________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा
३३०
जैनेन्द्र-व्याकरणम् [श्र० ४ पा० ४ सू० १०७-११५ त्यनुवर्तनात् हित्वे कृते इत्वादिविधिः । अथवा अल्पाश्रयत्वेनान्तरङ्गत्वात्प्रागेव द्वित्वम् । हलीत्येव । जहति । ग इत्येव । हीनः। हीयते । जेहीयते । योगविभाग उत्तरार्थः ।
आ४२०७॥ हाक आकारादेशो भवति इच्च वा हो परतः । जहाहि । जहिहि । जहीहि । यि खम् ॥४॥४॥२०८॥ यकारादौ गे किति परतो हाकः खं भवति । जह्यात् । जह्याताम् । ज्ह्यः। ग इत्येव । हीयते । जेहीयते ।
भ्वसोरेच्च खं हो ॥४॥१०६॥ भुसंज्ञकानाम् अस्तेश्च ही परत एकारादेशो भवति -चस्य च खम् । देहि । धेहि । एधि । खमिति वर्तमाने पुनः खग्रहणं सर्वस्य चस्य नाशार्थम् । अस्तेश्च खं न सम्भवति । "श्नसः खम्" [४।१०१] इत्यखम् । अनेन सकारस्यैत्वम् । हाविति वर्तमाने पुन विति किम् ? रूपान्तरापत्तौ माभूत् । दत्तात् । धत्तात् । स्तात् ।
। अतो हल्मध्येऽनादेशादेलिटि ॥४।४।११०॥ हलोमध्ये वर्तमानस्यात एकारादेशो भवति चस्य च खं लिटि डिति परतः । पेचतुः। पेचुः। शेकतुः। शेकुः। रेणतुः। रेणुः । हल्मभ्य इति किम् ? ग्राटदः । आटुः । त्रपिग्रहणं नियमार्थ वक्ष्यति । अनेक हल्मध्यगतस्य त्रपेरेव नान्यस्य । ततक्षतुः । पाथे। पप्रथाते । पप्रथिरे । लिटीति किम् ? पापच्यते । पापठ्यते। अत इति किम ? दिदिवतुः । दिदिवुः । तपरकरणं किम् ? शशासतुः। शशासुः । कितीत्येव । अहं पपच । “फलिभजोः" ४३३२] इति नियमो वक्ष्यते । एतयो रेव लिट्यादेशाद्योरेच्चखे भवतो नान्यस्य । बभणतुः । बभणुः । चकणतुः। चकाः । नमिसह्योस्तु लिडुत्पत्तेः प्रागेव नत्वसत्वे भवत इति नियमान्न निवृत्तिः । नेमतुः। नेमः । सेहे । सेहाते। सेहिरे।
सेटि॥४|४|१११॥ सेटि च लिटि परतो हल्मध्येऽत एत्वं भवति चस्य च खम् । अविल्याप यथा स्यादिल्यारम्भः । पेचिथ । शेकिथ । नेमिथ । “वोपदेशे" [५।१।१०८] इत्यादिना वेट । सेटीति किम् ? पपक्थ । लिटोत्येव । पठितः । पठितवान् । अत इत्येव । दिदेविथ ।
फलिमजोः ॥४|४|११२॥ फलि भजि इत्येतयोरत एवं भवति चस्य च खं लिटि विति सेटि च परतः । फेलतुः । फेलुः । फेलिथ । भेजतुः। भेजुः । भेजिथ । भेजे । भेजाते । भेजिरे । नियमार्थोऽयमारम्भः । फलिभजोरेव लिटयादेशाद्यो न्यस्य । चकणतुः । चकणुः । चकणिथ। बभणतुः । बभणुः। वभणिथ । फलिभजोर्विकारलक्षण आदेशः अन्यस्यापि विकारादेशादेर्निवृत्तिः शशिदद्योः प्रतिषेधाच्च । तेन प्रकृतिचरां प्रकृतिचरः प्रकृतिजशां प्रकृतिजशो भवन्तीति । नात्र नियमानिवृत्तिः। तेनतुः। तेनुः । देभतुः। देभुः ।
तुत्रपोः ॥४|११३॥ तृ त्रपित्येतयोरत एत्वं भवति चस्य च खं लिटि किति सेटि थलि च परतः । तेरतुः । तेरुः । तेरिथ । “ऋच्छतृताम्" [५।२।१२३] इत्येषु । त्रेपाते । त्रेपिरे । “श्रन्थेश्चेति वक्तव्यम्" [वा०] श्रेयतुः। श्रेथुः । उपसंख्यानेन लिटः कित्वम् । इदमपि नियमार्थ सूत्रम् । एम्निवृत्तस्यातस्तरतेरेव नान्यस्य । विशशरतुः। विशशरुः । विशशरिथ । लुलविथ। अनेककहल्मध्यगतस्य त्रपेरेव नान्यस्य । ततक्षतुः। ततक्षिथ। मरन्थतुः । ममन्थुः । ममन्थिथ ।
षधे राधेः ॥४।४।११४॥ राधेर्वधेऽर्थे हल्मध्येऽवर्णस्यैत्वं भवति चस्य च खं लिटि तिति रोटि थलि च परतः। परिरेधे। परिरेधाते । परिरेधिरे। कर्मणि दविधिः। परिरेधतुः । परिरेधुः। परिरेधिथ । वध इति किम् ? आरराधतुः । आरराधुः। श्रारराधिथ ।
वा भ्रमत्रसाम् ॥४।४।११५॥ न भ्रम् त्रस् इत्येतेषामतो वा एत्वं भवति चस्य च खं लिटि विति सेटि च परतः । जेरतुः । जेरुः । जेरिथ । नेमतुः। भ्रमुः । भ्रमिथ । त्रेसतुः। त्रेसुः। सिथ । पक्षे जजरतुः। जजरुः । जजरिथ । बभ्रमतुः । बभ्रमुः । बभ्रमिथ । तत्रसतुः । तत्रसुः। तत्रसिथ । तृग्रहणादन्यस्यैम्निवृत्तस्य न भवतीति जषोऽप्राप्त । भ्रमेरादेशादित्वात् त्रसेरनेकहल्मध्यगतत्वादप्राते विकल्पः ।
For Private And Personal Use Only