________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ५ सू० ५१०-११५ अतः ॥५२॥११०॥ अतः "ऋतः” इत्यनेन यदुक्तं तन्न भवति । अर्ता । आरिथ । प्रतिषेधस्तावनाभिसम्बध्यते । ऋत इत्येव सिद्धत्वात् । विकल्पोऽपि यदीष्टः स्यात् “अत्वदच्सृजिदृशः” इत्यत्रैवाःग्रहणं क्रियेत । ततः सूत्रारम्भसामर्थ्याद् विधिरभिसम्बध्यते ।।
स्नोर्थात् ॥११॥२११॥ नेत्यनुवर्तते । स्नु इत्येतस्माद् दार्थाइनिमित्तादगे इएन भवति । प्रस्नोष्यते । प्रस्नोष्टीष्ट । प्रास्नोष्ट । "डौ" [१७] इति दः । "स्नोश्च त्रिश्च" [२१११५६] इति लुङिन जिः। सुस्नुषिष्यते इत्यत्र “सनि ग्रहगुहश्च" [५/१।११८] इत्यनेनैव प्रतिषेधः। इह कथं प्रस्नवितेवाचरति प्रनवित्रीयते । नात्र स्नोतिर्दार्थः । किं तर्हि ? क्यडन्तो धुः। “रोङ ऋतः [५।२।१३६] इति रीङ् । दोऽर्थो यस्य सोऽयं दार्थः । दप्रयोजन इत्यर्थः । कदा च स्तुर्दार्थः । यदा भावकर्मकर्मव्यतिहारा विवक्षिताः । सति च दे दार्थत्वं तेन कृति न भवति । प्रस्नवितुम् । यदि सति दे दार्थत्वं दे इति वक्तव्यम् । न दे परतः इत्यानन्तर्य विज्ञायेत । स्यादिव्यवधाने न स्यात् प्रतिषेधः । दार्थादिति किम् ? प्रनविता । प्रस्नवितुम् ।
क्रमः ॥५॥१११२॥ दार्थादिति वर्तते । क्रमश्च दार्थादिण न भवति । प्रकंस्यते । प्रक्रसीष्ट । प्रचिकंसते। प्रचिसिध्यते । सन्नन्तप्रयोगेऽपि क्रमिरेव दार्थः । “सनः पूर्ववत्" [२५८] इति क्रमिः सम्बन्धिनो दस्यातिदेशात् । अत्रापि दार्थत्वं भाषकर्मकर्मव्यतिहारा वृत्त्यादयोऽर्थाः “वाऽः” [॥२।३६] इति शेषयोगश्च । दार्थादित्येव । प्रक्रमितव्यम् । प्रक्रमितुम् । सति दे दार्थत्वमिति । "प्रादारम्भे" [११२।३८] इति दः ।
कर्तरि कृति ॥५॥११११३॥ क्रमेदार्थाद्दविषयात् कर्तरि कृति नेड् भवति । इह कृतीति वचनसमाहत्यासम्भवाद्दार्थादिति दविषयादित्यवगन्तव्यम् । अप्रयोगेऽपि दस्य दविषयत्वं पूर्व तु सत्येव दे दार्थत्वं व्याख्यातम् । प्रक्रन्ता । उपक्रन्ता। प्रचिक्रसिता। कर्तरि कृति । प्रक्रमितव्यम् । उपक्रमितव्यम् । प्रचिऋमिया । दार्थादिति किम् ? निष्क्रमिता । "इदुदुडोऽत्यपुम्मुहुसः" [५।४।२८] इति सत्वम् । “इणः पः" [५।४।२७] पत्वम् ।
वशि ॥५॥१।११४॥ कृतीत्येकदेशोऽनुवर्तते । वशादौ कृति नेड् भवति । प्राप्त प्रतिषेधः । ईश्वरः । दीप्रः । भस्म । यत्नः । वर-र-म ना एव प्रयोजयन्तीति केचित् । तदयुक्तम् । अन्यत्रापि दर्शनात् । “अमन्ताड्डः” [उ० सू०] । दण्डः । “मुदिनोर्गः" [उ० सू०] । मुद्गः । गर्गः। “दरिदलिभ्यां भः" [उ० सू०] । दर्भः । दल्भः। कृतीति किम् ? रुरुदिव । रुरुदिम ।
एकाचोऽनुदात्तात् ॥११५॥ उपदेशे एकाचो धोः अनुदाचादिण न भवति । याता। कर्ता । पक्ता । एकाचोऽजन्ताः । अदन्तमूदन्तमृदन्तं स्विश्रोडीशीङो डुक्रीऔ । युरुगृणु नुत्तु दणुवश्च वर्जयित्वा । ऊर्णोतेणु वद्भावादेकान्त्वम् । श्रावधिपीष्ट । “पाको यमहनः" [१।२।२३] इति दः। "हनो वध लिहि" [११११११४] इति बधादेशः । स चावधीदित्यत्र ऐप् मा भूदित्यन्त उदात्तश्चोपदिश्यते । स्थानिवद्भावेनानुदात्तो मा भूदित्येवमर्थम् । लविता । तरिता ! श्वयिता । इत्यादि योज्यम् । हलन्ता अनुदात्ता प्रदर्श्यन्ते । शकिघसिबमतयः। घसिः प्रकृत्यन्तरमन्यस्ति । घस्ता। वसतेस्तिपा निर्देशः अाच्छादनार्थे निवृत्त्यर्थः । वसिता पटस्य । यभिरभिलभयः । यमिरमिनमिगमयः हनिमन्यती। श्यनिर्देशो मनुतेर्निवृत्त्यर्थः । मनिता । दहिदिहिद्र हिरुहिनहिवहिलिहिपिहयोऽष्टौ ।। सहेतु "तीपसह" [५/११६६] इति विकल्पो मुहेरपि । रधादौ दिशिदशिमृशिस्मृशिरिशिरुशिविशिकु शिलिशिदंशयो दश १० राधिरुधिधिसाधियुधिव्याधिबन्धिसुधितुधिबुध्यतिसिध्यतय - श्चैकादश ।११। बुध्यतिसिध्यतोः स्यनिर्देशो भौवादिकयोनिवृत्त्यर्थः । बोधिता । सेधिता। अकारेतावेतौ । बुधितम् । सिधितम् । शिषिशुषितुषिदुषिपिषिविषिकृषित्विषिद्विपिश्लिपय एकादश ॥१३|| प्रापितपिस्वपिलिपिलुपिने क्षिपिशपिवपितिपिछपिसृपितृपिदृपयः त्रयोदश ॥१३॥ तृपिहपी रधादिपाटाद्विकल्पितेटी इहानुदात्तपाट
For Private And Personal Use Only