SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३८ जैनेन्द्र-व्याकरणम् वेरोः सिद्धसेन्स् ||५|१|७|| वेत्तेगनिमित्तभूतस्य भस्य रुडागमो भवति सिद्धसेनस्याचार्यस्य ते संविद्रताम् । संविदताम् । समद्रित । समविन्दत । " समो गमप्रच्छि” [ १/२/२४] इत्यादिना विदेदः । तिषा-निर्देश उन्त्रिकरणार्थः । तेन “चिद विचारणे" [घा. ] इत्यस्य शैवादिकस्य ग्रहणं न भवति । विन्दते । न । Acharya Shri Kailassagarsuri Gyanmandir [ ० ५ ० १ सू० ७६८ भिसोऽत ऐस् ||५|१|८|| अर्थवशाद्विभक्तिविपरिणामः । श्रत इत्यकारान्ताद् गोरुत्तरस्य भिम ऐस भवति । सुरैः । श्रसुरैः । चत्र "बही झल्येत्" [५२८] इति परत्वादेत्वं कस्मान्न भवति । कृतेऽप्ये भूतपूर्वगत्या पुनः प्राप्नोतीति नित्यत्वादैस् । एसिति सिद्ध ऐस्ग्रहणं किम् ? अतिजरखैः । “तिकुप्रादयः " [१1३1८१] इति से “खीगोर्नीचः” [91१/८ ] इति प्रादेशे च कृते । " एकदेशविकृतमनन्यवत् " [१०] इति जरशब्दस्यासङादेशः । “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " [१०] इति परिभाषेयमनित्या " कष्टाय” [२२१११२ ] इति ज्ञापकात् । श्रत इति किम् ? साधुभिः । तपरकरणं किम् ? विद्याभिः । इदमदसोः सकोः ॥५॥१६॥ इदम् श्रदम् इत्येतयोः सककारयोरेव मिस ऐम् भवति । इमकैः । "सर्वनाम्नो प्राक्: को दः” [४।१।१३० ] इत्यक् “दः " [५३८२] इति तस्य मत्वम् । श्रदसः "दादु दमोsसोsसेः " [ ५८ ] इति दात्परस्य वर्णमात्रस्योत्वं दस्य च मत्वम् । सकोरिति किम् ? एभिः । " बहौ झल्येत्” [५।२।१८] इत्येवम् | "हलि खम्" [५/१११७१ ] इतीदम इदः खम् । ग्रमस्तु “बहावीरेतः" [३] इतीत्वम् । इदमदसोरेव सकोरित्येवमवधारणं मा विज्ञायीति ज्ञापनार्थः । स्पेनान्ङस्टाङसेः ||५|१|१०|| अकारान्ताद्गोः परेषां ङटाङमि इत्येतेषां स्य इन यात् इत्येत आदेशा भवन्ति | इन्द्रस्य | चन्द्रस्य । इन्द्रेण | चन्द्रेण । इन्द्रात् | चन्द्रात् । ग्रत इत्येव । कर्त्रा । कर्तुः | ङेर्यः || ५|१|११|| कान्ताद्गोरुत्तरस्य ङे इत्येतस्य य इत्ययमादेशो भवति । इन्दाय | चन्द्राय | अत इति किम् ? गवे । नावे । सर्वनाम्नः स्मै ॥ ५|१|१२|| क. रान्तात्सर्वनाम्नो गोरुत्तरस्य के इत्येतस्य स्मै इत्ययमादेशो भवति । सर्वस्मै । तस्मै । ग्रमुष्मै । ग्रत इति किम् ? भवते । ङसिङयोः स्मात्स्मिनौ || ५|१|१३|| अकारान्तात्सर्वनाम्नो गोरुत्तरयोङसिङ इत्येतयोः स्मात् स्मिन् इत्येतावादेशौ भवतः । सर्वस्मात् । सर्वस्मिन् । यस्मात् । यस्मिन् । अत इत्येव । भवतः । भवति । जसः शी || ५|१|१४|| अकारान्तात्सर्वनाम्नो गोः परस्य जसः शी इत्ययमादेशो भवति । सर्व । एते । के । दीत्वग्रहणमुत्तरार्थम् । पयसी । दधिनी । For Private And Personal Use Only ङ आपः || ५ | १|१५|| श्रावन्ताद्गोः श्रङः शीत्ययमादेशो भवति । यामिति टापूडापोः सामान्येन ग्रहणम् | औङिति बेपोरौकारस्य पूर्वाचार्याणां संज्ञा । माले लम्बेते । माले पश्य । बहुराजे तिष्ठतः । बहुराजे पश्य । “अनश्च बात्” [३।१।१०] इति डापू । "अधिपरी अनर्थकौ” [१|४|१०] इति निर्देशात् “सोङिति ” [५/१/१०६ ] इत्यादिषु स्वशास्त्रसंज्ञया ङिदाश्रीयते । नयः || ५|१|१६|| नमो गोरुत्तरस्य श्रङः शीत्ययमादेशो भवति । दधिनी तिष्ठतः । दधिनी पश्य । एवं वने । जले । “नेच्यात" [ ४ | ३ |६२ ] इति "सुटि पूर्वस्वम्" [४|३|८६ ] दीनं भवति । जश्शासोः शिः || ५|१|१७|| नपः परयोर्जस् शस् इत्येतयोः शिरित्ययमादेशो भवति । दधीनि तिष्ठन्ति । दधीनि पश्य । एवं मधूनि । वनानि । धनानि । जसा सहचरितस्य शसो ग्रहणादिह नेष्यते । पात्रशो ददाति । अष्टाभ्य औश् ||५|१|१८ ॥ श्रष्टन शब्दात्परयोर्जस्सोरौश भवति । श्रष्टौ तिष्ठन्ति । अष्टौ पश्य । अष्टन इति सिद्धे अष्टाभ्य इति कृतात्वस्योच्चारणं किम् ? कौवात्वं तत्रैवौश्भावो यथा स्यात् । ननु नित्यमात्यम् । इदमेवं ज्ञापकमात्यविकल्पस्य । अष्ट तिष्ठन्ति । ऋष्ट पश्य ।
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy