________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० १ सू० १४१-१५१] महावृत्तिसहितम्
३५५ डिदिति । डिन्तीव द्विदिति कार्यातिदेशः। तेन चुकटिषति इत्यत्र सनोऽङित्वाद्दो न भवति । “गोऽपित्" [१।११७८] इत्यत्र तु ङित इव डिदिति द्रष्टव्यम् । न कार्यातिदेशः । कार्यस्यावयवासम्भवात् । डिति किम् ? पचावहै । श्रात इति किम् ? पचन्ति ।
पाने मुक् ॥५॥२॥१४१॥ अत आने मुगागमो भवति । श्रान इति ईम्निर्देशो अत इति कानिर्देशस्य पूर्वसूत्रे कृतार्थस्य तापक्लूप्तिं करोतीति अकारान्तस्य मुक् । पचमानः । वपमानः ।
ईदासः ॥५११११४२॥ श्रास उत्तरस्य आनस्य ईकारादेशो भवति । आसीनोऽधीते । आस इति कानिर्देशोऽनवकाश अानस्य तां प्रकल्पयति । परस्यादेरीत् ।
विभक्त्थामाटनः॥२१४३॥ अष्टन अाकारादेशो भवति विभक्त्यां परतः। अष्टाभिः । अष्टाभ्यः । अष्टासु । अप्टानामित्याप्टन अाम्यात्वे च कृते नान्तत्वाभावादिलज्ञा नास्ति । कथं नुड्। “प्णान्तेल" [1||३४] इत्यत्रान्तग्रह्णमुपदेशार्थमुक्तमित्यदोपः । विभक्यामिति किम् ? अष्टमहाप्रातिहार्यो जिनः । "नोमता गोः" [१०९१६४] इति प्रतिषेधाच्याश्रयमात्वं न भवति । कथं "दूतः स्वादष्टभिर्गुणैः" इति ? "अष्टाभ्य औश्” [५1१1१८] इति कृतात्वोच्चारणं ज्ञापकम् , यौवात्वं तत्रैवौशभाव इति तेनानिल्यमात्वम् । श्रा इति विशेपनिर्देशो नकारस्य स्थाने उसकाकारनिवृत्त्यर्थः । प्रात्वमिति जातिनिर्देशे प्रसज्येत ।
गयो हलि ॥५॥१४४॥ इत्येतस्य हलादौ विभक्त्यामाकारादेशो भवति। राः। राभ्याम् । राभिः। गभ्यः । रातु । हीति किम् ? रायो । रायः । विभक्त्यामेव । रैत्वम् । रैता।
युष्मदस्मदोः ॥५॥११४५॥ युष्मदस्मदित्येतथोर्ह लादौ विभक्त्यां परतः आत्वं भवति । युवाभ्याम् । श्रावाभ्यान । युगाभिः । अस्माभिः । युप्मासु । अस्मासु । “अन्तेऽलः" [३॥३॥४६] इति दकारस्य भवति ।
इपि ॥५॥२॥१४६॥ इपि च विभक्त्या परतः युष्मदस्मदोरात्वं भवति । त्वाम् । माम् । युवाम् । आवाम् । युष्मान् । अस्मान् । “खमादेशे" [५।१।१४६] इति खे प्राते पुरस्तादपवादोऽयम् । “ङसुटोरम्" [५/११२४] इत्यम । “शसो नः" [५।१।२५] इति नकारः ।
प्रावि ॥५॥११४७॥ औकारे परतः युग्मदत्मदोरात्वं भवति । युवां जैनेन्द्रमधीयाथे । आवाम् अधीवहे।
यः॥५॥१॥२४८॥ यकारादेशो भवति युष्मदस्मदोविभक्त्यां परतः। त्वया । मया । त्वयि । मयि । युवयोः । श्रावयोः । उत्सर्गोऽयम् । अात्वं खं चापवादः । पारिशेप्यादच्यनादेशेऽवतिष्ठते ।
खमादेशे ॥५॥१।१४६॥ आदेशे विभक्त्यां युष्मदस्मदोः खं भवति । ग्रादिश्यत इत्यादेशो विभक्ती । त्वम् ! अहम् । यूयम् । वयम् । तुभ्यम् । मह्यम् । युस्मभ्यम् । अस्मभ्यम् । त्वत् । मत् । युष्मत् । अस्मत् । तव । मम । युष्माकम् । अस्माकम् । विभक्त्यामिति किम् ? युष्मदीयः । “त्यदादि" [1111६१] इति दुसज्ञा । “दोश्छः” [३।२।६०] इति छः । इदं खवचनं ज्ञापकम् । अत्वविधि प्रति द्विपर्यन्तास्त्यदादयः । तेन भवच्छब्दस्य भवानिति ।
मावधेः ॥१५०॥ युष्मदस्मदोर्मकारावधेः सङ्घातस्यादेशो भवतीत्येषोऽधिकारो वेदितव्यः । अवधिग्रहणं किम् ? मान्तस्येति वक्तव्यम् । नैवं शक्यम् । यत्र युष्मदस्मदो मान्तौ णिचि किप्यागतनिवृत्त तत्रैवादेशाः स्युः । ननु णे: “परेऽचः पूर्वविधौ" [१११५७] स्थानिवद्भावान्मान्तता नास्ति व्यवधानात् । वचनाच्छु तिकृतमानन्तर्य विभक्त्याः । अवधिग्रहणे सति दकारान्तयोरपि युष्मदस्मदोर्मावधेः समुदायावयवस्यादेशाः सिद्धा भवन्ति ।
युवाचौ द्वौ ॥५॥१६१५१॥ द्वावित्यन्वर्थग्रहणम् । “एकद्विबहवश्चैकशः" [१॥२॥१५५] इत्यत्रान्वर्थसज्ञाकरणात् । द्वित्वे वर्तमानयोर्युष्मदस्मदोर्युव श्राव इत्येतावादेशौ भवतः । युवाम् । आवाम् । युवाभ्याम् ।
For Private And Personal Use Only