________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० १८-१०६] महावृत्तिसहितम्
३२६ वा म्बोः खम् ॥४॥४८॥ अस्फात्परो य उकारस्तदन्तस्य वा खं भवति मकारवकारादौ परतः । सुन्वः । सुनुवः । सुन्मः । सुनुमः । सुन्वहे । सुनुवहे । सुन्महे । सुनुमहे । तन्वः। तनुवः। तन्मः । तनुमः । उबिति वर्तमाने खग्रहणमन्तेऽलो नाशार्थम् । उत इत्येव । क्रीणीवः । क्रोणीमः । त्यस्येत्येव । युवः । रुवः । अस्फादित्येव । अाप्नुवः । तदणुवः । सुनोम्यादिषु परत्वादेप् ।
कृतो ये च ॥४४६६॥ कृत्र उत्तरस्य उतः खं भवति यकारादौ म्वोश्च परतः । कुर्यात् । कुर्याताम् । कुर्युः । कुर्वः । कुर्मः । कुर्वहे । कुर्महे । नित्यत्वात्खे कृते “त्यखे त्याश्रयम्" [१।१।६३] इत्येप् । म्बोरनुकर्षणार्थाच्चकारात् ज्ञायते वेति निवृत्तम् ।
गेऽत उत्॥४|४|१००॥ उत्त्यान्तस्य करोतेरकारस्य उकारादेशो भवति ङ्किति परतः । कुल्तः । कुर्वन्ति । कुरुथः । कुरुथ। कुर्वः। कुर्मः । उदिति तपरकरणाद्विकरणमपेक्ष्य ध्युकुम्न भवति । ग इति किम् ? भूतपूर्वेऽपि गे यथा स्यात् । अत इति तपरकरणमुत्तरार्थम् ? कितीत्येव । करोमि । करोषि । करोति । एपि कृते उकारान्तत्वाभावाद्वा न भवति । "अनन्त्यविकारेऽन्त्यसदेशस्य' [१०] इति अकुरुतामित्यत्राटो न भवति ।
श्नसः खम् ॥४ाटा२०१॥ श्नमः अस्तेश्च अतः खं भवति गे किति परतः । भिन्नः। भिन्दन्ति । छिन्नः । छिन्दन्ति । अत्खस्यासिद्धत्वाद्धलुङो नकारस्य खं न भवति । अस्तेः स्तः। सन्ति। कितीत्येव । भिनत्ति । अस्ति । श्नस इति श्नमो नष्टमकारस्य पररूपत्वं ज्ञापकं शकन्वादिषु पररूपं भवति तपरकरणस्यानुवृत्तिः किमर्था । यास्ताम् आसन्नित्यत्र लावस्थायामडागमे ऐपि च कृते माभत । नन्वटोऽसिद्धत्वादाकारखं न प्राप्तम् इदमेव तपरकरणं ज्ञा पकम् अभाच्छास्त्रस्य कचिसिद्धता । तेन देभतुः । देभुरित्यत्र नखस्य सिद्धत्वादेत्वचखे भवतः।
थश्नोरातः॥४।४।१०२॥ थसंज्ञकस्य श्ना इत्येतस्य च य श्राकारस्तस्य खं भवति गे विति परतः । मिमते । मिमताम् । अमिमत । सजिहते । संजिहताम् । समजिहत । “देऽनतः [५१/५] इति भस्यादादेशः । लुनते । लुनताम् । अलुनत । पुनते । पुनताम् । अपुनत । हलीत्वं वक्ष्यते। तस्मादचि खम् । भुसंज्ञकानां हल्यपि दत्तः । दत्से | थश्नोरिति किम् ? यान्ति | वान्ति। आत इति किम् ? बिभ्रति । इयति। कितीत्येव । जहाति । लुनाति ।
___हल्यभोरीः ॥४१०३॥ हलादौ किति परतः थश्नोरात ईकारादेशो भवत्यभोः। सञ्जिहीते । सजिहीर्य । सञ्जिहीवे । सञ्जिहीवहे । सञ्जिहीमहे । मिमीते। मिमीषे । मिमीध्वे । मिमीवहे। मिमीमहे । लुनीतः। लुनीथः। लुनीषे । लुनीध्वे । लुनीवहे । लुनीमहे । अभोरिति किम् ? दत्तः। द्वितीत्येव । जहाति । लुनाति।
इद्दरिद्रः॥४।४।१०४॥ इकारादेशो भवति दरिद्रातेहलादौ गे किति परतः । दरिद्रितः । द्ररिद्रिथः । दरिद्रिवः । दरिद्रिमः। “जक्षित्यादयः" [३५] इति थसंज्ञायाम् पूर्वण हलादावीत्वं प्राप्तम् । हलीत्येव । दरिद्रति । कितीत्येव । दरिद्राति । “भियो वा" [४३०५] इत्यतः सिंहावलोकनेन वेति व्यवस्थितविभाषा संबध्यते ततो दरिदातेरगविषये ब्रहलं खं भवति । दरिद्रातीति दरिद्रः। अदरिद्रीत । खे सत्याकारान्तलक्षणौ "यमरमनमातः सक्च" [५।१।१३२] इति सगिटौ न ।
भियो वा ॥४|४|१०५॥ भी इत्येतस्य वा इकारादेशो भवति हलादौ गे किति परतः । बिभितः । विभीतः। विभिथः । बिभीथः । बिभिवः । बिभीवः । विभिमः । बिभीमः । हलीत्येव । बिभ्यति । ग इत्येव भोतः । भीयते । कित्येव । बिभेति ।
हाकः ॥४ाथा९०६॥ हाकश्च वा इकारादेशो भवति हलादौ गे किति परतः । जहितः । जहीतः । जहिथः। जहीथः । जविः । जहीवः । जहिमः । जहीमः। पक्षे "हल्यभोरीः" [११०३] इतीत्वम् । थस्ये.
For Private And Personal Use Only