________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० ६२-६८], महावृत्तिसहितम्
३२५ "जिणमोदीर्मिताम्" [१६] इति वा दोत्वे कृते द्वे रूपे शामिष्यते । शमिध्यते। नित्यत्वादलाघगस्य] चाधित्वा त्रिवदिट् । तस्यासिद्धत्वापिणखम्। अन्यत्र शमयिष्यते। जौ दृष्ट कार्य सामान्येनातिदिश्यते । तेन घानिष्यते । यायिष्यते । अध्यापिष्यते इत्यत्र हनिणिङ निवद्भावे वधादय यादेशाः लुङि विहिता न भवन्ति ।
दीडोऽचि किति युट् ॥४२॥ दीडोऽजादौ किति परतो युडागमो भवति । उपदिदीये । उपदिदीयाते। उपदिीयिरे। दीङ इति कानिर्देशोऽचीत्यस्योत्तरत्र सावकाशस्य तां कल्पयति । वचनाघटः सिद्धत्वात "एगिवाक्चादुङोऽसुधियः" [ ८] इति यणादेशो न भवति । अतीति किम् ? उपदीयते । कितीति किम् ? उपादानम् । “गागयोः" [५।२८१] इत्येप् । “मिमीञ्दीङ प्ये च" [४।३१४३] इत्यात्वम् । यकुबन्तादामा भवितव्यमित्यनुबन्धनिर्देशो विस्पष्टार्थः । पूर्वान्तकरणे उपदिदीयिध्वे इत्यत्र इणन्ताद्गोरुत्तरस्य ढत्वं प्रसज्येत ।
इटि चात्खम् ॥४॥४॥६३॥ इटि अजादौ च किति परत आकारान्तस्य गोः खं भवति । पपिथ । जग्लिथ । “वोपदेश"५१०८] इत्यादिनेट । पपतुः । पपुः। तस्थतुः । तस्थुः । गोदः । कम्बलदः । डितिप्रपा । संस्था। अचीत्येव । दासीय । ग्लायते । “रन्नभेटः" [१४८६] इतीटोऽकारादेशः। अग इत्येष । यान्ति | व्यत्यत्ते । इटीति यद्यविशेषणग्रहणं तदा गेऽप्यातः खेन भवितव्यम् । व्यत्यस्तोति । एतच्च अगाधिकारेण विरुद्धमिव लक्ष्यते ।।
ईद्ये ॥४॥४॥६४॥ श्राकारान्तस्य गोरीकारादेशो भवति ये परतः । देयम् । धेयम् । ग्लेयम् । "गुकार्ये निवृत्ते पुनर्न तन्निमित्तम्" [प०] इति अनित्यमेतत् । “देयमृणे" [३।३।२२] इत्येपो निर्देशात् । यद्येप क्रियते दीत्वोच्चारणं किमर्थम् ? पीतम् । हीनम् । य इति “निरनुबन्धकग्रहणे न सानुबन्धकस्य" [१०] । ग्लायते । म्लायते ।
भुमास्थागापाहाक्सां हलि ॥४॥४॥६५॥ कितीति वर्तते । भुमा स्था गा पा हाक् सा इत्येतेषामीकारादेशो भवति हलादौ किति परतः । भुसंज्ञानाम् । दीयते। देदीयते । धीयते । देधीयते । पीतं वत्सेन । मा इत्यविशेषेण ग्रहणम् । “गामादाग्रहणेष्वविशेषः" [१०] इति । मीयते । स्था-स्थीयते। तेष्ठीयते । गा इल्यविशेषेण ग्रहणम् । गीयते । जेगीयते । अध्यगीष्ट । “लुङ्लुङोर्वा" [१॥४।१२२] इति ईङो गादेशः । पा इत्यनुब्विकरणपिबतेर्ग्रहणम् । पीयते । पेपीयते । पातेस्तु पायते । पानम् । हाक-अवहीयते । अवजेहीयते । जिहीतैस्तु हायते । हातम् । सा-श्रवसीयते । अवसेषीयते । हलीति किम् ? ददतुः । ददुः । कितीत्येव । दाता ।
लिङ्येत् ॥४४॥६६॥ लिङि परतो भुमादीनामेकारादेशो भवति । देयात् । धेयात् । मेयात् । स्थेयात् । गेयात् । पेयात् । अवहेयात् । अवसेयात् । कितीत्येव । दासीष्ट ।
वाऽस्थः स्फादेः ॥४।४।६७॥ श्राकारान्तस्य स्फादेः स्थावर्जितस्य गोरेकारादेशो भवति वा लिङि परतः । ग्लेयात् | ग्लायात् । म्लेयात् । म्लायात् | अस्थ इति किम् ? स्थेयात् । अन्यथोभयप्राप्तौ परत्वादेतेन विकल्पः स्यात् । स्फादेरिति किम् ? यायात् । कितीत्येव । ग्लासीष्ट । गोरित्वेव । निर्यायात् ।
न प्ये ॥४४॥६॥ वेति नाधिकृतमुत्तरत्र वाग्रहणात् । प्ये परतो भुमादीनां यदुक्तं तन्न भवति । प्रदाय । प्रधाय । प्रमाय । प्रगाय । प्रस्थाय। प्रपाय। अवहाय । अवसाय । ईत्वप्रतिषेधोऽयम् । वचनात् "अन्तरङ्गानपि विधीन् बहिरङ्गः प्यादेशो बाधते" [१०] इति ज्ञापितम् । तेन "दो ददोः" [५/२११४८] इति दद्भावः । दधातेहि श्रादेशः । “हाकः क्वि" [५२।१४७] । मास्थास्यतीनामित्त्वं च न भवति । प्यादेशे कृतेऽनल्विधाविति स्थानिवद्भावाप्रतिपेधात्प्राप्तिः।
For Private And Personal Use Only