________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० ५ पा० १ सू०७१-८३ ]
महावृत्तिसहितम्
ऋदुशनस्पुरुदंशोऽनेहसाम् ॥५॥११७१।। ऋकारान्तानाम उशनस् , पुरुदेशस् , अनेहस इत्येतेषां चानङादेशो भवति सावको परतः । कर्ता। पिता । माता। उशना। पुरुदंशा। नेहा । अकाविति किम ! हे कर्तः। हे मातः । हे पितः । हे उशनः । हे पुरुदंशः। हे अनेहः । "उशनसः कौ रूप्यमेके वाञ्छन्ति । नान्तमदन्तं सान्तमिनि । कथं नान्तता । अकावित्यनुवर्तते। स च नीषदर्थ द्रष्टव्यः । तेन क्वचिकावयनङ् । हे उशनन् । तथा “नखं मृदन्तस्याको" [५/३।३०] इत्यत्रापि नत्रीषदर्थ एव । तेन कावपि नखम् । हे उरान । यदा अनङ् न भवति तदा हे उशनः । ऋदिति तपरकरणमसन्देहार्थम् । “ग निगरणे" [धा०] इत्याद्यनुकरगनिवृत्त्यर्थं च गृरिति मया श्रुतः ।
चतुरनडुहोची ॥१॥७२॥ चतुर् अनडुह् इत्येतयोरुकारस्य वा इत्ययमादेशो भवति धे परतः । अनडुह इत्यत्र "द्वन्द्वाच्चुदहपो रार्थे" [।१०८] इत्यः सान्तोऽन्यथाऽन्तर्वतिविभक्ति कृतपदाश्रयो हकारस्य दः स्यात् । चत्वारि । चत्वारः । अनड्वान् । अनड़वाहो । अनड्वाहः। गोः प्राधान्यात्तदन्तविधिरपि । चतुरडुहन्तस्य गोर्वाऽऽदेशो भवत्यभिसंबन्धात् । केवलयोस्तु व्यपदेशिवद्भावः । प्रियचत्वारि । प्रियचत्वारः । प्रियानड्वान् । प्रियान इबाही । प्रियानड्वाहः । अनडुह, अनड्वाह, इति गौरादावुभयग्रहणात् अनडुही। अनड्वाही । इद्द क्रोष्ट्र क्रोष्टुशब्दा एकार्थी ऋदुदन्तौ त्तस्तत्र धे स्त्रियां च क्रोष्टशब्दस्यैव प्रयोगः-क्रोष्टा । क्रोप्यरो । क्रोष्टारः । कोष्टारम् । क्रोप्टारौ । क्रोष्ट्री । भादिष्वजादिषूभयोः । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोप्टवे । क्रोप्टुः । क्रोटोः । क्रोष्ट्रोः । क्रोष्ट्योः । क्रोष्टरि । क्रोष्टौ । को शस्यामि हलादौ च कोटुशब्दस्यैव । हे कोप्टो । कोष्टून् । कोष्टुभ्याम् । क्रोष्टुभिः । क्रोष्टुभ्यः । क्रोष्ट्रनाम् । क्रोष्टषु । अभिधानलक्षणाः कृद्धत्साः । "सितनिगमिमसिशच्यविधाञ्क्रुशिभ्यस्तुः" [उ० सू०] ।
वः कौ ॥४७३॥ चतुरनडुहोरुकारस्य व इत्ययमादेशो भवति को परतः । हे अतिचत्वः । हे अनड्वन् । वाऽऽदेशापवादोऽयम् ।
__ ऋत इद्धोः ॥५॥१७॥ ऋकारान्तस्य धोर्गोरिकारादेशो भवति । किरति । गिरति । अास्तीर्णः । विस्तीर्णः । विकीर्यते । स्तृञः क्ते वृतः “सनीड़ वा" [५/१।८६] इति विभापित इट् । “यस्य वा" [५/१।१२१] इति प्रतिषेधः । घोरिति किम् ? मातृणाम् । पितृणाम् । ननु लाक्षणिकं तदत्र कथं प्राप्तिाक्षणिकस्याप्यत्र ग्रहणमिप्यते। चिकीर्पिता।
[उंङः ॥५॥११७५॥ पुवादुप् ॥५११७६॥ सावेम्मे ॥१७॥ हलामचः ॥५॥१७॥ ब्रजवदल्नोऽतः ॥५॥१॥७६॥ नेटि ॥१८०॥ हम्यतणश्वसजागृणिश्व्येदिताम् ॥१॥८१॥ ]
बोर्गुञः ॥५॥११८२॥ उणु इडाद सौ मपरे वा ऐन्भवति । प्राप्ते विकल्पोऽयम् । प्रौर्णावीत् । प्रोणबीन् । यदा तु "इड्विजः” [१।११७६] इत्यनुवर्तमाने “वोर्णोः” [१७] इति ङित्वम् , तदा एवैयौः प्रतिषेधः । प्रौणु बीत ।
अतोऽनादयः ॥५॥१॥३॥ अनादेरतो घेवां ऐब्भवति इडादौ सौ मपरे । अकणीत् । अकाणीत् । अरणीत् । अरागीत् । अत इति किम् ? अदेवीत् । असेवीत् । तथा न्यकुटीत् । न्यपुटीत । ननु चात्र कुटादित्यारित्वे सत्येप्प्रतिषेधो भविष्यति । इग्लक्षणस्य स प्रतिषः धिलक्षणश्चायम् । अनादेरिति किम् ? मा निरशीत | मा निरटीत् । घेरिति किम ? अतक्षीत् । अरक्षीत् । इडादावित्येव । श्रधान्नीत् । इह कस्मान्न भवति । अचकामीदिति चकारेऽकारस्य । यस्य न व्यवधानं तत्याकारत्य विकल्पः । अत्र तु कासशब्देन
१. प्रतिषु [ मनुसृत्यात्र निर्दिष्टानि ।
] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्थुटिता। सूत्राणि तु जैनेन्द्रपञ्चाध्यायी
For Private And Personal Use Only