SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ४ सू० ४६-५४] महावृत्तिसहितम् ३२३ भ्रस्जोरसोरम्वा ॥ ४६॥ भ्रस्जो रेफसकारयोर्वा रमादेशो भवति । भट । भ्रष्टा। भष्टुम् । भ्रष्टुम् । भष्टव्यम् । भ्रष्टव्यम् । रसोरिति पुनस्ताया उपादानादादेशोऽयं रसोः स्थाने भवति मित्त्वोच्चारणसाम झंदचोऽन्त्यात्परो भवति । रमभावपक्षे स्फादेः सखम् । ननु रेफस्यैव रमादेशो वक्तव्यः । द्वयोः स्फसंज्ञामाश्रित्य सखेन सिद्धमिति चेदजादौ न सिध्यति । भर्जनम् । भ्रज्जनम् । भगः। भ्रद्गः । पक्षे "झलां जश् झशि" [५।४।१२८] इति सकारस्य दत्वम् । रमादेशस्यावकाशोऽङ्किति भ्रष्टा । भी । जेरवकाशो भृज्जति । इहोभयं प्राप्नोति भृष्टा । भृष्टवानिति । कृताकृतप्रसङ्गित्वेन नित्यो जिर्भवति । जौ कृते रमादेशो न भवति । उपदेश इत्यनुवर्तनात् । तेनेहापि न भवति बरीभृज्यते । अतः खम् ॥४॥४॥५०॥ अगेऽकारान्तस्य खं भवति । चिकोर्षिता। धिनोति । धिनुतः । कृणोति । कृणुतः । इवि दिवि विवि प्रीणने । कृवि हिंसाकरणयोश्च । “इदिदोर्नुम्" [५/१३७] । “धिन्विकृण्व्योर च" [२।११७५] इति उविकरणः । अकारश्चान्तादेशः। तस्य खे । तपरकरणं किम् ? याता। ऐपोऽवकाशः प्रियमाचष्टे प्रापयति । कारयति । अत्खस्यावकाशः चिकीर्षिता। इहोभयं प्राप्नोति चिकीर्षक इति । दीत्वस्यावकाशः पण्डितायते । स्तूयते। अत्खस्यावकाशः चिकीर्षिता । इहोभयं प्राप्नोति चिकीर्ण्यते इति । किमत्र तत्त्वम् ? "ऐब्दीत्वाभ्यासमतः खं पूर्वनिर्णयेन" [वा०] "लिप्स्यसिद्धौं" [२।३।५] इत्यत्र लिप्स्य इति विग्रहनिर्देशात् । हलो यः ॥४४॥५१॥ हलन्ताद्गोरुत्तमस्य यकारस्य खं भवत्यगे । बेभिदिता। बेभिदितुम् । बेभिदितव्यम् । पूर्वेणातः खे कृते यखविधि प्रति स्थानिवद्भावप्रतिषेधादनेन यखम् । तृचमपेक्ष्य "घ्युङः" [५।२।८३] एप्पा तोऽतः खस्य स्थानिवद्भावान्न भवति । “न धुखेऽगे" [१1१1१८] इत्ययं तु प्रतिषेधो हलचोः खे अल्मात्रस्य खे न प्रवर्तते । लोलुवः । देद्यः इति । अत्र “यङोऽचि" [१११११४४] इत्युन्छास्त्र' कृतप्रसङ्गेन नित्यम् । उपि तु कृतेऽतः खं शास्त्रं न प्रवर्तते इत्यनित्यम् । तेन हल चोरुपि कृते स्थानिवद्भावाभावात् "न धुखेडगे" [212196] इत्यनेन प्रतिषेधः। हल इति किम् ? लोलूयिता। पोपूयिता । गोनिमित्तत्वेन विशेषणादिह न भवति । ईयिता । समिध्यिता। अतः खे कृतेऽपि यकारमात्रस्य त्यस्य गुसंज्ञानिमित्तत्वमस्ति यथा अकरोदित्यत्र तिप इकाराभावेऽपि । वा क्यस्य ॥४॥४॥५२॥ क्यस्य हल उत्तरस्य वा खं भवत्यगे। समिधिता। समिध्यिता। हपदिता । दृषधिता। समिधमिच्छति प्रात्मनः "स्वेपः क्यच" [१६] समिधमिवाचरति "गौणादाचार" [१] इति वा क्यच । समिदिवाचरतीति “कर्तुः क्यङ स खं विभाषा" [२।१६] इति क्यङ् । तान्येवोदाहरणानि । हलन्तात् क्यखोऽसम्भवः । “नः क्ये" [१२।१०४] इति पूर्वपदत्वाभावः । णेः ॥४४॥५३॥ अगे णेः खं भवति । अततक्षत् । इयादेशः प्राप्तः । आटिटत् । इयादेशापवादः "एर्गिवाक् चादुङोऽसुधियः" [१८] इति यत्वं प्राप्तम् । कारणा। हारणा । ऐप प्राप्तः । शीप्स्यति सनि दीत्वं प्राप्तम् । कार्यते । हार्यते “दीरकृदगे" [५।२११३४] इति दीत्वं प्राप्तम् । कारको हारकः। ऐप प्राप्तः । णि कामनम् । कामकः । काभ्यते । इयादिभिः सर्वस्य विषयत्यावष्टब्धत्वात्सामान्यरूपेण तेषामयमपवादः। ते सेटि ॥४४॥५४॥ तसंज्ञके सेटि परतो णे: खं भवति । कारितम् । गणितम् । लक्षितम् । संज्ञपितः । ज्ञपेः सनि विकल्पितेटोऽपि “यस्य वा" [५/१/१२१] इत्यनेन प्रतिषेधः । एकाच इत्यपेक्षणात् । कथं तर्हि विज्ञप्तः प्रभुरिति विकल्पेन “छयज्ञप्ताः" [५।१११२५] इति निपातनात् । नियमार्थोऽयमारम्भः । त एव सेटि नान्यस्मिन् । कारयिता । हारयिता । ते सेट्ये वेत्यवधारणं न भवति णेः परस्यानिटस्तस्या व्यावय॑स्याभावात् । सेटीति वचनात्पूर्वमिडागमः पश्चारिणखम् । अन्यथा कृताकृतप्रसङ्गेन नित्ये णिखे कृते "एकदेशविकृतस्यानन्यत्वात्" [प०] कारितमित्यत्र "एकाचोऽनुदात्तात्" [५।११११५] इतीप्रतिषेधः प्रसज्येत । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy