SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६ जैनेन्द्र-व्याकरणम् [ श्र० ४ पा० ४ सू० १५६-१६६ जिन् । तदन्तात् स्वार्थे “जिनोऽण्” [४।२।२१] इत्यण् । अनपत्य इति किम् ? बाहुबलिनोऽपत्यं बाहुबलः । गीति किम् ? मेधाविने हितं मेधावीयम् । प्रायोग्रहणात्क्वचित्प्रतिषेधो न भवति । दण्डिनां समूहो दाण्डम् | छात्रम् । श्रौम् ४|४|१५६ ॥ श्रौक्षमिति निपात्यतेऽनपत्ये । उण इदम् श्रदम् । अपत्ये औण इत्येव । "पादिन्टतराशोऽणि” [४|४|१२३] इत्यखम् । " श्रन: ” [ ४|४|१५८ ] इत्यस्यापवादोऽयं योगः । गाधिविदथिकेशिपरिणगणिस्फादेः || ४|४|१५७ ॥ गाथिन् विदथिन् केशिन् परिणन् गणिन् । इत्येतेषां स्फादेश्च इनो यदुक्तं तन्न भवति । गाथिनोऽपत्यं गाथिनः । वैदथिनः । कैशिनः । पाणिनः । गाणिनः । स्फादेः शाङ्खिनः । चाक्रिणः । भाद्रिणः । श्रपत्यार्थेऽप्यरिण प्रतिषेधार्थमिदम् । अनः || ४|४|१५८ ॥ श्रनपत्य इति निवृत्तम् । सामान्येनाणि परतोऽनो यदुक्तमखं टिखं च तन्न भवति । कर्मणा इदं कार्मणम् । साम देवता अस्य सामनः । हेम्नो विकारो हैमनः । यज्वनोऽपत्यं याज्वनः । प्राय इत्यनुवृत्तेरिकेऽपि टिखाभावः । उपचारादथव ग्रन्थोऽपि तमधीते आथर्वणिकः । येss || ४|४|१५९ ॥ सामन्यः । वेमन्यः । कर्मण्यः । [ ३|१|१४० ] श्रादिना तक्ष्णो एयः वर्थे यकारादौ हृति परतोऽनो यदुक्तं तन्न भवति । सामनि साधुः राज्ञोऽपत्यं राजन्यः । तदणोऽपत्यं ताक्षण्यः । “सेनान्तलक्षण" अङाविति किम् ? राज्यम् । “गुणोक्तिब्राह्मणादिभ्यः कर्मणि च " । [३|४|११४] इति ट्यण | खेऽध्वनः || ४|४|१६|| अध्वनः खे परतो यदुक्त तन्न भवति । श्रध्वानमलंगामी अध्वनीनः । “यखावध्वनः” [३।४।१३६ ] इति खः । खे इति किम् ? प्राध्वं कृत्वा गतः “गेरध्वनः" [४२८७] इत्य कारः सान्तः । न मादेरपत्येऽवर्मणः || ४|४|१६१ || मकारादेरनो ववर्जितस्यापत्यार्थेऽणि परतो यदुक्तं तन्न भवति । सुपाम्नोऽपत्यं सौपमः । भाद्रसामः | "नोऽपुसो हृति" [ ४|४|१३० ] इति टिख भवत्येव । मादेरिति किम् ? सौवनः । अपत्य इति किम् ? चर्मणा परिवृतश्चार्मणो रथः । “परिवृतो रथः " [ ३।२२८] इत्यण । श्रवण इति किम् ? हैरण्यवर्मणः । प्रायोग्रहणानुवृत्तेर्हितनाम्नो विकल्पः । हितनाम्नोऽपत्यं हैतनामः । हैतनामनः । ब्राह्मो जाती ||४|४|१६२ || अपत्य इति वर्तमानं जातेर्विशेषणम् । ब्राह्म इति निपात्यतेऽपत्यजातेरन्यत्र । ब्राह्मणो (ब्राह्मो) गर्भः । ब्राह्ममस्त्रम् | "तस्येदम् " [३३८८] इत्यण् । अजाताविति किम् ? ब्रह्मणोऽपत्यं ब्राह्मणः । अपव्यजातिरियम् । अजाताविति प्रसज्यप्रतिपेधोऽयम् । तेन अपव्यजातेरन्यत्र जातावपि निपातनमिष्यते । ब्रह्मण इयं ब्राह्मी श्रौषधिः । कार्मः शीले ||४|४|१६३ || कार्म इति निपात्यते शीलेऽथे । कर्मशीलः कार्मः । "छत्रादेशी " [३|३|१८०] इति णः । स तु "नोऽपु' सो हृति" [ ४|४|१३०] इत्येव से टिखे सिद्धः । " श्रनः " [ ४/४/१५८ ] इति व्यणि प्रतिषेधः । इदमेव ज्ञापकं “रोऽप्यण् कृतं भवति [१०] इति । तेन चुरा-शीला चौरी । सान्तान् ङी विधिः । शील इति किम् ? वाग्युक्तं कर्म कार्मणम् । “ तद्युक्तात्कर्मणोऽण्” [ ४१२।४२] इत्यण् । दsिहस्तिनोः फे ||४|४|१६४ || दण्डिन् हस्तिन् इत्येतयोः फकारादौ हृति यदुक्तं तन्न भवति । afusicsपत्यं दाण्डिनायनः । हास्तिनायनः । नडादित्वात्कण | वाशिजिह्माशिनोः फे ढे || ४|४|१६५ || वाशिन् जिहााशिन् इत्येतयोः फेदे च यदुक्तं तन्न भवति । वाशिनोऽपत्यं वाशिनायनिः । तिकादित्वात्किन । जिह्माशिनोऽपत्यं जैह्माशिनेयः । “शुभ्रादेः " [ ३|१|११२] इति दण् । “नोऽपुसो हृति" [ ४|४|१३० ] इति टिखं प्राप्तम् । भौणहत्य धैवत्यसारवैदवाकमैत्रेयहिरण्मयानि || ४|४|१६६ ॥ श्रौणहत्य धैवत्य सारव ऐदवाक मैत्र हिरमय इत्येतानि निपात्यन्ते । भ्रूणहन् धीवन् इत्येतयोष्टणि तत्वं निपात्यते । भृगुघ्नो भावो For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy