111१६] इति प्रतिषेधः सिद्धो नैवम् । किन्निमित्तयोरेबैपोः स प्रतिषेधः।
विडत्यचि वा ॥२२॥ मृजेरजादौ क्ङिति वा ऐन्भवति । परिमृजन्ति । परिमार्जन्ति । परिमभूजतुः। परिममार्जतुः । विडतीति किम् ? परिमार्जनम् । अचीति किम् ? मृष्टः । ते तसि या द्रष्टव्यम् ।
१. प्रतिषु सूत्रस्यास्य वृत्तिस्त्रुटिता ।
For Private And Personal Use Only