________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० ११६-१२४ ] महावृत्तिसहितम्
३३१ फणां सप्तानाम् ॥४ाधा११६।। फणादीनां सप्तानां वा एत्वं भवति चस्य च खं लिटि विति सेटि च परतः । फेणतुः। फेणुः । फेरिणथ । पफणतुः। पफणुः। पफणिथ । रेजतुः। रेजुः । रेजिथ। रराजतुः । रराजुः । रराजिथ | भेजे । भेजाते । भ्रजिरे। बभ्राजे। बभ्राजाते। बभ्राजिरे। भ्रसे। बभ्रासे। भ्लेसे । बन्लासे । स्मतुः। स्येमुः। स्येमिथ । सस्थमुः। सस्थमिथ । स्वेनतुः। स्वेनुः । स्वेनिथ । सस्वनतुः । सस्वनुः । सस्वनिथ । सप्तानामिति किम् ? दध्वनतुः । दध्वनुः । जज्वलतुः। जज्वलुः । जज्वलिथ ।
न शसददवादीनाम् ॥४ाथा११७॥ शस दद इत्येतयोर्वादीनां च लिटि थिति सेटि च परत एत्वचखे न भवतः । विशशसतुः । विशशसिथ | दददे। दददाते । दददिरे । वादीनाम-बवणतुः । ववणुः। ववणिथ । ववले । ववलाते । ववलिरे ।
भस्य ॥४|४|११८॥ भत्येत्ययमधिकारो वेदितव्य आ पादपरिसमाप्तेः। वक्ष्यति “पादः पत्" [४।४।११६] इति । द्विपदा । द्विपदे । भस्येति किम् ? द्विपादौ । द्विपादः । धे भसंज्ञा न भवति ।
पादः पद् ॥४॥११६॥ पादन्तस्य गोर्भस्य पदित्ययमादेशो भवति । द्विपदः पश्य । द्विपदा । द्विपदे । द्वौ पादावस्येति बसे "सुसंख्यादेः” [४।२।१४०] इति पादस्यातः खम् । “निर्दिश्यमानस्यादेशा भवन्ति" [प०] इति पाच्छब्दस्य पदादेशः । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । “संख्यायाः पादशतेभ्यो वीप्सादण्डत्यागे वुन्" [१२।१०] खं च । वैयाघ्रपद्यः । व्याघ्रस्येव पादौ यस्य "खं पादस्याहस्त्यादेः” [४।२।१३६] इति खम् । गर्गादित्वाद्यञ् । भस्येति किम् ? द्विपाद्याम् । द्विपाद्भिः । पादवतेः क्विबन्तस्य प्रयोगो नास्ति ।
क्सोर्जिः॥४ाथा१२०॥ वस्वन्तस्य गोर्भस्य जिर्भवति । उपसेदुषः पश्य । उपसेदुधा । उपसेतुपे । "वस्सदिणी वसुर्लिएमम्" [१।२।८८] इति वसुः । द्वित्वम् । हल्मध्ये लिख्यत इति एत्वचखे । क्रादिनियमादिट् । जौ कृते निमित्ताभावादिएिनवृत्तिः । भस्येत्येव । विद्वस्यति । विद्वस्यते। क्यचक्यङोः त्वादित्वाभावाद्भसंज्ञा नास्ति । "न: क्ये" [१।२।१०४] इति नियमात्पदसंज्ञाविरहेण रित्वाद्यभावः ।
श्वयुवमघोनोऽहति ॥४|४|१२१॥ श्वन् युवन् मघवन् इत्येतेषां जिर्भवति अहृति परतः । शुनः पश्य । शुना । शुने | यूनः पश्य । यूना । यूने । “अनन्त्यविकारेऽन्त्यसदेशस्य" [प०] इति यकारस्य न भवति । मघोनः पश्य । मघोना । मघोने | अहतीति किम् ? शौवनं मांसम् । यौवनं वर्तते । माघवनम् । शुनो विकारः “प्राणितालादेः" [३।३।१०५] इत्यण् । “द्वारादेः" [५।२।६] इत्यौव् । यूनो भावः 'हायनान्तयुवादिभ्योऽण" | मघोन इदम् । उत्तरत्र अन इति योगविभागः । अन्नन्तानां श्वादीनां जिभवति । तेन युवतीः पश्येल्यत्र “मृद्ग्रहणे लिङ्गविशिष्टस्य” [प०] इति न भवति ।
अनोऽखमम्वस्फात् ॥४।४।१२२॥ अन्नन्तस्याखं भवति स चेदन् मकारवकारान्तस्मात्परो न भवति । राज्ञः पश्य । राज्ञे । “पूर्वत्रासिद्धे न स्थानिवत्" इति चुत्वम् । तदशः पश्य । तक्ष्णा । तक्ष्णे | अन्नन्तस्येति वचनात् राजकीय इत्यत्र न भवति । अम्बस्फादिति किम् ? धर्मणः । धर्मणे। तत्वदृश्वनः पश्य । तत्त्वदृश्वना । तत्त्वदृश्वने ।
पादिहन्धृतराशोऽणि ॥४।४।१२३॥ पकारादेरनः हन् धृतराजन् इत्येतयोश्चाणि परतोऽकारस्य खं भवति । यादणः । तादणः । हन्-नौणघ्नः । वात्रघ्नः । धृतराजन्-धार्तराज्ञः । अपत्यार्थेऽण “अनः" [४।४ ।१५८] इति अखटिखयोः प्रतिषेधे प्राप्ते सूत्रम् । एतेषामिति किम् ? सामनो धौमनः । ताक्षण्यः। “सेनान्तलक्षण" [३११११४०] इत्यादिना एयः ।
वा ङिश्योः ॥॥४।४।१२४॥ अनोऽकारस्य वा खं भवति डौ शीशब्दे च परतः । राज्ञि । राजनि । लोम्नि । लोमनि । साम्नी। सामनी। दाम्नी । दामनी । भस्येत्यधिकारात् “नपः" [५/१६] इत्यनेनादिष्टः शीशब्दो गृह्यते।
For Private And Personal Use Only