________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
जैनेन्द्र-व्याकरणम्
[ अ० ५ पा० १ सू० १५२ - १५७
ग्रावाभ्याम् । युवयोः । आवयोः । माधेरित्येव । युवकाम् | श्रावकाम् | अकसहितस्य न भवति । सेऽपि यदा युष्मदस्मदी द्वित्वे वर्तते समुदायः एकत्वे बहुत्वे वा तदापि युवावौ भवतः । न चेत् परत्वाद् " यूयवयौ जसि” [५।१।१५२] “वाहौ सौ” [ ५।३।१५३ ] “तुभ्यमझौ ङयि” [ ५|१|१५४ ] " तत्रममौ ङसि " [ ५|१|१५५ ] इत्यादेशान्तरेण बाध्येते । अतिक्रान्तं युवाम् श्रतियुवाम् । श्रत्यावाम् । अतिक्रान्तान् युवाम् श्रतियुवान् । श्रतिक्रांन्तेन युवाम् अतियुवना । अत्यावया । श्रतिक्रान्तैर्यु वाम् अतियुवाभिः । प्रत्यावाभिः । अतिक्रान्तेभ्यो युवां देह वा अतियुवभ्याम्। अत्यावभ्यम् । श्रतिक्रान्तात् युवां अतियुक्त् । अत्यावत् । श्रतिक्रान्तेभ्यो युवाम् अतियुवत् | त्यावत् । प्रतिक्रान्तानां युवाम् ग्रतियुवाकम् । श्रत्यावाकम् । प्रतिक्रान्ते युवाम् अतियुवयि । अत्यावयि । अतिक्रान्तेषु युवाम् श्रतियुवासु । श्रत्यावासु । यदा समुदायोऽपि द्वित्वे वर्तते तदा सुतरां भवतः । श्रुतिक्रान्तौ युवाम् अतियुवाम् । अत्यावामित्यादि । अपवादपि न भवतः । अतिक्रान्तो युवाम् श्रतित्वम् । अत्यहम् | अतिक्रान्ता युवाम् अतियूयम् । अतिवयम् । अतिक्रान्ताय युवाम् अतितुभ्यम् । श्रतिमह्यम् । श्रतिक्रान्तस्य युवाम् अतितव । प्रतिमम । यदा च युष्मदस्मदी एकत्वे बहुत्वे च वर्तते समुदायो द्वित्वे तदापि न भवतः । अतिक्रान्तौ त्वाम् अतित्वाम् । अतिमाम् । अतिक्रान्तौ युष्मान् प्रतियुष्मान् । अत्यस्मान् । इत्यये वम् । अतिक्रान्ताभ्यां त्वाम् अतित्वाभ्याम् । प्रतिमाभ्याम् । श्रतिक्रान्ताभ्यां युष्मान् अतियुष्माभ्याम् । अत्यस्माभ्यां कृतम् । अतिक्रान्ताभ्यां युष्मान् अतियुष्माभ्यां देहि । एवम् अतित्वाभ्याम् । अतियुष्माभ्यां विभेति । अतित्वयोः । श्रतियुष्नयोः स्वम् । श्रतित्वयोः । श्रतियुष्मयोर्निधेहि ।
arat जसि ||५|१|१५२ || युष्मदस्मदोर्जेस परतो यूय वय इत्येतावादेशौ भवतः । यूयम् । वयम् । गोः प्राधान्यात्तदन्तविधिरयत्र । श्रतिक्रान्तास्त्वां युवां युष्मान् वा अतियूयम् । श्रतिवयम् । परमयूयम । परमवयम् ।
वाह सौ || ५|१|१३|| युष्मदस्मदोर्मावः त्व श्रद् इत्येतावादेशौ भवतः सौ परतः । त्वम् । अहम् । परमलम् । परमाहम् । श्रतिक्रान्तस्त्वां युवां युष्मान् वा अतित्वम् । अत्यहम् ।
तुभ्यमी ङ || ५|१| ९५४ ॥ तुभ्य मह्य इत्येतावादेशौ भवतः युष्मदस्मदोर्डीये परतः । तुभ्यम् । मम् । तदन्तविधिना श्रतिक्रान्ताय त्वां युवां युष्मान् वा अतितुभ्यम् । अतिमह्यम् । परमतुभ्यम् । परममाम् ।
ममौ ङसि || ५ | १|१५५ ॥ युष्मदस्मदोङसि परतः तत्र मम इत्येतावादेशौ भवतः । तव स्वम् । मम स्वम् । अतिक्रान्तस्य त्वां युवाम् युष्मान् वा अतितव । श्रतिमम | परमतत्र । परममम ।
वावे || ५|१|१५६ || एक इत्ययमन्वर्थसञ्ज्ञानिर्देशस्तेन एकल्ले वर्तमानयोर्यु मदस्मदोर्मावः त्व म इत्येतावादेशौ भवतः । त्वाम् । माम् । त्वत् । मत् । त्वयि । मयि । अत्रापि यदा युष्मदस्मदावेकत्वे वर्तते समुदायो द्वित्वे बहुत्वे वा तदापि त्वमादेशौ भवतः यदि “ यूयवयौ जसि” [ ५।१।१५२] इत्यादिभिरादेशान्तरैर्न बाध्येते । कथं बाधा ? अतीताश्चत्वारो योगा इहानुवर्तन्ते । ततो बाधा तद्विषयादन्यत्रायं विधिः । अतिकान्तौ त्वां तिष्ठतः पश्येति वा अतित्वाम् । प्रतिमाम् । श्रतिक्रान्तांस्त्वाम् अतित्वान् । एवम् अतित्वाभ्याम् । अतितुभ्यं देहि | अतित्वत् । प्रतित्वयोः । अतित्वाकम् | अतित्वयोः । अतित्वामु । यदा समुदायोऽप्येकत्वे तदा सुतराम् । प्रतिक्रान्तं त्वाम् अतित्वाम् |
त्यद्योश्व ||५|१|१५७॥ त्वमावेक इत्यनुवर्तते । एकार्थविषययोर्युष्मदस्मदोः त्वम इत्येतावादेशी भवतः त्ये द्यौ च परतः । त्वत्तरो मत्सरः । त्वदीयो मदीयः । त्वत्प्रधानाः । मत्प्रधानाः । त्वद्वितम् । मदतम् । त्वच्छिष्यो मच्छिप्यः । विभक्त्यां परतः पूर्वी योगस्तस्या उपि प्रापणार्थं वचनम् । ननु नानापदाश्रयत्वाद्वहिरङ्ग उप विभक्तीमात्राश्रयत्वादन्तरङ्गस्त्वामादेशः पूर्वं भविष्यतीत्यनर्थकमिदम् । नानर्थकम् । वाह तुभ्यमा
For Private And Personal Use Only