________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० १ सू० १२७-१३१ ] महावृत्तिसहितम् इति निपात्यते स्वरश्चेत् । विरेभितमन्यत । इत्वमेतो निपातनात् । फाण्टमिति निपात्यते अनायासे । फणितमन्यत्र । अग्निना तप्तं यत्कयोष्णं तत्फाएटम् । अथवा यदपक्वमचर्णितमनिष्यन्दितमदकादिसंयोगादिभक्तरसम् । वादमिति भवति नष्टं (भृशं) चेत वाहितमन्यत । वाह प्रयत्ने इत्यस्यानिटत्वम् । विशस्तधृष्याविति भवतः वियातौ चेत् । विशस्तो वादी धृष्टो वादी प्रगल्भोऽविनीतो वा शसुधृषोः “यस्य वा" [५।१।१२१] “आदितः" [५।१११२२] इति च प्रतिषेधे सिद्धे नियमार्थ वैयात्य एवेति । भावारम्भयोपेवैयात्येऽनभिधानम् । नियमादन्यत्रेट् । विशसितः पशुः । धर्षितः शत्रुणा | कष्टमिति भवति कृच्छे गहने च । कृन्छ दुःखं दुःखहेतुश्चोपचारात् । गह्न वनम् । धुपेरविशब्दनेऽनिटत्वं निपात्यते । घुष्टा रज्जुः। घुष्टी पादौ । अविशब्दने इति किम् ? अवघुषितं वाक्यमाह । शब्देनाभिप्रायनिवेदनं विशब्दनं तदपि घुपेरर्थः । अनेकार्थत्वादधनाम । दृद्ध इति स्थले बलवति च । हहिः तेऽनिटत्वं न दग्वं परस्य च ढलं दृहेवा नववर्जम् । ननु दृहेर्ह खं दत्वं च न निपात्यं ढत्वे टुत्वे च कृते सिध्यति। नैवम् । ददिमा । द्रदयति । परिद्रदृग्य गतः इत्यत्र पूर्वत्रासिद्धत्वात् “ऊ रोऽनादेर्धेः" [४।४।१५३] इति रत्वम् "प्ये घिपूर्वात्" [४॥४/५६] इति शेरयादेशश्च न स्यात् । इह च परिदृढस्यापत्यं पारिटी कन्येति "प्योऽक्षु रूपान्त्ययोः” [३।११६३ इति यः प्रमज्येत । स्थूलबलवतोरिति किम् ? हितम् । दृहितं वा । परिवृढ इति निपात्यते ! प्रभुश्चेत । परिपूर्वस्य वृहेव हेर्वा न हखन् । दुत्वे प्रयोजनं पूर्वोक्तम् । परिद्रढय्य गतः इत्यत्र संग्राम युद्धे इति सगेः पाठात् गिरहितस्य गिनुत्पद्यते । तेन “तिकुप्रादयः" [१॥३।८१] इति पसे क्वात्यस्य प्यादेशः। प्रभाविति किम् ? परिवृहितम् । परिवृहितम् । अभ्यर्ण इति निपात्ये प्राविदूर्ये । अभ्यर्ण शेते। अभ्यर्ण शरत् । विरं विप्रकृष्टं ततोऽन्यत्सर्वमविदूरं तस्य भाव आविर्यम् । “नसे चतुर" [३।४।११५] इत्यत्र न स इति योगविभागात्सापेक्षत्वेऽपि टयण । प्राविदर्य इति किम् ? अभ्यर्दितश्चौरः शीतेन । वृत्तमित्यध्ययनेऽथें निपात्यते। वृतेपर्यन्तादिडभावो पोरुप च क्ते निपात्यते । वृत्तं जैनेन्द्रम् । वृत्तस्तों देवदत्तेन । अध्ययन इति किम् ? वर्तितो घटः कुम्भकारेण । यदा वृत्तिरकर्म कस्तदाऽस्य एयन्तस्य वृत्तस्तर्क इति न भवति । यदा तु "तेन निवृत्तः” [३।२।५८] इति ज्ञापकादन्त वितार्थः सकर्मकस्तदा कर्मणि क्तः “यस्य वा" [५।१।१२१] इति प्रतिषेधावृत्तस्तकः । ण्यन्तस्य अध्ययने वर्तित इति भवति ।
सन्निविभ्योदें ॥५१॥१२७॥ सम् नि वि इत्येवंपूर्वाददरिएन भवति ते परतः । समर्णः। न्यर्णः । व्यर्णः । सन्निविभ्य इति किम् ? अदितः । प्रार्दितः।
न वा रुप्यमत्वरसंघुषास्वनः ॥शश१२८॥ रुषि अम् त्वर संघुष आस्वन् इत्येतेभ्यः ते न वा इड् भवति । रुष्टः । रुषितः । अभ्यन्तः । अभ्यमितः । तूर्णः । त्वरितः। संघुष्टः पादः। संधुषितः पादः । संधुष्टं वाक्यम् । संघुपितं वाक्यम् । आस्वान्तो देवदत्तः । यास्वनितो देवदत्तः। श्रास्वान्तं मनः । अास्वनितं मनः । रूपः "तीषसहलुभरुषरिषः" [५।१।६६] इति विकल्पेटो “यस्य वा" [५।१।१२१] इति निषिद्धे अभ्यमः प्राप्ते त्वर "आदितः" [५।१।१२२] इति प्रतिषिद्ध सधुपास्वनोरविशब्दनमनसोरप्राप्त सतोटि प्राप्तौ नेति प्रतिषिद्धायां सर्वत्र वेति विकल्पः ।
हनृतः स्ये ॥१११२९॥ हन्तेः ऋकारान्तेभ्यश्च स्से परत इड भवति । हनिष्यति । अहनिष्यत् । करिष्यति । अकरिष्यत् । स्वरत्यादि विकल्प बाधित्वाऽनेन परत्वादिट् । स्वरिष्यति । न वेति नानुवर्तते ।
सावजेः ॥५॥१२१३०॥ अजेः सौ परतः इड् भवति । अाञ्जीत् । आञ्जिष्टाम् । आञ्जिपुः । नित्यार्थ प्रारम्भः । साविति किम् ? अजिता ।
स्तुसुधूमो मे ॥१२॥१३२॥ स्तु सु धूञ. इत्येतेभ्यः मपरे सौ परतः इङ् भवति । अस्तावीत् । असावीत् । अधावोत् । म इति किम् ? अस्तोष्ट । असोष्ट । अधोष्ट । अधविष्ट । धूलो विकल्पः प्राप्तः । अकारो धुवतिनिवृत्यर्थः ।
For Private And Personal Use Only