________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० ५ पा० १ सू० ५०-५३
३४२
मार्थम् । उगितकार्ये धुध्वस्यैव । तेनेह न भवति । उखास्रत् । पर्यध्वत् । अधोरिति ग्रहणं पर्युदासार्थम् । धोरन्यस्य अधुभूतपूर्वस्य यथा स्यात् । गोमत्यत इति गोमान् । गोमानिवाचरति "कर्तुः क्यङ सखं विभाषा" [२] इति क्यङि कृते क्विप्यागतनिवृत्ते अतः के यखे च कृते सौ नुम् “अत्वसोऽघोः " [४|४|१२] इति
दीत्वम् ।
युजेरसे || ५|१|५० ॥ युजि इत्येतस्यासे नुम्भवति धे परतः । युङ् । युञ्जौ । युञ्जः । " ऋत्विग्दष्टकू” [ २२/५७ ] इत्यादिना | "विवत्यस्य कुः " [५/३२७५ ] | ऋत इति किम् ? अश्वयुक् । ग्रश्वयुजी । 'ससूद्विष" [ २/२/५६ ] इत्यादिना क्विप् । “वागमिङ ” [१।३८२] इति पसः । स इत्यनर्थकम् । युजेरुच्यमानः कथं तदन्तस्य नुम् । इदमेव ज्ञापकम् "धोरधिकारे तदन्तविधिरप्यस्ति" [प०] इति । युजेरितीकारनिर्देशः किम् ? "युज् समाधौ ” [धा०] इत्यन्य ग्रहणं मा भूत् । युजमिच्छति मोक्षाय ।
पोऽज्भः || ५ | ११५१ ॥ नपुंसकलिङ्गस्याजन्तस्य दन्तस्य च नुम् भवति धे परतः । वनानि । धनानि । दधीनि । मधूनि । उदश्विन्ति । सर्पषि । अज्झल इति किम् ? विमलदिवि । चत्वारि । बहुगिरि । अहानि । “उगिदवां घेघो: " [५/१/४६] इति नुमं बाधित्वा परत्वादनेन नुम् । ददन्ति । जाग्रन्ति । जगन्ति ।
सुपीकोऽचि || ५|१|५२ ॥ अजादौ सुपि परत इगन्तस्य नपो नुम् भवति । तुम्बुरु | पुणे | सुपीति किम् ? तुम्बुरुणो विकारः तौम्बुवं चूर्णम् । “कद्र वोरोऽस्वयम्भुवः” [४|४|१३४ ] इत्युकारस्योत्वम् । इक इति किम् ? वने । जले। अचीति किम् । जतुभ्याम् | अज्ग्रहणमनर्थकम् । हत्यपि नुमि नस्खे कृते सिध्यति जतुभ्यामिति । तथा श्रतिराभ्याम् प्रियतिसृभ्यां कुलाभ्यामित्यपि । रायमतिक्रान्ताभ्यां कुलाभ्याम् । “तिकुप्रादयः” [१|३|८३] इति पसे कृते । "प्रो नपि” [१/१/७ ] इति प्रादेशः । प्रियास्तिस्रो ययोः कुलयोरिति विग्रहे बस: । अत्र परत्वान्नुमं बाधित्वा "राम्रो हलि" [ ५|१|१४४ ] इत्यालं तिसृभावः । " सकृद्गते परनिर्णये बाधित एव" [प] इति तिसृशब्दस्य पुनर्नुम्न भवति । शुचिशब्दस्यापि नपुंसकलिङ्गविवक्षायामामि परतः पूर्वविप्रतिषेधेन नुटि कृते नुम् । मृदन्तस्य नुमः खम् । "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' [प०] इति" इन्हन्पूषाणाम्” [ ४/४/६] "शौ” [४|४|१०] इत्यस्य नियमस्याभावात् “नोङः” [ ४/४/५ ] इति दीवे कृते सिद्धं शुचीनामिति । यत्र नखं नास्ति तत्र श्रवणं स्यात् । हे जानो । “नोमता गोः " [1११६४ ] इति प्रतिषेधात्कथन्नुम् ? इदमेवाज्ग्रहणं ज्ञापकम् । अनित्यः सप्रतिपेधः । तेन कौ प्रस्यैपि कृते सिद्धं हे पो इति । उत्तरार्थं च ।
भादौ वोक्तपुंस्कं पुंवत् ||५|१|२३|| अर्थवशाद्विभक्तिविपरिणामः । इगन्तं नप् उक्तपुंस्कं भादावजादी परतो वा पुंवद्भवति । शुचिः साधुः । शुचि साधुवृत्तम् । शुचये । शुचिने वस्त्राय । अग्रणी - दण्डश्चक्रिणः । अग्रणि दण्डरत्नम् । पुंवद्भावपचे " प्रो नपि" [9191७ ] इति प्रादेशाभावः । " एर्गिवाक्चादुङोsसुधियः" [४|४|७८ ] इति यणू च । अग्रण्या । अग्रणिना । अमण्ये । श्रप्रणिने । अग्रण्यः । अग्रणिनः । अग्रयोः । अग्रणिनोः । अग्रण्याम् । अग्रणीनाम् । पूर्वविप्रतिषेधेन नुट् । श्रभ्याम् । अग्रणिनि इत्यत्र कृताकृतप्रसङ्गित्वेन नित्यत्वात् "ङ राम् म्वाम्नीभ्यः " [ ५/२/११० ] इत्याम् । मृदवे मृदुने वस्त्राय । कर्ता नरः । कर्तृ कुलम् । कर्त्रा कर्तृणा । कत्रे । कर्तृ । इक इत्येव । जलपाः पुरुषः । जलपं कुलम् । जलवेन । विचीदं रूपम् | अचीत्येव ग्रामणिभ्याम् । प्रादेशो भवत्येव । भादाविति किम् ? मणिनो दण्डचक्ररत्ने । उक्तपुंस्कमिति किम् ? त्रपुणे । भादावुक्तपुंस्काद्वेति सिद्धे नपो विकल्प पुंवद्ग्रहणसामर्थ्यादप्रकृतस्यापि प्रादेशस्य विकल्पः । उक्तः पुमान् येन तुल्ये प्रवृत्तिनिमित्तेऽर्थे तदुक्तपुंस्कं शब्दरूपं गृह्यते । तेन भिन्नप्रवृत्तिनिमित्तस्य पुंसि नपुंसकशब्दस्य विकल्पो न भवति । पीलुने फलाय | पीलुशब्दस्य वृक्षे समुदायः प्रवृत्तिनिमित्त फले तु तदवयवः ।
1
For Private And Personal Use Only