________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२६
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० ४ सू० ६१-७६
वेङः || ४|४|६|| मेङ: प्ये परतो वा इकारादेशो भवति । अपमित्य । अपमात्र । " माङो व्यतीहारे " [ २|४|५] इति क्त्वा ।
Acharya Shri Kailassagarsuri Gyanmandir
लुङ्लङ्लृङ्कट् ||४|४|७० ॥ लुङि लङि लुङि च परतो गोरडागमो भवति । श्रकार्षीत् । अकरोत् । श्रकरिष्यत् । ऐक्षिष्ट । श्रौम्भीत् । ऐक्षत । श्रौम्भत् । ऐक्षिप्यत । श्रभिष्यत् " अ [मा३७८ ] इत्यै । श्रासन् श्रयन् इत्यत्र लावस्थायामडागमेऽन्तरङ्गत्वादै प्यायादेशे च कृतेऽत इत्यनुवृत्तेः "श्नसः खम्” [ ४|४|१०१] यणादेशश्च न भवतः ।
न माङ्योगे || ४|४|७१ ॥ माङ्योगेऽडागमो न भवति । मा कार्षीत् । मास्म करोत् । मानिरसीत् । मास्म निरस्ताम् । योगग्रहणं किम् ? मा भवान् कार्षीत् । इदमेव ज्ञापकं " माङि लुङ ” [२।३।१५१] इत्यत्र माङ्योगे लुङ् द्रष्टव्यः ।
gai खोरीची ||४|४|७२ || श्नु धु भ्रू इत्येतेषां गूनामिवर्णो वर्णयोरजादौ परत इयू उब इत्यादेशौ भवतः । श्नु । प्राप्नुवन्ति । राध्नुवन्ति । धु-चिक्षियतुः । चिक्षियुः । लुलुत्रतुः । लुलुवुः । नियौ । नियः । लुवौ । लुवः । भ्रू । भ्रुवौ । भ्रवः । निर्दिश्यमानयोरिवर्णोवयोरादेशः । यथा “पादः पद्” [ ४|४|११६ ] इति पाच्छब्दस्य पदादेशो न पादन्तस्य । नयति । भवति । नायकः । भावकः इत्यत्र परत्वादेवैपौ । श्रचीतीनिर्देशाद् व्यवधाने न भवति । विविदतुः । विविदुः । गोरित्येव । स्त्र्यर्थम् । भ्रूवर्थम् ।
चावे ||४|४|७३ ॥ चस्येवर्णो वर्णयोरत्वेऽचि परत इयुवौ भवतः । इयेष । इयर्ति । पूर्वेण गुनिमित्तेऽचि आदेश उक्त इति न प्राप्नोति । श्रस्व इति किम् ? ईपतुः । ईषुः । ऊषतुः । ऊषुः । श्रचीत्येव ।
याज | उवाय ।
स्त्रियाः || ४|४|७४ || स्त्रियाश्च इयादेशो भवति अचि परतः । स्त्रिया । स्त्रियः । परमस्त्रियौ । परमस्त्रियः । अलैवानर्थकेन तदन्तविधिः नारसंघातेन । तेन शस्त्रीशब्दस्य न भवति । स्त्रीणामित्यत्र परत्वान्नुट् । पृथक्करणमुत्तरार्थम् |
वाम्शसोः || ४|४|७५ || अम्शसोः परतः स्त्रिया वा इयादेशो भवति । स्त्रियं पश्य । स्त्रीं पश्य । स्त्रियः पश्य । स्त्रीः पश्य ।
श्रतः || ४|४|७६ ॥ आकारादेशो भवति श्रतोऽमुशसोः परतः । वेति न स्वरितं गां गाः पश्य । द्यां यः पश्य च गोशब्दस्य श्रमि ऐप: पूर्वनिर्णयेनात्वम् । चित्रगुं पश्येत्यत्रान्तरङ्गत्वात्प्रदेशे सत्यात्वाभावः । शता सहचरितस्यामो ग्रहरणादिह न भवति । श्रचिनवम् । असुनवम् ।
यणेत्योः || ४|४|७७ ॥ यणादेशो भवति एत्योरचि परतः । यन्ति । यन्तु । श्रधियन्ति । अधियन्तु । " मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ” [प०] इतीयादेशस्य बाधा नत्वेवैपोः । श्रयनम् । श्रायुवः । एर्गिवाक्चादुङोऽसुधियः || ४|४|७८ ॥ गिवाक्चात्परो य उङ् तस्मादुत्तरस्य इवर्णस्य यणादेशो भवत्यन्ति परतः सुधीशब्दं वर्जयित्वा । गिः-उन्न्यौ । उन्न्यः । परियौ । परिण्यः । वाचः - ग्रामण्यौ । ग्रामण्यः । सेनान्यौ | सेनान्यः । चात् - चिच्यतुः । चिच्युः । निन्यतुः । निन्युः । गिवाक्चादिति किम् ? नियौ । नियः । परमनियौ । परमनियः । उङ इति किम् ? यवक्रियौ । यवक्रियः । उङत्र गिवाक्चात्परो न भवति । ककारेण व्यवधानात् । सुधिय इति किम् ? सुधियौ । सुधियः । “ध्याप्योर्जिश्व" [उ०सू०] इति क्विप् जित्वं च । सुयोः || ४|४|७६ ॥ जादौ सुपि परतो गिवाक्चपूर्वादुङः परस्य उवस्य यणादेशो भवति । सुल्यौ । सुवः । सकृल्ल्यौ । सकृल्ल्वः । खलप्वौ । खलप्वः । शतस्वौ । शतस्वः । सुपीति किम् ? लुलुवतुः । एतदर्थं च योगान्तरम् । गिवाक्चादित्येव । भुवौ । भुवः । लुवौ । लुवः । परमलुवः । उङ इत्येव कवौ । कटवः ।
For Private And Personal Use Only