________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० १४८-१५५] महावृतिसहितम्
३३५ क्षोदीयान् । क्षोदिमा । ह्रत्वादयः पृथ्वादौ पठयन्ते। यणः परस्य तु "टेः" [४॥४॥१४५] इति खम् । इक इति किमर्थम् ? क्षेपिष्ठ इत्यत्र अनन्त्यस्याप्येब् यथा स्यात् । णौ ह्रत्वमाचष्टे हृसयति । गुकार्यस्य निर्वृ त्तत्वात् उड एम्न भवति ।
प्रियस्थिरस्फिरयादेरः ॥४।४१४८॥ प्रिय स्थिर स्फिर इत्येतेषाम् इकारादेवसंघातस्य अकारादेशो भवति इमेयस्सु परतः । प्रेष्ठः । प्रेयान् । प्रेमा । स्थेष्ठः । स्थेयान् । स्थेमा। स्केष्टः । सेयान् । स्फेमा । नियमाचष्टे प्रापयति । स्थापयति । “देयमृणे" [३।३।२२] इति निर्देशात् गुकार्यपरिभाषाया अनित्यत्वम् । तेन णिचि "ब्णित्यचः" [५।२।३] इत्यैप् ।।
बहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां वंहिगर्वर्षित्रपद्राघवृन्दाः ॥४|४|१४९ ॥ बहुल गुरु वृद्ध तृन दीर्घ वृन्दारक इत्येतेषां बंहि गर वर वर्षि त्र द्वाघ वृन्द इत्येत आदेशा भवन्ति इप्टेमेयस्सु परतः। वंहिष्ठः । वंहीयान् । वंहिमा । गरिष्टः । गरीयान् । गरिमा । उरु-वरिष्ठः । वरीयान् । वरिमा । वृद्धस्य ज्यादेश उक्तः। वचनादयमपि भवति । वर्पिष्टः । वर्षीयान् । त्रपिष्टः । पीयान् । द्राघिष्ठः । द्राधीयान् । द्राधिमा। वृन्दिष्टः। वृन्दीयान् । णावपि वहयति । गरयतीत्यादि योज्यम् । स्फिरवृद्धतृप्रवृन्दारकर्जिताः पृथ्वादौ द्रष्टव्याः । श्रणवचनेभ्योऽपि अाएव वचनात् इष्ठेयसू ।
बहोर्चस्मात्खम् ॥४।४।१५०॥ अहोभू इत्ययमादेशो भवति अस्माञ्च परेपाम् इष्ठेमेयसां खं भवति । भूयान् । भूमा । “परस्यादेः” [१३१५१] खम् । भूभावस्यासिद्धत्वात् उकारस्यौत्वं न भवति । वहोः पृथ्वादित्वादिमन् ।
यिट चेष्ठस्य ॥४।४।१५३॥ इष्ठत्य यिडागमो भवति बहोश्च भूरादेशः । भूयिष्ठः । खापत्रादो यिडागमः । इकार उच्चारणार्थः । भूभावस्यासिद्धत्वादौवाभावः ।
ज्यादेयसः ॥१५२॥ ज्यादेशात्परस्य ईय आकारादेशो भवति । ज्यायान् । ज्यायांसौ । ज्यायांसः । "प्रशस्यस्य श्रः" [१1११६] "ज्यः" [१।१२०] इति ज्यादेशः । प्रकृते खे परस्यादौ कृते “दीरकृद्गे" [५।२।१३४] इति पूर्वस्य च दीत्वे सिद्धमिति चेत् "गुकार्ये निवृत्ते पुनर्न तन्निमित्तम्' [प] इति दीत्वं न स्यादित्याकारवचनम् ।
ऊरोऽनादेः ॥१५३॥ ऋकारस्य रेफादेशो भवत्यनादेघिसंज्ञकत्य इष्ठेमेयस्सु परतः । प्रथिष्ठः । प्रथीयान् । प्रथिमा । म्रदिष्ठः । म्रदीयान् । म्रदिमा । अकारान्तो रेफादेशः । उरिति किम् ? पटिष्ठः । अनादेरिति किम् ? अतिशयेन ऋतवान् ऋतीयान् “विन्मतोरुप्" [१।१११२४] इति मतोरुप् । ईयस्। घेरिति किम् ? कृष्णिष्टः । कृष्णीयान् । कृष्णिमा।
पृथुमृद्वोः कृशभृशयो ढपरिवढयोश्चरो भवत्येव ।
सिंहावलोकतोऽग्रे प्रायोग्रहणादयं नियमः ॥ तेनेह न भवति । मातरमाचष्टे मातयति । परत्वाट्टिखस्यायमपवादः स्यात् । तथा कृतमाचष्टे कृतयति ।
नैकाचः ४|४|१५४॥ एकाचो भस्य यदुक्तं तत्र भवति । त्वचिष्ठः । त्वचीयान् । रचिष्ठः। सूचीयान् । “विन्मतोरुप" [४|११२४] इति मतोरुपि कृते “टे" [४४१४५] इति खं प्राप्तम् । णावषि त्वग्वन्तमाचण्टे त्वचयति । सूचयति । एकाच इति किम् ? अतिशयेन वसुमान् वसिष्ठः । वसीयान् । वसयति । नेति योगविभागः । तेन “राजन्यमनष्ययूनामके यदुक्तं तन्न भवति" राजन्यानां समूहो राजन्यकम् । मनुष्याणां समूहो मानुष्यकम् । “क्यव्यमाद्धृत्यापत्यस्य" [१।१४१] इति यखं प्राप्तम् । यूनो भावो यौवनिका । मनोज्ञादिपाठादुञ् “नोऽपुंसो हृति" [।४।१३०] इति टिखं प्राप्तम् ।
प्रायोऽनपत्येऽरणीनः ४|४|१५५॥ अनपत्यार्थेऽणि परत इन्नन्तस्य यदुक्तं तन्न भवति प्रायः । स्रग्विण इदं नाग्विणम् । तथा सांकोटिनम् । सांगविणम् । साम्मार्जिनम् । “भिन्नभिविधी" [२।३।१६] इति
For Private And Personal Use Only