________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० १ सू० १६-२६] महावृत्तिसहितम्
"अनुरक्तः शुचिर्दक्षः श्रुतवान् देशकालविद् ।
"वपुष्मान कान्तिमान् वाग्मी दूतः स्याद्यष्टभिर्गुणैः ॥” । "गोरधिकारे तदन्तस्य च" [१०] इति तदन्तादपि भवति । परमाष्टौ । प्रधाने कार्यसम्प्रत्ययादुसे न भवति । प्रियाष्टान इति । "उबिलः" ५ि/१६] इति उपि प्राप्ते औशारभ्यते न "सुपो धुमृदोः" [११४१४२] इति । तेन अष्टौ गुणा यस्य सोऽष्टगुणः। ओशिति सिद्धे औशग्रहणं किम् ? अष्टावाचक्षते अष्टयन्तीति । क्वियागतनिवृत्ते अष्टाविति यथा स्यात् ।
उबिलः ॥११॥१६॥ इल्संज्ञकादुत्तरयोर्जश्शसोरुब्भवति । पट तिष्ठन्ति । षट् पश्य। एवं पञ्च । नव । परमपञ्च । प्रधाने कार्यसम्प्रत्ययादिह न भवति । प्रियषषः । प्रियपञ्चानः ।
नपः स्वमोः ॥५॥१।२० नबिति नपुंसकलिङ्गं पूर्वाचार्यस्य संज्ञेयम् । तस्मादुत्तरयोः स्वमोरुब्भवति । दधि पश्य । मधु तिष्ठति। मधु पश्य। तत्कुलमित्यत्र त्यदाद्यत्वं बाधित्वा कृताकृतप्रसङ्गित्वेन नित्यत्वादुम् । नन्वत्वे कृते लक्षणान्तरेणाम्भावे सत्यनित्य उप ? नैवम् । “यस्य च लक्षणान्तरेण निमित्त विहन्यते न तदनित्यम्” [प०] इति ।
अतोऽम् ॥११॥२१॥ अकारान्तान्नपः परयोः त्वमोरम्भवति । धनम् । वनम् । तपरकरणं मुखसुखाथम् | मादेशे क्रियमाणे सुपीति दीत्वं स्यात् । अतिजरसं कुलं पश्येति च न स्यात । “सन्निपातलचाणो विधिरनिमित्त तद्विघातस्य' [प०] इत्यम उम्न भवति ।
डतरादेः पञ्चकस्य दुक् ॥५॥१॥२२॥ डतरादेः पञ्चकस्य दुगागमो भवति स्वमोः परतः । कतरत्तिष्ठति । कतरत्पश्य। एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । पञ्चकस्येति किम् ? समम् । सिमम् । डतरेण सिद्ध अन्यतरग्रहणं किमर्थम् ? अन्यतमं वनम् । अनित्यमागमानुशासनमित्पेकतरस्य न भवति । एकतरं वनम् ।
- युष्मदस्मदो ङसोऽश् ॥५५२३॥ युष्मदस्मदित्येताभ्यामुत्तरस्य ङसोऽश भवति । तब स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् ।
डेंसुटोरम् ॥५१॥२४॥ युष्मदस्मद्भयां परस्य ः इत्येतस्य सुटश्च अमित्ययमादेशो भवति । तुभ्यम् । मह्यम् । त्वम् | अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् । “युवावी द्वौं" [५।१।१५१] । “आवि" [५।१।१४७] इति दस्यात्वम् । इपि पुनः “इपि" [५।१।१४६] इत्यात्वम् ।
शसो नः ॥५१॥२५॥ युष्मदस्मदित्येताभ्यां परस्य शसो नकारादेशो भवति । युष्मान् । अत्मान् पातु जिनः । “परस्यादेः” [११५१] इत्यकारस्य नकारः । “स्फान्तस्य खम् [५।३।४१] इति सकारस्य खम् । "इपि" [५।१।१४६] इत्यात्वम् । “नश्च पुसि" [४।३।६१] इति नत्यं न सिध्यत्यलिङ्गत्वायुप्मदरमदोः ।
भ्यसोऽभ्यम् ॥११॥२६॥ युष्मदस्मद्भ्यां परस्य भ्यसोऽभ्यमित्ययमादेशो भवति । युष्मभ्यं देयम् । अस्मभ्यं देयम् । “खमादेशे" [५।११४६] इति दखम् । "एप्यतोऽपदे" [४।३।८४] इति पररूपत्वम् ।
अत्कायाः ॥५॥१॥२७॥ युष्मदस्मद्भयां परस्य काया भ्यसोऽदित्ययमादेशो भवति । युष्मदधीते । अस्मदधीते ।
उसे ॥१॥२८॥ युष्मदरमद्भयाम् परस्य ङसेरदादेशो भवति । "त्वमावेके" [५/१११५६] । त्वत् । मत् ।
साम प्राकम् ॥५१२६॥ युष्मदस्मद्भ्याम् परस्य साम अाकमादेशो भवति । युष्माकम् । अस्माकम् । भाविनं सुटं भूतबदुपादाय साम इति निर्देशः कृतः। आकमि कृते सुणनिवृत्त्यर्थः। कमि क्रियमाणे
For Private And Personal Use Only