________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४४
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० १ सू० ६२-७०
पथिमध्यमुक्षामात् ||५|१ | ६२ || पथिन् मधिन् ऋभुक्षिन् इत्येतेषामाकारादेशो भवति सौ परतः । पन्थाः । मन्थाः । ऋभुक्षाः । " अन्तेऽलः " [१/१/४६ ] इति नकारस्यात्यम् | "ए" [ ५।११६३] इती कारस्यापि । “स्वेऽको दी : " [४|३८८ ] |
Acharya Shri Kailassagarsuri Gyanmandir
ए || ५|११६३॥ पथ्यादीनामवयवस्येकारस्याकारादेशो भवति धे परतः । पन्थाः पन्थानौ । पन्थानः पन्थानम् । पन्थानौ । एवं मन्थाः । मन्थानौ । ऋभुक्षाः । ऋभुक्षाणौ । एरित्यत्र तपरत्वाभावादिह कस्मान्न भव त्यात्वं पथोरिति ? पन्थानमिच्छति । "स्वेपः क्यच् ” [२|१|६ ] | “नः क्ये" [१|२| १०४ ] इति पदत्वम् । मृन्त नखम् “दीरकृद्गे” [५/२/१३४] इति दीत्वम् | पथीयतेः क्विप् । “श्रतः खम् " [४ | ४|५० ] | "बलि ध्योः खम् [ ४ | ३ | ५५ ] इति यखम् । इदानीं धे परत आत्वं प्राप्नोति । "परेऽचः पूर्वविधौ” [१/१/५७ ] इति स्थानिवद्भा वादकारेण व्यवधानान्न भवति । "न पदान्तद्वित्व [१/३/५८ ] इत्यादिना तु यखविधिमेव प्रति स्थानिवद्भाव प्रतिषेधः । आत्वविधिश्चायम् । ईविधिं प्रति कस्मान्न स्थानिवद्भावप्रतिषेधः । ईकारे विधि विधिरिति तत्र विग्रहः । ये चायं विधिकारे । “कौ नष्टं न स्थानिवत्" [प०] इति कस्मान्न प्रतिषेधः । तत्रापि "कौ विधिं प्रति नष्टं न स्थानिवत्" [प०] । घे चायं विधिर्न कौ । श्रवश्यमेवं विज्ञेयम् । अन्यथा कौ निमित्तभूते नई न स्थानिवद्भवतीत्युच्यमाने लौरिति न सिध्यति । लवमाचष्टे णिच् । “श्रतः खम् " [४] ४/५० ] लवतेः किं । गेः खम् । अत्रापि णिखमेव क्विनिमित्तम् नातः रूम् । ततः " परेऽचः पूर्वविधौ " [१/१/५७] इति स्थानिवद्भावादकारेण व्यवधानादूण्न स्वात् । "क्वौ विधिं प्रति नष्टं न स्थानिवत्" [१०] इत्युच्य माने सर्वस्य स्थानिवद्भावप्रतिषेधाल्लरिति सिद्धम् ।
थो न्थः ॥ ५६॥६४॥ पथ्यादीनां थकारस्य न्थादेशो भवति धे परतः । उक्तान्येवोदाहरणानि । त्रयाणामप्यवृत्तौ सम्भवात्पथिमथोस्थस्य न्थादेशः ।
भस्य टेः खम् ||५|१|६५ ॥ पथ्यादीनां भसंज्ञकानां टेः खं भवति । पथः पश्य । पथा । पथे । मथः मथा । मथे । ऋभुक्षः पश्य । ऋभुक्षा । ऋभुक्षे । भस्येति किम् ? पथिभ्याम् । ध इत्यनुवर्तमानमपीह न सम्बध्यते ।
पुंसोऽसुङ || ५|१|६६ || पुंसोऽसुङ्ङादेशो भवति धे परतः । पुमान् । पुमांसौ । पुमांसः । पुमांसम् । पुमांसौ । ध इत्येव पुंसः पश्य । “पुनातेर्मुकसुकौ प्रश्च" [उ. सू. ] इति पुंस् ।
गोर्णित् ||५|१|६७ ॥ घस्य विभक्तिविपरिणामः । गोशब्दात्परं धं द्विद्भवति । णित्कार्य भवतीत्यर्थः । गौः । गच्छतीति “गमेडस्" [ उ. सू. ] । गावः । सुगौः । इह कस्मान्न भवति ? हे चित्रगो । हे चित्रगवः । विहितविशेषणाददोषः । गोरेकत्वादिष्वर्थेषु विहितं धं द्विद्भवति । चित्रगुशब्दात्त्यन्यपदार्थादेकत्वादिधम् । अतिदेशोऽयं विनापि वतं लभ्यते । यथा गौर्वाहीकः । गौरित्युक्ते गोवदिति गम्यते । एवमिहाप्यरिणतं त्यं रितमाह । द्विदिति गम्यते । गोराविति सिद्धे रिएदिति प्रतिपत्तिगौरवं किम् ? कचिदन्यत्राप्यतिदेशो यथा स्यात् । तेन योशब्दस्य द्यौः । यायौ । द्यावः ।
चास्मरणम् ||५|१|६८ ॥ श्रस्मदो वा गल् खिद्भवति । अहं पपच । अहं पपाच । अहं चकर । अहं चकार । अस्मदिति त्रिकस्य संज्ञा । “मिङविशोऽस्मद्युष्मदन्याः " [ १/२/१५२] इति । अस्मदिति किम् ?
स पपाच ।
सख्युरकौ ||५|१|६६॥ वेति नानुवर्तते । श्रकौ यः सखिशब्दस्तस्मात्परं धं द्विद्भवति । सखायौ । सखायः । सखायम् । सखायौ । काविति किम् ? हे सखे ।
श्रनङ
सौ || ५|१|७० ॥ सख्युरनङादेशो भवति कौ सौ परतः । सखा । श्रावित्येव । हे सखे ।
For Private And Personal Use Only