________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ४ सू० ८०-८७ ]
महावृत्तिसहितम्
३२७
इन्का पुनर्वर्षाभ्यो भुवः || ४|४|८०|| हन् कारा पुनर् वर्षा इत्येतेभ्य उत्तरस्य भुवो यणादेशो भवत्यचि सुपि परतः । दृन्भ्वौ । दृन्भ्वः । काराभ्वौ । काराभ्वः । पुनव । पुनर्भ्यः। वर्षाभ्वौ । वर्षाभ्वः । नियमार्थोऽयमारम्भः । एतेभ्यः एव भुवो यण् नान्यस्मात् । प्रतिभुवौ । प्रतिभुवः । स्वयम्भुवौ । स्मयम्भुवः । त्रिभुवौ । मित्रभुवः । “भुवः स्वन्तरे” [२|२|१५२] इति क्विप् ।
लुलिटो || ४|४|१८६१ ॥ भुवो वुगागमो भवति लुलिटोरचि परतः । अभूवन् । अभूवम् । "स्थेरिपब" [ १।४।१४६ ] इत्यादिना सेरुप् । मिपोऽमादेशे “ सूभवत्योर्मिडि" [ ५१२२८६ ] इत्यपि प्रतिषिद्धे वुक् । लिटि -बभूव । बभूविथ । बभूवतुः । बभूवुः । गलि थे च पूर्वविप्रतिषेधेनैवैपोर्युका बाधा । लुङलिरिति किम् ? व्यतिभविषीष्ट । श्ररित्यनुवर्तते तेन यङुबन्तस्य परत्वादेपि कृते न भवति । अत्रभवम् ।
हुश्नुवोर्गे वः || ४|४|८|| हु श्नु इत्येतयोरकारस्य वकारादेशो भवत्यजादौ गे परतः । जुहुवति । जुहूवतु । चिन्वन्ति । " ग्रहाज्झन्दशाम्” [ ४|४|६१] इत्यतो मण्डूकगत्याऽज्ग्रहणमनुवर्तते । तेनाच उत्तरस्य नोर्वकारादेशः । इह मा भूत् प्राप्नुवन्ति । राध्नुवन्ति । हुश्नुवोरिति किम् ? योयुवति । रोरुवति । चादित्यनुवर्तनात्प्रसज्येत । ग इति किम् ? जुहुवतुः । जुहुवुः । जुहवानि चिनवानीत्यत्र परत्वादेषु ।
गोरुङः ||४|४|३|| गोह उङ ऊकारादेशो भवत्यचि परतः । निगृहयति । निगूहकः । साधु निगूही । निगूहन्ति । निगूहम् । निगूहो वर्तते । गोहेरित्येपं कृत्वा विकृतनिर्देशः किम् ? यत्रास्यैतद्वपं तत्र यथः स्यादिह माभूत् | निजुगुहतुः । निजुगुहुः । उङ इति किम् ? अन्त्यस्य मा भूत् । प्रकृतिग्रहणे यबन्तस्य घञि जोगूह इत्यत्र चस्य च मा भूत् । ओरित्यनुवृत्तेः तद्विकारस्य न्वस्यापि प्रसज्येत । चीत्येव । निगोहा । निगोढुम् । ऊ इत्यविभक्तिको निर्देशः । द्विमात्रश्चायमादेशः । अन्यथा एप्प्रतिषेधः क्रियेत ।
दो || ४|४|८६८४ ॥ दोष उङ: ऊकारादेशो भवति णौ परतः । दूषयति । दूपयते । दोप इति विकृतग्रहणं किम् ? एपि कृते ऊकारो यथा स्यात् । अन्यथा प्रदूष्य गत इत्यत्र ऊकारस्यासिद्धत्वारखेरयादेशः प्रसज्येत । एपि कृते धिपूर्वत्वं नास्तीत्यप्राप्तिः । णाविति किम् ? दोष दोषः ।
वा चित्तविकारे ||४|४|८५|| चित्तविकारे ऽर्थे दोषो णौ परत उङो वा ऊकारादेशो भवति । चित्तं दूषयति । चित्तं दोषयति । प्रज्ञां दूषयति । प्रज्ञां दोषयति । दोषमाचष्टे दोषयतीत्यत्र टिखस्यासिद्धत्वादुङः ओः स्थाने विकारो न भवतीत्यप्राप्तिः । चित्तविकार इति किम् ? एकान्तवादप्रयोगं दूषयति । णावित्येव । चित्तस्य दोषः ।
ञिणमोदर्मिताम् ||४|४|८६ ॥ ञिणम्परे णौ परतो मितां गूनामुङो वा दीर्भवति । घटि । घाटि । घटं घटम् | घाट घाटम् । श्रशमि । अशामि । शमं शमम् । शामं शामम् । घटते कश्चित् । शाम्यति कश्चित् । तमन्यः प्रयुङ्क्ते इति णिच् । उङ ऐप् । वक्ष्यमाणेन “प्रः " [ ४|४|८७ ] इत्यनेन प्रादेशः । ञौ णमि चानेनोङो
त्वम् । ननु प्रादेश एव विकल्यः । दीरिति किमर्थम् १ न शक्यमेवम् । शमयतेर्णिचि कृते गौ णिखस्य स्थानिवद्भावात् उङः प्रादेशविकल्पो न स्यात् । दीत्वविधौ तु न स्थानिवद्भाव इति ञिपरो णिर्मितोऽनन्तर इति दीत्वविकल्पः सिद्धः । श्रशमि । अशामि । तथा अत्यर्थं शाम्यतीति यङ् । शंशम्यतेर्णिच् । “तः खम् " [४|४|५० ] । “हलो यः ” [ ४|४|५१ ] इति यखम् । अत्रापि यङोऽकारस्य दीत्वविधिं प्रति न स्थानिवद्भाव इति अशंशामि । नवाऽत्रासिद्धत्वं शंक्यम् व्याश्रयत्वात् । णौ हि विङोः खं ञिणम्परे णौ गोर्दत्वमिति ।
प्रः ॥४४॥८७॥ णाविति वर्तते । मितां गूनामुङ: प्रो भवति णौ परतः । घटयति । व्यथयति । जनयति । "जनिवध्योः” इति ञिकृतोः परत ऐप्प्रतिषेधः उक्तस्ततो जेरन्यदुदाहरणम् । मितामिति किम् ? कामयति । आमयति । चाममति । " न कस्यमिचमाम्” इति मित्संज्ञाप्रतिषेधः । प्रशमय्य गत इत्यत्र णावुङः प्रादेश:
For Private And Personal Use Only