________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पो० ४ सू० १२५-१३२
अचः || ४|४|१२५ || च इत्यञ्चेष्टनकारो गृह्यते । तदन्तस्य गोरकारस्य खं भवति । प्रतीचः पश्य । प्रतीचा । प्रतीचे । मधूचः पश्य । मधूचा । मधूचे | भस्येत्येव । प्रत्यञ्चमिच्छति प्रत्यच्यति । क्यच् । स्वादिष्वभावात्पूर्वस्य भसंज्ञा नास्ति । च इति नष्ट नकारग्रहणं किम् ? प्रत्यञ्चः पश्य । प्रत्यञ्चा । प्रत्यन्वे । “नाञ्चेः पूजे " [ ४।४।२६ ] इति नखाभावः ।
Acharya Shri Kailassagarsuri Gyanmandir
ईदुदः || ४|४|१२६ ॥ उद: परस्याच ईकारादेशो भवति भस्य । उदीचः पश्य । उदीचा । उदीचे | उदीच्यः । " प्रागपागुदक्प्रतीचो यः " [ ३२८० ] इति यः । श्रखापवादोऽयम् ।
तो धोः || ४|४|१२७ ॥ श्राकारान्तस्य धोर्मस्य खं भवति । कीलालपः पश्य । कीलालपा । कीलालपे । शुभंयः पश्य । शुभंया । शुभंये। आत इति किम् ? ग्रामस्या । ग्रामण्ये । घोरिति किम् ? मालाः पश्य । " जुब्रश्वः क्त्वः " [ ५|१|१०३] “थरनोरातः” [४|४|१०२] इत्यादयः सौत्रा निर्देशाः । भस्येत्येव । क्षीरपामिच्छति क्षीरपीयति ।
तेर्विशतेर्डिति || ४|४|१२८ || भस्य विंशतेर्डिति परतस्तिशब्दस्य खं भवति । विंशत्या कीतो विंशकः । "विंशतित्रिंशद्भ्यां ड्वुरखौ” [ ३ | ४ | २१ ] इति वुः । तिखे कृते "एप्यतोऽपदे" [४|३|८४ ] इति पररूपत्वम् । विंशतैः पूरणं विंशं शतम् । विंशतिरधिका अस्मिन्निति " तदस्मिन्नधिकमिति शद्दशान्ताड्डुः " [ ३|४|१६७ ] "विंशतेश्व” [३।४।१६८ ] इति डः । आसन्ना विंशतेरिमे श्रासन्नविंशाः । "संख्येये” [१३८७] इत्यादिना चसः । "संख्यात्राड्डोऽबहुगणात् " [ ४ २ ६९ ] इति डः सान्तः । डितीति किम् ? विंशत्या |
टेः || ४|४|१२९|| टिसंज्ञकस्य डिति परतः खं भवति । त्रिंशता क्रीतः त्रिंशकः । त्रिंशं शतम् । श्रासन्नाश्चतुर्णामि श्रासन्नचताः । कुमुद्वान् । नडवान् । वेतस्वान् । कुमुदान्यस्मिन् देशे सन्ति “कुमुदनडवेतसाड्डित्” [३|२|६७ ] इति मनुः । नडवलम् । नडा अस्मिन् देशे सन्ति “ नडशादाड्डित्” [३।२२६६ ] इति चलः । डिल्करणसामर्थ्यादभस्यापि टेः खम् । अतएव उपसरे जात उपसरजः । मन्दुरायां जातः मन्दुरजः । “त्वे ङयापोः क्वचित्खौ च" [ ४।३।१७३ ] इति प्रः ।
नोऽपुंसो हृति || ४|४|१३० ॥ नकारान्तस्य भस्य हृति परतष्टिखं भवत्यपुंसः । श्राग्निशर्मिः । देवशमिः । औलोभिः । बाहूवादित्वादिञ् । न इति किम् ? वैद्युतोऽग्निः । पुंस इति किम् ? पुंस हृदं पौरनम । "स्त्रीपु ं सान्नुक्त्वात्” [३।१।७२] इति अनुकौ । हृतीति किम् ? शर्मणा । शर्मणे । भस्येव । शर्मण आगतं शर्मरूप्यम् । शर्ममयम् । “हेतुमनुष्याद्वा रूप्यः " [३३३।५५] इति रूप्यमययै ।
सब्रह्मचार्यादेः ||४|४|१३१ ॥ सब्रह्मचारिन्नित्येवमादीनां हृति देः खं भवति । सब्रह्मचारिणः शिष्यः साब्रह्मचारः । पीटसर्पिणोऽयं पैठसर्पः । कलापिनोऽयं कालापः । अथवा कलापिना प्रोक्तमधीते शौनकादिनु वैशम्पायनान्तेवासित्वाणिनि प्राप्ते " कलापिनोऽण” [३।३।७६] इत्यण् । “ तद्व स्वधीते” [३|२|५१] इत्यण् । "उष्प्रोक्तात्” [३।२।५४ ] इत्युप् । “छन्दो ब्राह्मणानि चात्र व" [३/२/५६ ] इति अध्येतृविषयता | कुथुमिनः शिष्यः कौथुमः । तितिलिनः तैतिलः । जजलिनः जाजलः । अन्येषां तैतिलिजाजलिशब्दावाचार्यवचनायुपचाराद्ग्रन्थोऽपि तयोरुक्तः । तमधीते तैतिलः । जाजलः । लाङ्गलिनः शिष्यः लाङ्गलिनमधीते वा लाङ्गलः । शिलालिनोऽयं शैलालः । शिखण्डिनोऽयं शैखण्डः । सूकरसद्मनोऽयं सौकरसद्मः । सुपर्वणः सौपर्वः ! इनन्तानां " प्रायोऽनपत्येऽणीनः” [४।३।९५५] इति टिखप्रतिषेधः प्राप्तः ।
श्वाश्चर्मणां सङ्कोचविकार कोशेषु ||४|४|१३२ ॥ श्वन् अश्मन् चर्मन् इत्येतेषां संकोच विकार कोश इत्येष्वर्थेषु हृति टेः खं भवति । शौवः संकोचः । शौवनोऽन्यत्र । कथं शौवं मांसम् | "ग्रनः " [४|४|१५८] ] इत्यत्र प्रायोग्रहणानुवृत्तेर्विकारे टिखप्रतिषेधो नेप्यते । ग्रश्मनो विकार यामः । श्राश्मनोऽन्यत्र । चार्मः कोशः । चार्मणोऽन्यः ।
For Private And Personal Use Only