________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२२
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ४ सू० ४३-४८ अनसनखनाम् ||४|४|४३|| जन सन खन इत्येतेषां ङस्य झलादौ किति परत आकारादेशो भवति । जातः । जातवान् । जातिः । सातः । सातवान् । सातिः । खातः । खातवान् । खातिः । सनोतेस्तनादौ पाठस्य " तनादिभ्यस्तथासोः” [१।४।१४८ ] इत्यादिकार्यमवकाशः । इह पाठस्य च सनि परत श्रात्वमवकाशः । लादौ कितिङखादित्वं परत्वात् । ननूभयोः सिद्धत्वे स्पर्धः इह च “असिद्ध वदाभात् [ ४।४।२१] इत्युभयमसिद्ध तत्कथं परत्वम् । अत्रोच्यते "भुमास्थागा" [ ४/४/६५ ] श्रादिसूत्रे हलीति हल्ग्रहणं ज्ञापकं भवत्यत्र स्पर्धः । तथाहि तस्यैतत्प्रयोजनं हलादावीत्वं यथा स्यात् । श्रजादौ मा भूत् । । गोदः कम्बलदः इति । स्वत्रापीत्वं तस्यासिद्धत्वात् "इटि चात्" [ ४|४|६३ ] खेन सेत्स्यति नाथ हल्ग्रहणेन । तदेतत्स्पर्धे सति सार्थकम् । क्रियमाणे हल्ग्रहणे गोद इत्यत्र परत्वादीत्वे “ सकृद्गते परनिर्णये विधिर्वाधितो बाधित एव" [५० ] इत्याखं न स्यादिति मन्यमानो हलीत्याह ।
Acharya Shri Kailassagarsuri Gyanmandir
सनि || ४|४|१४|| सनि च झलादौ परतो जनादीनां ङस्य श्राकारादेशो भवति । सिसासति । झलित्येव । जिजनिषते । सिसनिप्रति । चिखनिषति । " सनीवन्तर्ध” [ ५/१/६७ ] इत्यादिनाऽनिट्पचे सनोतेरेव सन् झलादिः सम्भवति । किद्ग्रहणमसम्भवादिह न संबध्यते ।
ये च ||४|४|१५|| ङ्कितीति वर्तते । ङ्किति यकारे त्ये परतो वा जनादीनामाकारादेशो भवति । जायते । जन्यते । जाजायते । जञ्जन्यते । श्ये परत्वाद् "ज्ञाजनोर्जा" [ ५१२७७ ] इति निल्यो जादेशः । सायते । सन्यते । सासायते । संसन्यते । खायते । खन्यते । चाखायते । चंखन्यते । श्रभलादावपि यथा स्यादित्यारम्भः । ङ्कितीत्येव । जन्यम् । “शकिसहश्च” [२।११८६] इति चशब्देनान्येभ्योऽपि यः । ये च सान्यम् । खान्यम् । य इति त्यनिर्देशो न वर्णनिर्देशः । तेनेह न भवति सन्यात् । खन्यात् । "किदाशिषि [ २४८५ ] इति कित्त्वम् ।
तनोकि ||४|४|१४६ ॥ तनोते कि परतो वा आकारादेशो भवति । तायते । तन्यते । यकीति किम् ? तन्तन्यते । प्राप्ते विकल्पः ।
सनः क्तिचि खं च ॥ ४४ ॥ ४७ ॥ सनः तिचि परतः खं भवत्याकारश्च वा । सतिः । सातिः । सन्तिः । " न क्तिचि दी ” [ ४४ ४०] इति ङखदीत्वयोः प्रतिषेधे प्राप्ते वचनम् ।
I
||४|४|१४८ ॥ वेति निवृत्तम् । श्रग इत्ययमधिकारो वेदितव्यः । " लुङलङ लुङ, मट्” [४|४|७० ] इत्यतः प्राकू यदनुक्रमिष्यामः श्रग इत्येवं तद्वेदितव्यम् । वक्ष्यति “ श्रतः खम् " [ ४|४|५० ] चिकीर्षिता । इति किम् ? चिकीर्षति । ननु भवतु गेप्यतः खम् । शपोऽकारस्य श्रवणं भविष्यति । एवं तर्हि शपोऽकारस्यैव गे खं माभूत् । ननु “शपोऽदादिभ्यः " [ १|४|१४३] इत्युज्वचनं ज्ञापकम् । शपो गे खं न भवति । नैतदस्ति “नोमता गो : " [१|१|६४ ] इति त्याश्रयकार्यप्रतिषेधार्थं ता स्यात् । मृष्ट इति । "हल्यैबुप्युतः " [ ५ाश७] इत्यैपो विधानार्थं च । यौति । रौति । तत्वलोश्च खं मा भूत् । वृक्षतेति । “हलो यः " [ ४/४/५१ ] बेभिदिता । बेभिदितुम् । गे माभूत् । बेभिद्यते । " : " [ ४|४|५३ ] कारणा । हारणा । अग इति किम् ? कारयति । हारयति । "सिस्यसीयुट्तासौ ङौ ग्रहाज्कनदृशां निवदिट् च" [४|४|६१ ] इति श्रगे सीयुट् । कारिषीष्ट । गे मा भूत् । प्रस्नुवीत । "स्नोश्च ञिश्व" [ २२११५६ ] इति यक् प्रतिषिध्यते । इह च क्रियेत ह्रियेत । " णित्यचः " ' [५२/३ ] इति क ऐपि युक् प्रसज्येत । “इटि चात्खम् ” [४|४|६३ ] पपतुः । पपुः । ययतुः । ययुः । गे मा भूत् । पान्ति । वान्ति । " भुमास्थागापा" [ ४|४|६५ ] इत्यादिनेत्वम् । दीयते धीयते । गे मा भूत् । अदाताम् । धाताम् । "लिङ येत्" [ ४|४|६६ ] देयात् । गे मा भूत् । दद्यात् । दध्यात् । " वाऽस्थः स्फादेः " [४/४/६७ ] ग्लेयात् । ग्लायात् । अग इत्येव । विध्यादिलिङि - स्नायात् ।
For Private And Personal Use Only