________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जधारि
३२८
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० ८८-७ ध्ये परतो ऐरयादेश इति व्याश्रयत्वात्प्रादेशस्यासिद्धत्वं न भवति । कथं संक्रामयति । केचिद् वेत्यनुवर्तयन्ति । सा च व्यवस्थितविभाषा ततो न दोषः।
खचि ॥४॥४८॥ खच्परे णौ परतो जोरुङः प्रो भवति । युगन्धरः । वसुन्धरः सहितपिदमः खौ" [२।२।४४] इति खच । “खित्यझेः” [४॥३॥१७६] "मुमचः" [१।३।१७७] इति मुमागमः।
हादस्ते ॥४४८६॥ लादस्ते परत उङः प्रो भवति । प्रह्लन्नः । प्रह्लन्नवान् । त इति किम् ? प्रह्लादयति । हलाद इति योगविभागान्प्रह्लत्तिः ।
छादेर्घ ॥४|४|६०॥ छादेर्थे परत उङः प्रो भवति । प्रच्छदः । उपच्छदः । “तिकुप्रादयः” [१॥३॥८१] इति पसः । उरश्छदः । तनुच्छदः । कृयोगे तासः । छद अपवारणे इति चौरादिकः । अस्मात् "पुखौ घः प्रायेण" [२।३।१००] इति घे कृते णिखस्यासिद्धत्वम् “परेऽचः पूर्वविधौ" [१।१।५७] इति स्थानिवद्भावो वा वचनसामर्थ्यान्न भवति । ततः उङः प्रादेशः । घ इति किम् ? प्रच्छादनम् । तनुच्छादनम् ।
नानेकगेः॥४।४।६१॥ अनेको गिर्यस्य तस्य छादेरङः प्रो न भवति । समुपच्छादः। एकगिरगिश्च छादिः पूर्वेण प्रादेशं प्रयोजयति ।
मन्त्रेस्क्विषु ॥४॥४॥२॥ मन् त्र इस् कि इत्येतेषु परतश्छादेरुङः प्रो भवति । छद्म । छत्रम । छदिः • समुच्छन् । उपच्छत् । “सर्वधुभ्यो मन्त्रटौं” [उ० सू०] उणादिषु विहितौ । “अर्चिशुचिज़सृपिछादिदिभ्य
इस्” [उ० सू०] इति इस् । “छादेर्धे" [४]६०] इत्यतः पृथक्करणमनेकगेरपि प्रादेशार्थम् । समुपच्छत् । समुपाचिच्छत् । सिवसिधसामि पत्वम् ।
गमहनजनखनघसां क्डित्यनङि ॥४॥४॥६३॥ गम हन जन खन घस इत्येतेषां कुङः खं भवति अनङि किति डिति परतः। अनीति किम् ? अगमत् । अघसत् । क्ङीति किम ? गमनम् । गमनीयम् । अचीत्येव । गम्यते। हन्यते।
हुझल्भ्यो हेधिः ॥४॥९४॥ हु इत्येतस्मात् झलन्तेभ्यश्चोत्तरस्य हेर्धिरित्ययमादेशो भवति । जुधि । झलन्तेभ्यः-छिन्धि । भिन्धि । "श्नसः खम्" [१४१०१] इत्यखस्य अनुस्वारविधि प्रति न स्थानिवत्त्वम् इति अनुस्वारपरस्वत्वे। झल्भ्य इति किम् ? लुनीहि । हेरिति किम् ? युवां जुइतम । “भुमास्थागापाहाक्सां हलि" [ ५] इत्यतो मण्ट्रकगत्या हल ग्रहणमनुवर्तते । तेनाहलादेनं भवति । रुदिहि । स्वपिहि । अथवा अत्र परत्वादिटि कृते "सकृद्गते परनिर्णये बाधितो बाधित एवं" [प०] । जुहुतात्त्वं भिन्तात्त्वमित्यत्रापि परत्वात्तातङादेशः ।
अरुप ॥४॥४॥६५॥ जेरुत्तरस्य उब् भवति । अकारि । अलावि । लावस्थायामडागमः। पश्चादप । खमिति वर्तते । उबग्रहणे सर्वापहारार्थ परस्यादेर्मा भूत् । गोरित्यधिकारात् गोनिमित्तस्य त्यस्योविधानादिह भवति अपाठि ग्रन्थः। अकारितरामित्यत्र तखत्यासिद्धत्वान्न भवति । व्यक्तौ हि पदार्थे प्रतिव्यक्ति लक्षणं भिद्यते इति तदेव शास्त्रं तस्मिन् कथमसिद्धमिति नाशंकनीयम्।।
अतो हेः॥४॥४॥६६।। अकान्ताद्गोरुत्तरस्य हेरुब्भवति । पच । कृष । गच्छ । अत इति किम् ? युहि । रुहि । तपरकरणं किम् ? याहि । लुनीहि । ईत्वस्यासिद्धत्वादाकारः । हेरिति वर्तमाने पुनहेरिति किम् ? हिरेव यो हिस्तस्योब यथा स्यात् इह माभूत् । जीवतात्त्वम् ।।
उतस्त्यादस्फात् ॥४॥४॥३७॥ अस्फात्परो य उकारस्तदन्ताच्यादुत्तरस्य हेरुबू भवति । चिनु । सुनु । तनु । कुरु । तन्वादिषु व्यपदेशिवद्भावादुकारान्तत्वम् । उत इति किम् ? लुनीहि । जानीहि । त्यादिति किम् ? युहि । रुहि । अस्थादिति किम् ? आप्नुहि । तक्ष्णुहि ।
For Private And Personal Use Only