SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ याकरणम् [अ० ४ पा० ४ सू० १४१-१४७ विशेषेण ग्रहणम् । हृतोऽन्यस्य वा हलः परस्य हृद्यकारस्य खं भवति । तेन “वृकाहण्यण" [४।२।४] वाणी । हल इति किम् ? वायुवेगेयी। हृत इति किम् ? झष्याम् । गौरादित्वान्डीः । वैद्यस्य भार्या वैद्या। यामिति किम् ? श्रावटया। अवटस्यापत्यं स्त्री। काव्यनाद्धृत्यापत्यस्य ॥४।४।१४१॥ क्य चि इत्येतयोरनाकारादौ च हृति परत आपत्यस्य यकारस्य हलः परस्य खं भवति । गार्गीयति । वात्सीयति । गार्गायते । वात्सायते । च्चि । गार्गीभृतः । वात्सीभूतः। अनाति हृति-गर्गाणां समूहो गार्गकम् । वात्सकम् । “वृद्धोक्षोष्ट्रोरभ्र" [शरा३४] आदिना बुन । गर्गाणां सङ्घोऽङ्को वा गार्गः । वात्सः । अनातीति किम् ? गाायणः । हृतीति किम् ? सामान्येनापत्यस्य खं यथा स्यात् । श्रापत्यस्येति किम् ? साङ्काश्यकः । काम्पिल्यः । सङ्काशेन निर्वृत्तः । कम्पिलेन निर्वृत्तः । “वुच्छण्” [३।२।६०] आदिना एयः । ततो भवार्थे “बन्धयोङः" [३१२१६६] इति बुञ् । हल इत्येव । वायुवेगेयः । तस्यन्तिकस्य कादेः ॥४|४|१४२॥ तसि परतोऽन्तिकस्य ककारादेः खं भवति । अन्तिकात् अन्तितः अागतः । “तमे परतः तादेः कादेश्चान्तिकस्य खं वक्तव्यम्" वा०1। अतिशयेन अन्तिकः "तमेष्ठावतिशायने" [४११/११४] इति तमे कृते। अन्तमः । अन्तितमः । “झिसंज्ञकस्य भमात्रे टिखं च वक्तव्यं सायम्प्रातिकाद्यर्थम्' वा०] | सायम्प्रातर्भवः सायम्प्रातिकः । पौनःपुनिकः । आकस्मिकः । शाश्वतिक इत्यत्र "येषां च द्वेषः शाश्वतिकः" [ १ ५ ] इति निपातनान्न भवति । शश्वच्छब्दो लक्षणम् । श्रारातीयः । शाश्वत इत्यादिषु च न भवति । "कालाटुञ्” [३।२।१३१] इत्यतः कालादिति योगविभागः । तेन शश्वच्छब्दादण । विल्वकादेश्छस्य ४|४|१४३॥ विल्वकादीनां छस्य ख भवति हृति परतः । नडादिषु विल्वादयः पठ्यन्ते कृतकुगागमाः इह निर्दिष्टाः । विल्वा अस्मिन् देशे सन्ति “उत्करादेश्छः” [३१२१७०] “नडादेः कुक्" [३।२१७१] चागमः । विल्वकीयः । तत्र भवो वैल्वकः । सर्वस्य छस्य खम् । अन्यथा अनर्थकं स्यात् । वेणुकीयः वैत्रकीयः । वैकः। बेतसकीयः । वैतसकः । तृणकीयः । तार्णकः । इक्षुकीयः । ऐक्षुकः । कपिष्ठलकीयः । कापिष्ठलकः। कपोतकीयः। कापोतकः । "ऋञ्चायाः प्रश्च” । कञ्चकीयः । क्रौञ्चकः । कुक् छ एव सम्भवति । छत्येति किमर्थम् ? कुको निवृत्तिर्मा भृत् । अन्यथा “सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यपायः" [प०] इति यथा पञ्च इन्द्राण्यो देवता अस्य "हृदर्थ" [१॥३॥४६] इति रसे कृते अागतस्याणो “रस्योबनपत्ये" [३।१।७४] हायुप् । "हृदुप्युप्" [२॥१॥६] इति स्त्रीत्यत्य निवृत्तौ श्रानुकोऽपि निवृत्तिः । पञ्चेन्द्रः । मेयस्तु ।।४।४।१४४॥ तृशब्दस्य खं भवति इष्टमेयरसु परतः । करिष्ठः । करीयान् । हरिष्टः । हरीयान् । सर्वे कर्तृमन्तोऽयमेषामतिशयेन कर्तृमान् "विन्मतोरुप्" [४।१।१२४] इत्यनेनोप् । “इष्ठेयसौ च सर्वस्य तुः खम्" । अन्त्यस्य “टेः" [१४११४५] इति सिद्धम् । इमन्ग्रहणमुत्तरार्थम् । टेः ॥४।४।१४५॥ टेश्च खं भवति इष्ठेमेयस्सु परतः । पटिष्ठः । पटिमा । पटीयान् । लघिष्ठः । लघिमा । लघीयान् । णाविष्ठवन्मृदः ॥४।४।१४६॥ णौ परत इष्ठे इव कार्य भवति मृदः । पटयति । लघयति । कर्तृ मन्तमाचष्टे करयति । प्रशस्यमाचष्टे "आदेप्" [४।३।७५] श्रयति । ज्ययति । वाढस्य साधयति । युवानं करोति कनयति । स्रग्विणः स्रजयति । सर्वत्र "नैकाचः" [४।१।१५४] इति प्रतिषेधः । गुकार्ये निवृत्ते नैफ् । एनीमाचष्टे एतयति । "तसादौ" [१३१४७] इति पुंवद्भावः । उत्तरत्रापि नियमाचाटे प्रापयति । स्थापयति । गुकायेंपरिभाषाया अनित्यत्वादै पुगागमौ । पृथु प्रथयति । स्थूलस्य स्थवयति । स्थूलदूरयुवह्रस्वक्षिप्रचुद्राणां यण इक एच ॥४|४|१४७॥ स्थूल दूर युवन् ह्रस्व क्षिप्र खुद्र इत्येतेषां यणः खं भवति इक एप् च इष्ठेमेयस्सु परतः । स्थविष्ठः । स्थवीयान् । दविष्ठः । दवीयान् । "युवाल्पयोः कन्वा" [४।१।१२३] इत्यनादेशपक्षे-यविष्ठः । यबीयान् । “अनन्त्यविकारेऽन्त्यसदेशस्य" [प०] इति यकारस्य न भवति । हसिष्ठः । ह्रसीयान् । हसिमा । क्षेपिष्ठः । क्षेपीयान् । क्षेपिमा । क्षोदिष्ठः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy