________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० ५ पा० । सू० ३१६-११६] महावृत्तिसहितम्
३५१ झल्यकित्यमागमार्थः । ता | तप्ता । द्रसा। दर्ता । अदि (हदि)नुदितुदिस्कन्दिछिदिभिदिशदिक्षुदिपदिखिदिस्विद्यति(विद्यति)विन्तयः पञ्चदश ।१५। स्विद्यतीति स्यनिर्देशो जिस्त्रिदा स्नेहने इत्यस्य निवृत्त्यर्थः । विद्यतिविन्त्योर्विकरणनिर्देशोऽन्यविकरणनिवृत्यर्थः । वेदिता शास्त्रस्य । बेदिता वनस्य । केचित्तु विन्दतिमनिटमिच्छन्ति । वेत्ता वनस्य । पचिपचिविचिरिचिसिचिशुचयः पट् ।६। प्रच्छि ।१। युजिरुजिरजिभुजिभजिसृजिसजित्यजियजिमस्जिनिजिभ्रस्जिस्वजयश्चतुर्दश ।१४। एकाच इति किम् ? बेभिदिता। अस्ययमखे यखे च कृते उदात्तः । न त्वेकाच । नन्वयमप्युपदेशे एकाच । नैवं बेभियरूपेणोपदेशात् । यद्येवं बिभित्सतीत्यत्रापि स्यात् । सन्नतन्स्येभवत्येव । बिभित्सता। सनि तु परे न भवति । द्वित्वमिति स एवायं भिदिरेकाजदनुदात्तश्च । यदि वा उपदेशे अयमेकाच् ? अनुदात्तादिति किम् ? लविता | लवितुम् । उपदेश इति किम् ? पेचिव । पेचिम । कथमिदमुदाहरणं युक्तम् । असत्युपदेशाधिकारे एकाचोऽनुदात्तस्य यदि लिटि प्रतिषेधः सिद्धः स्यात्तदा नियमः स्याच्चकृवादौ। न च लिटि प्रतिषेधः प्राप्नोति, द्वित्वे कृतेऽनेकाच्यात् । सति तूपदेशाधिकारे उपदेशावस्थायामेकाजिति कृत्वा प्रतिषेधः सिद्धस्ततो नियमः ।
तितुत्रतथसिसुसरकसेऽग्रहादेः ॥५१॥११६॥ अवस्यापि प्रतिषेधोऽयम् । ति तु त्र त थ सि सु सर क स इत्येतेषु परतो नेड् भवति ग्रहादीन् वर्जयित्वा । तंतिः । क्तिच् । “न क्तिचि दीश्च" [१४|४०] इति नखदीत्वयोरभावः । सक्तः । "सितनिगमिमनिमसिसच्यविधाजथिभ्यस्तुः” उ० स०। पत्रम । "दाम्नीशसयुयुज" [२॥२॥१६०] इत्यादिना त्रट | हस्तः। “हसिमृगृण्वमिद मिलूपूर्विभ्यस्तुः" [उ. सू०] पौणादिकस्यैव तस्य ग्रहणं व्याख्यानात् । ते तु हसितमित्येव भवति । काष्ठम् । “हनिकुषिभीरमिकाशिभ्यस्धः" [उ० सू.]। कुक्षिः । " पिप्लुषिसुषिकुप्यशिभ्यः क्सिः" [उ० सू०] । इक्षुः । “इष्यशिभ्यां क्सुः" [उ० सू० "कृधूभ्यां क्सरः'। धूसरः । शल्कः। "इणमीकापाशल्यतिमचिभ्यः कः" [उ०सू०] । वत्सः । "वृतृवदिहनिकमिकषिमुचिभ्यः सः" [उ. सू.]। अग्रहादेरिति किम् ? निगृहीतिः। अपस्निहितिः। निकृचितिः ।
श्रयुकः किति ॥५॥१॥११७॥ श्रि इत्येतस्मादुगन्तेभ्यश्च कितीएन भवति । निपठितिः । "स्त्रियां ति" [२।३।७५] श्रित्वा । श्रितः । श्रितवान् । युत्वा । युतः । युतवान् । वृत्वा । वृतः । वृतवान् । उपदेश इत्येव । तीत्वा । तीर्णः। तीर्णवान् । युक इति किम् ? श्वयित्वा । श्वः क्त्वा । अत्र जिस्ट् िच युगपत्प्राप्नुतः । परत्वादिट । “मृडादि"010] नियमादकित्त्वम् । कितीति किम् ? श्रयिता। यविता। भूपणरित्यत्र गिति स्नौ कथं प्रतिषेधः कितीत्यत्र गकारोऽपि कृतचत्वों निर्दिष्टः । तस्य पूर्वत्रासिद्धत्वमाश्रित्य पूर्व विसर्जनीयः कृतो यथा रेस्त्वं स्यात् । एचभावोऽपि “किङति" [१।१।१६] इति गकारप्रश्लेषादेव । ऊणुओ णुबद्भावः । प्रोणु त । प्रोणुतवान् । एकाच इत्येव । जागरितः । जागरितवान् ।
सनि ग्रहगुहश्च ॥५५१११८॥ ग्रह गुह इत्येताभ्याम् उगन्तेभ्यश्च सनि नेड् भवति । जिघृशति । जुधुक्षति। रुरूपति। "मुषग्रहिरुदविदः संश्च" [१२] इति कित्वाजिः । गुहेरुदित्वादिकल्पः प्राप्तः । लूजस्सनि “झलिकः" [१३] इति कित्त्वं बाधित्वा परत्वादिट प्रातस्तस्यानेन प्रतिषेधे झलादित्वात् कित्त्वम् । श्रीग्रहणं न प्रयोजयति “श्रियूणु भर” [५।५।६७] विकल्पितेट्त्वात् ततोऽपि “सनीड़ वा” [५।१।६] इति विकल्पः।
कृसृभृवृस्तुद्र लिटि॥५॥१२१६॥ कृ सभृ वृस्तु दन श्र इत्येभ्यो लिटीए न भवति । चकृव । चकृम । ससृव । सस्म । बभूव । बझम । वय । ववृम। ववव हे । ववृमहे । तुष्टोथ । तुष्टुव । तुष्टुम । दुद्रोथ । दुद्रुव । दुद्रम । सुस्रोथ । सुनुव । सुसुम । शुश्रोथ । शुश्रुव । शुश्रुम । सिद्ध सत्य रम्भो नियमार्थः। कादय एव लिट्यनिटस्ततोऽन्ये सेटः इति । न तु कादयो लिट्येवानिट इति विपरीतो नियमः । "स्वतन्त्रः कर्ता" [११२।१२५] इत्यादिनिर्देशात् । क स भृ इति प्रकृतिनियमोऽनुदात्ता एत एवानिटो नान्ये ।
For Private And Personal Use Only