________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० १३३-१४०] महावृत्तिसहितम्
टखोरेवाह्नः ॥४|४|१३३॥ अहनित्येतस्य टखोः परतः टेः खां भवति । द्वयहः । व्यहः । द्वे अहनी समाहृते, त्रयाणामह्नां समाहारः रसे कृते "राजाहःसखिभ्यष्टः" [२६३] इति टः सान्तः । “न समाहारे" [४।२।११] इति अह्लादेशप्रतिषेधः । द्वे अहनी भूतो भावी वा द्वयहीनः । व्यहीणः । हृदय रसः । “समायाः खः" [३।४।८२] इत्यधिकारे "रात्र्यहःसंवत्सरात्" [३२४८४] इति खः। अह्नां समूहः अहीनः । हृत इति बहुवचननिर्देशात्खः । टखोरेवेति किम् ? अह्ना निवृत्तमाह्निकम् । “तेन निवृत्तः” [३।४।७५] इति प्राग्वतष्ठा । एवकार इष्टतोऽवधारणार्थः । अह्न एव टखोरिति मा भूत् । एवं हि मद्रराज इति न स्यात् । "खेऽध्वनः" [४।४।१६०] इति प्रतिषेधारम्भात् इष्टतोऽवधारणे प्रतिपत्तिगौरवं स्यात् ।
कद्रघोरोऽस्वयम्भुवः॥४।४।१३४॥ कदशब्दस्य उवर्णान्तस्य च भस्य हृति परत अोकारादेशो भवति स्वयम्भूशब्दं वर्जयित्वा । कद्र वा अपत्यं काद्रवेयः। "स्त्रीभ्यो ढण" [३।१०६] इति ढरण । “ढे खम्" [४॥४१३५] इत्यस्यापवादार्थ कद्र ग्रहणम् । उवर्णान्तस्य माण्डव्यः । बाभ्रव्यः । औपगवः। कापटवः । अस्वयम्भुव इति किम् ? स्वायम्भुवं धाम स्वायम्भुवी प्रक्रिया। "तस्येदम्" [३।३।८८] इत्यण् । श्रोत्वे प्रतिपिद्धे उवादेशः।
__ढे खम् ॥४।४।१३५॥ ढे परत उवर्णान्तस्य खं भवति । कामण्डलेयः । शैतिवाहेयः । जाम्बेयः । "बाह्वन्तकद्रकमण्डलुभ्यः खो" [३।१।६०] इति ऊत्ये कृते। अपत्यार्थे “चतुष्पाभ्यो ढ" [३।१।१२३] इति दृज । जान्वाः जानेय । "द्वयचः” [३।११११०] इति टण् । इयुवौ परत्वात् खं बाधते । वात्सप्रेयः । लैखाभ्रेयः । वत्सप्रीः चतुष्पाद । लेखाभ्र : शुभ्रादिः । ढ इति किम् ? कमण्डलवे हिता कमण्डलच्या मृत् ।
- यस्य उयां च ॥४|४|१३६॥ इवान्तस्यावान्तस्य च खं भवति ङीत्ये हृति च परतः । दाक्षी। प्लाक्षी। "इतो मनुष्यजातेः" [२११५५] इति डोः । स्वेको दीत्वे क्रियमाणे अतिसखेरागच्छतीत्यत्र दोषः स्यात । सखीमतिक्रान्तः अतिसखिः। “स्त्रीगोर्नीचः" [१1१1८] इति प्रादेशे कृते सख्यसख्योरेकादेशः सखिशब्दवद्भबतीति "स्वसखि” [११२।६७] इति सुसंज्ञाविरहादेम्न स्यात् । खे तु न दोषः। अवर्णान्तस्य-गौरी। कुमारी । हृति-नाभेयः । नैधेयः । “इतोऽनिमः" [३।१११११] “द्वयचः" [३।१।११०] इति ढण । श्रीमतः। अवर्णान्तस्य-दैवदत्तिः । वायुवेगेयः ।
मत्स्योङयो ड्याम् ॥४|४|१३७॥ मत्स्यशब्दस्य उडो यकारस्य ख भवति डोत्ये परतः। मत्सी । "गौरादेः" [३१२३] इति । मत्स्यस्यापत्यं स्त्री मात्सी । “द्वयमगध" [३/१1१५२] श्रादिसूत्रेणाण । तदन्तान्डीः । यामवर्णखस्यासिद्धत्वादुङो यकारस्य खम्। अणि परतोऽखस्य व्याश्रयत्वात्सिद्धत्वम् । उङ इति किम् ? मत्स्यचरी । यग्रहणमुत्तरार्थम् । ङ्यामिति किम् ? मत्स्यस्येदं मात्स्यम् ।
सूर्यागस्त्ययोश्छे च ॥४४॥१३८॥ सूर्य अगस्त्य इत्येतयोश्छे ङ्यां च परत उङो यकारस्य खं भवति । सौरीयः । सौरी । अागस्तीयः । अागस्ती । सूर्यागत्यशब्दो केवलौ डी न प्रयोजयत इत्यणन्तौ गृह्यते । सूर्यो देवता अय सौर्यः तस्यायं सौरीयः । सूर्यस्येयं सौरी | अगस्त्यस्यापत्यम् ऋषित्वादण् । आगस्त्यः । तस्यायमागस्तीयः । छे यां चाऽतः खस्यासिद्धत्वादुङ् यकारः। अणयखस्य व्याश्रयत्वादसिद्धत्वं नास्ति । सूर्याय हितः अगस्त्याय हित इति प्राक्ठणश्छो नास्त्यनभिधानात् । छे चेति किम् ? सौर्य तेजः । श्रागल्यं स्थानम् । उङ इत्येव । सूर्यमयी।
तिष्यपुप्ययोर्भाणि ॥४|४|१३६॥ तिष्य पुष्य इत्येतयोणि परत उको यखं भवति । तिष्येण युक्तः काल : तैषः। पौषः । तिष्यपुष्ययोरिति किम् ? सिध्येन युक्तं सैध्यमहः । भाणीति किम् ? पुष्यो देवताऽस्येति पौष्यः ।
हलो हतो ड्याम् ॥४४|१४०॥ हल उत्तरस्य हृद्यकारस्य उङः खं भवति ङयां परतः। गार्गी । वात्सी । वाजी । “यनः" [३।१११६] इति डीः । यखविधिं प्रति न स्थानिषदिति हलः परत्वं यफारस्य । हल इत्य
For Private And Personal Use Only