________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० १ सू० १-६ ]
महावृत्तिसहितम्
३३७
हत्यम् । इदमेव ज्ञापकं " हनस्तोऽञिलोः [५/२/३६ ] इति धोस्त्य एव नान्यत्र हन्तेस्तत्वम् । तेनेह न भवति । वार्त्रघ्न इति । धन्नो भावो धैवत्यम् । सरयूशब्दस्य अणि परतो यखं निपात्यते । सारखं जलम् । इदवाकोरपत्यम् ऐवाकः । “राष्ट्र शब्दाद्राज्ञोऽञ्” [३|१|१५० ] इति अनि उकारस्य खं निपात्यते । "तस्येदम् [३श३८८] इति वा भवार्थे “कोड: " [३।२।११०] इति वाऽणि मित्रयोरपत्यं मैत्रेयः " गृष्ट्यादेः " [३|१|१२४ ] इति दृणि कृते “यादेरिय्” [५|२|७] यादो युशब्दस्य खं निपात्यते । वादेरियादेशस्तु विदादित्वादनि कृते द्रष्टव्यः । अञन्तस्य सङ्घादिविवक्षायां “सङ्गाङ्गलक्षणघोपेऽन्यत्रिजामण" [ ३।३।१५ ] इति णि कृते मैत्रेयः सङ्घः । दन्तस्य सङ्घादौ "वृद्धचरणाजित्" [ ३।३।१४] इति वुनि मैत्रेयकः सङ्घ इति भवति । हिरण्यस्य विकारः । “मयड्वैतयोरभयाच्छादनयोः ” [३|३|१०८ ] इति मयटि कृते यशब्दस्य खम् । हिरण्मयं जिनगृहम् |
इत्यभयनन्दिविरचितायां महावृत्ती चतुर्थास्याध्यायस्य चतुर्थः पादः समाप्तः ।
पञ्चमोऽध्यायः
युवा || ५|१|१|| यु वु इत्येतयोर्गानिमित्तभूतयोः न क इत्येतावादेशौ भवतः । युवोरित्यु - त्सृष्टविशेषणयोः सामान्यग्रहणम् । योरनः । वोरकः । नन्यादेल्युः नन्दनो रमण: । " वुतृचौ” [२|१|१०६ ] कारको हारकः । एवमाङ्गको वाङ्गकः । श्रङ्गे जातो भवो वेति विगृह्य "बहुत्वेऽदोरपि " [३।२।१०३] इति वुञ । योः कृत एव ग्रहणं व्याख्यानात् । तेनेह न भवति । उर्णायुः । शुभंयुः । उणादीनां बहुलं त्यज्ञा तेनेह न भवति भुज्नुः । “भुजिमृद्भ्यां युक्त्युकौ" [उ० सू० ३।२१] इति युक् ।
श्रायनेयीनीयियः फढखछघां त्यादीनाम् ||५|१२|| द ख छत्र इत्येतेषां [त्यादी वर्तमानानां निरचाम् ग्रायन् एय् ईन् ईय् इह्य् इत्येते श्रादेशा यथासंख्यं भवन्ति । "नडादेः फण्” [३।१।८८] नाडायनः । चारायणः । “स्त्रीभ्यो ढण्” [३।१।१०६ ] वायुवेगेयः । वासवदत्तेयः । “प्रतिजनादेः खञ्” [ ३।३।२०३] । प्रतिजने साधुः प्रतिजनीनः । ऐदंयुगीनः । "दोश्छः " [ ३ २ ६०] वासवीयो ध्वजः । वैश्रवणीया शिबिका | क्षत्रस्यापत्यं क्षत्रियः | त्यग्रहणं किम् ? फक्वति । दौकते । श्रादिग्रहणं किम् ? जानुदध्नम् । पण्टः । शङ्खः इत्यादी "उणादयो बहुलम् ” [ २।२।१६७ ] इत्यादेशा न भवन्ति ।
भोऽन्तः ||५||३||त्य इत्यनुवर्तते । श्रादिग्रहणं निवृत्तम् । स्वरितलिङ्गाभावात् । इति ककारस्य त्यावयवस्य अन्त इत्ययमादेशो भवति । जानन्ति । पश्यन्ति । "जूविशिभ्यां झः " [उ० सू०] जरन्तः । वेरान्तः । त्यस्येति किम् ? उज्झितः ।
अत्थात् ||५|१|४|| यज्ञकात्परस्य भस्य ऋतू इत्ययमादेशो भवति । ददति । ददतु । मिमते । मिमताम् । अन्तादेशापवादोऽयम् । न तु झेर्जुसः । श्रदुः । श्रजतुः ।
देः ||५||५|| दविषये यो कारस्तस्यानकारान्ताद्गोरुत्तरस्य श्रदित्ययमादेशो भवति । लुनते | लुताम् । लुनत । पुनते । पुनताम् । अपुनत । द इति किम् ? लुनन्ति । पुनन्ति । अनत इति किम् ? च्यवन्ते । प्लवन्ते । नित्यत्वात् प्रागेव शप् ।
शीङ रुट || ५|१|६|| शोङो गोर्निमित्तभूतस्य भस्य रुडागमो भवति । शेरते । शेरताम् | शेरत । रुडयं परादिः क्रियते झग्रहणेन ग्रहणं यथा स्यात्तेन “शीङो गे” [ ५।३।१३० ] इत्येत् । परत्वेन रुटि कृते श्रादिग्रहणनिवृत्तेर्मध्येऽपि त्यावयवस्य भस्यादादेशः । सानुचन्भग्रहणं किम् ? यन्तस्य मा भूत् । व्यतिशेश्यते ।
४३
For Private And Personal Use Only