________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
३५२
[अ० १ पा० ५ सू० १२०-१२६
विभिदिव । विभिदिम | ददिव । दद्दिम । “श्रूयुकः किति” [५/१/११७ ] इति प्रतिषेधे सिद्धे वृग्रहणं व्यनियमार्थम् । ङोरेोदात्तेषु लिटि नेड् । तेन लुलुविव । लुलुविम । अथ ( प्रति ) पेधार्थं ग्रहणं कस्मान्न भवति ? यदि प्रतिषेधः इष्टः स्यात् याधिकारे वृत्रहणं क्रियेत न किधिकारे । इह करणं ज्ञापक थे प्रतिषेधाभावस्य । वरिथ | स्तुप्रभृतिग्रहणं तु प्रतिषेधार्थम् । (थे) "वोपदेशे" [५/१/१०६ ] इति प्राप्तः । बमयोस्तु कृसु नियमादूि ) प्रातः प्रतिषिध्यते । श्रसुट इत्यनुवर्तते । संचस्करिव । संचस्करिम |
श्वीदितस्ते ||५|१|१२०॥ श्वयतेरीदिद्भश्च ते परतः इरान भवति । शूनः । शूनवान् । लग्नः । लग्नवान्नः । ग्रापीनवान् । श्विई ईदित ईकारोऽप्यत्र प्रश्लिष्यते । शीङः “तः सेट् पूङ शीङ:" [11] इति ज्ञापकादिट् । पारिशेष्यादीकारान्तस्य डीङो ग्रहणम् । उड्डीनः । उड्डीनवान् । " ओदितः " [५/३/६३ ] इति वत्वम् । स्वादय श्रदितः ।
यस्य वा ५|१|१२९ ॥ यस्य वाऽन्यस्मिन्निडुक्तस्तस्य ते परत इएन भघति । रद्ध: । रुद्धवान् । इः । इष्टवान् । द्यूतः । घृतवान् । " तनिपतिदरिद्राणाम्" [त्रा०] इति वेट्यपि पतित इत्यत्र "इतच्छ्रितातीतपतित" [१।३।२१] इति ज्ञापकादिट् ।
I
श्रादितः || ५|१|१२२|| ग्राकारेतश्च धोस्ते परत इन भवति । भिन्नः । मिन्नवान् । विन्नः । स्विन्नवान् । दिवण्णः । दिवण्णवान् । धृष्णः । धृष्ण॒वान् । “समः समि” [४|३|१९६] इत्यत्र क्यन्ते इगागमवचनात्सद्धे आदेशवचनं ज्ञापकमनित्यमागमशासनमिति । तेन बान्तः । विश्वस्तः ।
वा भावारम्भयोः || ५|१|१२३|| भावे आरम्भे च दितो धोस्ते परतो वा इड् भवति । भिन्नमस्य । मेदितमस्य । प्रभिन्नः । प्रमेदितः । दिवएणमस्य । दोदितमस्य । प्रविणः । वेति योगविभागात् कर्मणि वा केरिट् । ग्रादित इति तु न सन्निधीयते । शकितो घटः कर्तुम् । शक्तो घटः कर्तुम् । भावो वर्थः । प्रायः क्रियावयवः प्रेत्यादिना बोल्या आरम्भः । भावग्रहं तस्य विशेषणम् ग्रारम्भो धोः 'नवभावे कः' [२|३|१५] इति भावे क्तः । " कर्तरि चारम्भे " [५|४|५६ ] इति कर्तरि क्तः ।
""
दान्तशान्तपूर्णदस्तस्पप्रछन्नप्ताः || ५ | १ | १२४ || दान्तादयः शब्दा यन्ताद् वा निपात्यन्ते । दान्तः । दमितः । शान्तः । शमितः । पूर्णः । पूरितः । दस्तः । दासितः । स्वष्टः । स्पाशितः । छन्नः । छादितः । ज्ञतः । ज्ञापितः । ते वाऽनित्वं निपात्यते । दस्तादेरुङः प्रादेशश्च । शमिदम्योगिखे दीत्वं प्रति न स्थानिवत् इति "स्य विवतो: क्ङिति " [४|४|१३] इति दीत्वम् । ग्रन्यत्र मितां प्रः । ज्ञपेस्तु " भरजपिसनाम्" [१७] इति विकल्पितेटो " यस्य वा" [ ५।१।१२१] इति प्रतिषेधे प्राते ग्रहणम् ।
चितौ ||२||१२|| टापचित इत्येतौ वा ते परतो निपात्येते । हृपेलीमविस्मितप्रतिवा ते वाऽनित्वम् । हृष्टानि लोमानि । हृषितानि लोमानि । हृष्टं लोमभिः । हृष्टो देवः । हृपितो देवदत्तः । हृय दन्ताः । हृषिता दन्ताः । होः “वोदितः " [ ५।१।१०४ ] इति विकल्पितेये “यस्य वा " [५|३|१२२] इति प्रतिषेधे प्राते वचनम् । श्रपचितोऽनेन गुरुः । अपचायितोऽनेन गुरुः । चायतैस्ते विभावोऽनित्वं च वा निपात्यते । चकारोऽनुक्तसमुच्चयार्थः । तेन तं नित्यमपचितिः ।
'जुब्धस्वान्तध्वान्तलग्न क्लिप्रविरिब्धफाण्टवाढ विशस्तधृष्टकष्टघुष्टदृढ परिवृढाभ्यवृत्ताः ||५|१|२६|| क्षुब्धादयः शब्दाः कान्ता अर्थविशेषे निपात्यन्ते । क्षुब्धो भवति मन्यश्चेत् । दध्यादिकं येन मध्यते स मन्थः । ननु द्रवद्रव्यसंप्रयुक्ताः सक्तवो मन्थ इह गृह्यते । तदुक्त' "शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना" इति । क्रियाभिधानेऽन्याभिधाने च न भवति । क्षुभितं मन्थेन । क्षुभिता सेना । स्वान्तमिति भवति मनश्चेत् | स्वनितमन्यत् । ध्वान्तमिति निपात्यते तमोऽभिधानं चेत् । ध्वनितमन्यत् । लग्नमिति भवति सतश्चेत् लगितमन्यत् । क्लिष्टमिति भवति विस्पष्टश्चेत् । म्लेच्छितमन्यत् । इत्वमेकारस्य निपातनादेव | विविध
For Private And Personal Use Only