________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० १ सू० ४०-४६) महावृत्तिसहितम्
३४१ श्रित्य स्फादेः सस्य खम् । नुमोऽनुस्वारपरस्वत्वे । झलीति किम् ? मजनम् । नशिता । मस्जेः "झलां जशु झशि" [५।४।१२८] इति सकारस्य दत्वम् । दस्य च चुत्वं जकारः । “रधादेः” [५।१।६३] वेट ।
रधिजभोरचि ॥५१॥४०॥ रधि जभ इत्येतयोः अजादौ परतो नुम् भवति । रन्धयति । रन्धकः । साधुरन्धी । रन्धं रन्धम् । रन्धो वर्तते । जम्भयति । जम्भकः । साधुजम्भी | जम्भो वर्तते । कृताकृतप्रसङ्गित्वेनैपः प्रागेव नुम् । अचीति किम् ? रद्धा । जभ्यम् ।
लिटीटि रधेः ॥१४॥ रधेर्नुम भवति इडादौ लिटि परतः । ररन्धिव । ररन्धिम । नुमविधानसामर्थ्यत् "हलुङः वित्यनिदितः" [४।४।२२] इति नखं न भवति । नित्यार्थोऽयं योगः। लिस्येव इडादौ नान्यस्मिन् । रधिता । रधितुम् । विपरीतो नियमः करमान्न भवति ? इडादावेव लिटीति । इह न स्यात् । ररन्धतुः। ररन्धुः। नैवं योगविभागादिष्टप्रसिद्धः। लिटीटीति योगः कर्तव्यः । तदनु रधेरिति । रधेलिटीटि नुम भवति । रधेरिति पृथकरणं किमर्थम ? लिटीटीत्यत्रेष्टनियमसिद्धिर्यथा स्यात् । लिट्यवेडादौ रधेनु मिति ।।
रभोऽशब्लिटोः ॥१॥४२॥ रभो गोर्नुम् भवति अजादौ न तु शब्लिटोः । आरम्भयामि । आरम्भकः । साध्वारम्भी। प्रारम्भमारम्भम् । आरम्भो वर्तते। अशब्लिटोरिति किम् ? आरम्भते । आरेभे। अचीत्येव । आरम्भम् । अशब्लिटोरित्यत्र प्रसज्यप्रतिषेधः । नत्रः सापेक्षस्यापि गमकत्वादनुष्णभोज्यादिवत्सविधिः ।
लभेः ॥१४३॥ लभेः शब्लिड्वर्जितेऽजादौ नुम्भवति। आलम्भयति । आलम्भकः । साध्वालम्भी। आलम्भमालम्भम् । आलम्भो वर्तते । अशब्लिटोरित्येव । अालमते । आलेभे। अचीत्येव । लभ्यम् । पृथग्योगकरणमुत्तरार्थम् ।
प्राङो यि ॥५॥१॥४४॥ आङ्पर्वस्य लभेर्यकारादौ त्ये परतो नुम् भवति । पालम्भ्या गौब्राह्मणेन । श्राङ इति किम् ? लभ्यम् । यीति किम् ? आलब्धा । आलभ्य गत इत्यत्र कृतेऽपि नुमि "हलुङः नित्यनिदितः" [४।४।२३] इति नखम् । मुम्वचनं त्वन्यत्र सावकाशम् ।
उपात्प्रशंसायाम् ॥५॥१॥४५॥ उपात्परस्य लभेः प्रशंसायाम) नुम् भवति यकारादी। उपलम्भ्या भवता विद्या । उपलम्भ्यानि धनानि । प्रशंसायामिति किम् ? उपलभ्यमत्माद् वृषलात् किञ्चित् ।
गेः खघोः ॥॥॥४६|| गेरुत्तरस्य लभेर्नुम् भवति खघोः परतः । सुप्रलम्भः । दुष्प्रलम्भः । घञि-प्रलम्भः । उपलम्भः । गेरिति किम् ? ईपल्लभो लाभः । नियमार्थोऽयं योगः । गेरेव खघोः । अथ रोः खघोरेव कस्मान्न भवति 'शप उपलम्भने' [धा०] इत्यादिनिर्देशात् ।
___न सुदुर्ध्या केवलाभ्याम् ॥५॥१॥४७॥ सु दुस् इत्येताभ्यां केवलाभ्यां परस्य लभेर्नु न भवति । सुलभो दुर्लभः । कृच्छाकृच्छार्थदन्यत्र घन । सुलाभो दुर्लाभः । केवलाभ्यामिति किम् ? सुप्रलम्भः । दुष्प्रलम्भः । अतिसुलम्भः । जिग्रहणानुवृत्तेः सुदुसोग्र्योर्ग्रहणम् । अतिसुलभमिति कथम् ? "अतिक्रमे चातिः" [1] इति अतेर्गिसंज्ञाऽभावात् सुः केवल एव गिः । केवलग्रहणं हि तुल्यजातीयस्य गेनिवर्तकम् । अक्रियमाणेऽपि केवलग्रहणे सुदुसोः सन्निधाने उच्यमानं कार्य कथमन्याधिकयोरपि । इदमेव ज्ञापकं क्वचित्केवलस्य सन्निधाने उच्यमानमन्याधिकस्यापि भवति । तेन "निविश" [६।२।११] इत्यत्र निविशते अभिनिविशत इति सिद्धम् ।
मिणमोऽगेः ॥५॥१॥४८॥ अगिपूर्वस्य लभेर्वा नुम् भवति भिणमोः परतः । अलम्भि। अलाभि । लम्भं लम्भम् । लाभ लाभम् । अगेरिति किम् ? प्रालम्भि । प्रलम्भं प्रलम्भम् ।
उगिदचा घेऽधोः ।।५।११४६॥ उगितां गूनाम् अञ्चतेश्च घे परतो नुम् भवत्यधोः । गोमान् । धनवान् । विद्वान् । श्रेयान् । भवान् । पचन् । पचन्तौ । पचन्तः । अञ्चतेः प्राङ् । प्राञ्चौ। प्राञ्चः। उगिदचामिति किम ? वाक । बाचौ । वाचः । धे इति किम् ? पचतः पश्य । गोमतः पश्य । अञ्चतिग्रहणं निय.
For Private And Personal Use Only