________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० १ सू० ५४ - ६१ ]
महावृत्तिसहितम्
सक्थ्यस्थिदध्य क्षणा मनङ || ५|१|५४ ॥ सक्थि अस्थि दधि यक्षि इत्येतेषां नपामनङादेशो भवति । सक्थना | सक्ने । अस्थमा । अस्थ्ने । दध्ना | दध्ने | अणा । अणे । भादावित्येव । श्रस्थिनी । अचीत्येव । अस्थिभ्याम् । प्रियसकथना व्याधेन । गोः प्राधान्यात्तदन्तविधिरपि सक्थ्यादीनां नपुंसकानाम् । तदन्तस्य नपुंसकस्यानपुंसकस्य च गोरनङादेशो भवति । केवलानां सक्ध्यादीनां व्यपदेशिवद्भावाद्गुत्वम् । " व्यपदेशो न मृदा" [प०] इतीयं परिभाषा त्यविषया नेहावतिष्ठते । नम इति किम् ? दधिनोंम कश्चित् तेन दधिना । लोकप्रसिद्धशब्दानुशासनं हृीदमिति लोकसिद्धेनानङा सूत्रनिर्देशः । सुरीकोऽचीत्येव । नप इति प्रकृतिविशेषमिह गृह्यमाणविशेषणमिति पुंलिङ्गः समुदायोऽनङोऽवकाशः प्रियक्धना पुरुषेण ।
विनी सक्थिनी । दत्यादौ परत्वादन |
३४३
विदेः शतुर्वसुः ||५|१|५५ || भादावजादौ सुपीति निवृत्तम् । विदेः परस्य शतुर्वसुरादेशो भवति । विद्वान् | विद्वांसौ | विद्वांसः । विद्वांसम् । विद्वांसौ । विदेरिति कानिर्देशाद्विन्दतेर्निवृत्तिः । वेत्यनुवर्तत इत्येके । विदन् । विदन्ती ।
नथात् ||५|१|५६ || मनुवर्तते प्रकृतत्वात् । थादुत्तरस्य शत्रुर्नुम्न भवति । ददत् । ददतौ । ददतः । ददतम् । ददतौ । जाग्रत् । जाग्रती । जाग्रतः । जाग्रतम् । जाग्रतौ । “उगिदचां घेऽधो: " [ ५1१1४६] इत्यस्य प्रतिषेधः |
वा नः ||५||२७|| थादुत्तरस्य नपुंसकस्य शतुर्वा नुम् भवति । ददन्ति कुलानि । ददति कुलानि । जाग्रन्ति कुलानि । जाग्रति कुलानि । “नपोऽज्झल: " [५११५१] इति नुम्विकल्पितः । उगिल्लक्षणस्तु "सद्गते पर निर्णये बाधितो बाधित एव" [१०] इति ।
शीघोरात् ||५|१|५८ ॥ श्रवर्णान्ताद् गोः परस्य शतुर्वा नुम् भवति शी मु इत्येतयोः परतः । तुदती कुले । तुदन्ती कुले । तुदती स्त्री । तुदन्ती स्त्री । याती कुले । यान्ती कुले । याती बड़वा । यन्ती वड़वा । करिध्यती कुले । करिष्यन्ती कुले । करिष्यती स्त्री । करिष्यन्ती स्त्री । आदिति किम् ? ती स्त्री । घ्नती स्त्री । अवर्णमात्राश्रयत्वेनान्तरङ्गत्वात्प्राङ्नुमः पररूपम्, “वाद् गावं बलीयः " [प०] इत्यपि नास्ति भिन्नकालत्वात् । समकाल हि बलाबलं चिन्त्यते । भिन्नकालता च पूर्वमेकादेशः पश्चान्नुम् । एकादेशे कृते व्यपवर्गाभावादवर्णान्ताद्गोदत्तरस्य शत्रुरिति न घटते । " श्राद्यन्तवदेकस्मिन्" [तद्वत् ४ | ३ |७३] इति तद्वद्भावोऽपि न सम्भवति । “उभयत आश्रयणे न तद्भावः " [प० ] इति वचनात् । उभयं ह्यत्राश्रीयतेऽवर्णान्तो गुः शता च । यद्येकादेशः पूर्व प्रत्यन्तद्भवति तदा शता न विद्यते । अथ परं प्रत्यादिवत्तदाऽवर्णान्तो गुर्नास्ति । भूतपूर्वगत्याऽवर्णान्तस्य गोराश्रयणे श्रतीत्यादिध्वपि स्यात् । अत्रापि भूतपूर्वगत्या शप् । एवं तर्हि सूत्रसामर्थ्याद्भूतपूर्वगतिराश्रयणीया । श्रतीत्यादिषु तु नुम्न भवति श्रादिति निर्देशात् । अन्यथा शीम्वोरित्येव वाच्येत अवस्थासम्भवात् ।
श्यपः || ५|१|५६ ॥ श्य शपू इत्येताभ्यां परस्य शतुर्नुम् भवति शीवोः परतः । दीव्यन्ती कुले । दीव्यन्ती स्त्री । पचन्ती कुले । पचन्ती स्त्री | पुनरारम्भो नित्यार्थः ।
सावनडुहः ||५|१|३०|| बेति निवृत्तम् । अनडुह इत्येतस्य नुम् भवति सौ परतः । अनड्वान् । हे नवन् ।
For Private And Personal Use Only
दि त् ||५|१|६१ ॥ दिव् इत्येतस्य सौ परत औकारादेशो भवति । द्यौरारुह्यते पुण्येन । हे द्यौः । सुखे प्राते परत्वादकारादेशः । “अनल्विधौ” [१११/५६ ] इति स्थानिवद्भावप्रतिषेधात्पुनर्न सुखम् । अथेह कस्मान्न भवति अक्षद्यूरिति । अत्रान्तरङ्गत्वादृट् । अन्तरङ्गता च कौ वकारस्योट् क्यन्तस्य सावकारः । व्युत्पत्तिः “दिवेडिव्” [ उ० सू० ] इति दिव् !