SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० । सू० १०६-१०६] महावृत्तिसहितम् ३४६ नय॑ति । अनस्य॑त । निस्सति । नतिष्यति । अनतिष्यत । निनतिपति । सीति किम् ? कर्तिता । असाविति किम् ! अकर्तीत् । अप्राप्त विकल्पोऽयम् । गमेरिणमे ॥५२॥१०६॥ गमेरिड भवति सकादौ मे। इडग्रहणां नित्यार्थम् । गमेरिति मम् । "गस्ट रसृप्ल गती' [धा०] । “सनि" [१।४।११८] इति इणो गमादेशस्य "इण्वदिकः" [वा०] इति वक्तव्येन "इक् स्मरणे [धा०] इत्यस्य "इङः" [१।४।१२०] इति “इङ अध्ययने” [धा०] इत्यस्य चाविशेपेण ग्रहणम् । गमिप्यति । अगमिष्यत् । अनादेशस्येदम् । जिगमिष्यति । इणादेशस्यापीदम् । अधिजिगमिषति । "इण्वदिकः" [वा०] । गमेरिति किम् ? एष्यति । म इति किम् ? संगंसीष्ट । संगस्यते । संजिगंसते वत्सो मात्रा । अधिजिगांसते । “हनिङ्गम्यचां सनि" [४।४।१४] इति दीत्वम् । म इति विषयनिर्दशोऽयम् । मे यो.गमिरुपलब्धस्तस्य सकारादाविड़ भवतीति । तेन हेरुपि कृति चेट सिद्धः । जिगमिप त्वम् । जिगमिषिता । गमेरिति योगविभागो द्रष्टव्यः । तत्र वेति सम्बध्यते । कचिदन्यत्रापि वा सकाराविङ् भवति । संजिगमिपिता। संजिगसिता । अधिजिगांसिता व्याकरणस्य । न वृतादेः॥१२॥१०७॥ वृतादेमें इण न भवति । सकारादाविति निवृत्तम् । वय॑ति । अवय॑त । वृध् । वस्यति । अवय॑त् । विवृत्सति । शयति । अशय॑त् । शिशत्सति । स्यन्त्स्यति । अस्यन्स्यत् । सिस्यन्त्सति । कल्प्स्यति । अकल्प्स्यत् । चिक्लप्सति । कल्प्ता। कल्तारौ। कल्तारः । म इत्येव । वर्तिध्यते "स्यसनोवृद्भ्यः" [१।२।८८] "लुटि च क्लुपः" [१॥२।८६] इति वा मविधिः । वृतादयः पञ्च वृत्पर्यन्ताः । वृत्करणमिहार्थ छताद्यर्थ च । द्विगता अपि हेतवो भवन्तीति | इह कथं विवृत्सत्वम् । अत्रापि मे इति विषयनिर्देशान्मेनोपलक्षितानां वृतादीनां नेट् भवति । तेन हेरुपि कृति च इडभावः सिद्धः । विवृत्सिता । दविषये तु विवर्तिषस्व । विवर्तिषितुम् । घोपदेशेऽत्वदचसृजिदृशस्तासौ नित्यानिटस्थेऽव्यादः ॥५॥१॥१०८॥ उपदेशे अकारवद्भयः अजन्तेभ्यः सृजि दृशि इत्येताभ्यां च तासौ नित्यानिड्भ्यः थे वा इद् भवति व्या अद इत्येतौ वर्जयित्वा । कादिनियमादिटि प्राप्त विकल्पः । अत्वान्-पक्ता । पपक्थ । पेचिथ । शक्ता । शशक्थ । शेकिथ । अचयाता। ययाथ । ययिथ । चेता। चिचेथ । चिचयिथ । होता। जुहोथ । जुहविथ । सप्टा । सनष्ठ । ससजिथ । दृश-द्रष्टा। दद्रष्ट। ददर्शिथ । उपदेश इति किम् ? का। चकर्षिथ । एतेषामिति किम ? भेता । विभेदिथ । तासाविति किम् ? गन्ता । जगन्थ । जगमिथ । नित्यानिट एवोच्यमाने अयं गमिर्नित्यानिएन भवति । सकारादाविटत्वात् “गमेरिरामे" [५।१।१०६] इति । अतोऽस्य विकल्पो न स्यात् । तथा-जिघृक्षति । जग्रहिथ । लुत्ला । लुलविथ । “सनि ग्रहगुहश्च" [५।१।११८] "श्रू युकः किति" [५/१११७] इति सनि किति च नित्यानिटाविमौ न तु तासौ। नित्यग्रहणं किम् ? अङक्ता । अञ्जिता । यानजिथ । विधोता । विधविता । विदुधविथ । तासौ विभापितेऽटोऽनिटकार्य मा भूत् । असति तु नित्यग्रहणे पाक्षिकेणापि ही इभावे वाऽनिड्भवत्येव । यथा गुदो विभाषितेटोऽपि अनिट्कार्य "शलोऽनिटोऽदृशः क्सः” [२।१।४०] इति क्सः। अवक्षत । थ इति किम् ? पेचिम। यविव । ययिम । अव्याद इति किम ? व्याता। विव्ययिष। अत्ता। यादिथ । “तदादेशास्तद्ग्रहणेन गृह्यन्ते" [प.] जघसिथ । अत्वदिति तपरकरणं किम् ? राद्धा। रराधिथ । - ऋतः ॥५॥१।२०६॥ उपदेशे ऋकारान्तात्तासौ नित्यानिटः थे नेड् भवति । कर्ता । चकर्थ । हर्ता । जहर्थ । स्मर्ता । सस्मर्थ । धर्ता । दधर्थ । तपरकरणमसन्देहार्थम् । यदि विकल्पः स्यादजन्तत्वात् पूर्वेणैव सिद्धः । यदि विधिरिष्टः स्यादव्याद इत्यत्रैव कारस्य पयुदासः क्रियेत पृथग्योगकरणमनर्थकम् । तस्मात्पारिशेष्यात् “न वृताः " [५/१११०७] इत्यतः प्रकृतः प्रतिषेध एवाभिसम्बध्यते । असुटः इत्यनुवर्तते । सञ्चस्करिथ । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy