________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एमगत
३२४
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० ५५-६५ अयामन्ताल्वाय्येनुषु ॥४।४।५५॥ ऐरयादेशो भवति अाम् अन्त अालु अाय्य इत्नु इत्येतेषु परतः । अाम् । कारयांचकार । अन्त । गदयन्तः । मण्डयन्तः । “दृविशिभ्यां झः" [उ० सू०]। "गदिमदिमण्डिजिनदिभ्यश्च" [उ. सू०] इति झः । पालुः। स्पृहयालुः। श्राय्यः । स्पृहयाय्यः । “महिसूदतिस्पृहिभ्य आय्यः" [उ० सू०] इत्याय्यः । इत्नुः। स्तनयित्नुः । गदयित्नुः । “स्तनिहृदियुपिगदिमदिभ्यो णेरिनुः" [उ० सू०] । गिखस्यायमपवादः । नेति सिद्धेऽयादेश उत्तरार्थः ।
प्ये घिर्षात् ॥४४॥५६॥ प्ये परतो घिपूर्वद्वात्परस्य णेरयादेशो भवति । प्रशमय्य । प्रतमय्य | लवणं कृतवान् प्रलवणय्य । प्रस्तनय्य । यङन्तारिणचि प्रवेविदय्य गतः । ननु प्रादेशटिखात्खयखानामाभाच्छास्त्रत्वादसिद्ध त्वे कथं धिपूर्वाद्वर्णात्परो णिः । व्याश्रयत्वात्सिद्धत्वम् । प्रादेशादयो णो प्ये परतो ऐरयादेश इति वचनाद्वा सिद्ध त्वम् । घिपूर्वादिति किम् ? प्रहास्य प्रचिकीर्घ्य गतः ।
वाऽऽपः ॥४४५७॥ श्रापः परस्य णे: प्ये परतो वाध्यादेशो भवति । प्रापय्य प्राप्य गतः । स्वादिकस्य चौरादिकस्य चापेर्ग्रहणम् । सूत्रमध्याय गतः इत्यत्र लाक्षणिकत्वान्न भवति । अपजवस्ते प्रापय्य गतः इत्यत्रका देशस्यासिद्धत्वादयेव भवति ।
क्षियो दीः ॥४।४।५८॥ वेति नाधिकृतम् । क्षियो दीर्भवति प्ये परतः । अाक्षीय । तुकि प्राप्ते दीत्वम् ।
तेऽण्ये ॥४।४।५६॥ अण्यार्थे विहिते ते परतः क्षियो दीर्भवति । कः पुनार्थो यः पर्युदत्यते । भावकर्मणी "तयोर्व्यक्तखार्थः" [२।१५५] इति वचनात् अाक्षीणः । परिक्षीणः । “धिगत्यर्थाच्च" [२।४।५८] इति कर्तरि क्तः । दीत्वे कृते क्षीत इति तस्य नत्वम् । इदम् क्षीणं सार्थस्य । क्षीयतेऽस्मिन्निति “अधिकरणे चाद्यर्थाच्च" शि५६] इत्यधिकरणे क्तः। "क्तस्याधिकरणे" [
१ ०] इति कर्तरि ता । अण्य इति किम् ? ग्राक्षितमस्य । भावे दीवाभावान्नत्वं नास्ति । सगेः क्षियः सकर्मकत्वे कर्मण्यपि।
वा दैन्याक्रोशे॥४ासा६०॥ अण्यार्थे ते परतो दैन्ये आक्रोशे च गम्ये दियो वा दीर्भवति । दैन्ये क्षितोऽयं क्षीणोऽयं वराकः । आक्रोशे क्षितोऽसि क्षीणोऽसि जाल्म । क्षितायुः । क्षीणायुः । कर्तरि क्तः। अण्य इत्येव । क्षितं वराकस्य । क्षितं जाल्मस्य ।
सिस्यसीयुटतासौ ङौ ग्रहाभन्दृशां त्रिवदिट च ॥४४६१॥ सि स्य सीयुट तासि इत्येतेषु परतो डावर्थे ग्रहेरजन्तानां हनि दृशि इत्येतयोश्च वा जिवत्कार्यं भवति । यदा जिवद्भावस्तदा इडागमश्च भवति स्यसिसी युट्तासीनाम् । अग्राहिषाताम् । अग्रहीषाताम् । “ग्रहोऽलिटि दीः" [५१५] इत्यत्र प्रकृतस्येटो दीत्वम् । ग्राहिष्यते । ग्रहीप्यते। ग्राहिषीष्ट । ग्रहीषीष्ट । ग्राहिता । ग्रहीता। इटो दीवाभाव ऐषु च प्रयोजनम् । अजन्तानाम्-अचायिषाताम् । अचेषाताम् । अग्लायिषाताम् । अग्लासाताम् । अकारिषाताम् । अकृषाताम् । “उ:" [१1१1८६] इति से: कित्त्वम् । चायिष्यते। चेष्यते । ग्लायिष्यते ।
कारिष्यते । करिष्यते । चायिपीष्ट | चेषीष्ट । ग्लायिषीष्ट । ग्लासीष्ट । कारिपीष्ट । कृषीष्ट । ":" [
१ ६] इति लिङः कित्त्वं च । चायिता । चेता। ग्लायिता । ग्लाता। कारिता । कर्ता। अनुदात्तादिडागमः | अातो युक्च प्रयोजनम् । अघानिषाताम् । अहसाताम् । अभिवद्भावे "वेङि" [१।४।११६] इति वधादेश उदात्तः । अवधिषाताम् । घानिष्यते । हनिष्यते। घानिषीष्ट । वधिषीष्ट । परत्वात् भिवद्भावे कृते "सकृद्गते परनिर्णये बाधितो बाधित एव" [प०] इति वधादेशो न भवति । द्यत्वं च प्रयोजनम् । अदर्शिषाताम् । अदृक्षाताम् । “सि लिङ्दे" [१1१८५] इति कित्त्वम् । दर्शिष्यते । द्रक्ष्यते । “झल्यकिति सृजदृशोऽम्" [४।३।५१] इत्यमागमः । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । सिस्यसीयुटतासाविति किम् ? दातव्यम् । दानम् । डाविति किम् ? लविष्यति । दास्यति । ग्रहाज्झन्हशामिति किम् ? पक्ष्यत प्रोदनम् । उपदेश इत्यनुवर्तनात् कारिष्यत इत्यत्र परत्वादेपि कृतेऽपि जिवद्भावः । शमयतेरजन्तस्य जिवद्भावपक्षे
For Private And Personal Use Only