________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
अ०४ पा० ४ सू० ३६-४२] महावृत्तिसहितम्
३२१ अनेनान्त्यस्य सम्भवादाकारे कृते पूर्वेण उङ इत्वे चानिष्ट रूपं स्यात् । ननूङ आत्वे कृते "घि" [५।३।४३] इति सखे च सिद्धं शाधीति उङ इति तर्हि निवृत्तम् । अपि च प्रकृतिग्रहणे यबन्तस्यापि सचस्य यथा स्यादित्येवमर्थः शादेशः।
हन्तेर्जः ॥४॥४॥३६॥ हन्तेर्ज इत्ययमादेशो भवति हौ परतः। जहि मन्युम् । जहि पापम् । तिपा निर्देशाद् यकुबन्तनिवृत्तिः । जंघहीति ।
अनुदात्तोपदेशवनतितनोत्यादीनां ङखं झलि विति ॥४४॥३७॥ अनुदात्तोपदेशानां गूनां वनतेस्तनोत्यादीनां च ङस्य खं भवति झलादौ किति परतः । कितीति निर्देशात्पूर्वस्याव्यवहितस्य खम् । यत्वा । यतिः । यतः । यतवान् । इखे विहतनिमित्तत्वात् “ङस्य" [ १३] इति दीत्वं न भवति । अनुदात्तोपदेशाः यमिरमिनमिगमिहनिमन्यतयः पट् । वतिः। बनतेः स्त्रियां तौ । तनोत्यादीनां तत्वा । ततिः। ततः। ततवान् । सनोतेरात्वं वक्ष्यति । क्षतः । क्षतवान् । डिति। हतः। हथः । अतत । अतथाः। "तनादिभ्यस्तथासोः" [११४८] इति सेरुप् । एतेषां ग्रहणं किम् ? शान्तः। तान्तः । ङस्येति किम् ? पक्ववान् । भलीत्येव। गम्यते । कितीति किम् ? यन्ता। यन्तुम् । उपदेशग्रहणमुत्तरार्थम् । वनतेस्तिपा निर्देशाद्यडुबन्तस्य निवृत्तिः । वंवांतः।
शपा तिपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।
यच्चैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ् पि ॥) तनोतेर्गनिर्देशादेव याङ बन्तस्य न भवतीति सिद्धे तिपा निर्देशः “द्विर्बद्ध सुबद्धं भवति" [१०] इति निदर्शनार्थस्तेन सकृदुक्त ऐषु क्वचिन्न भवति । ज्योतीष्यधिकृत्य कृतो ग्रन्थो ज्यै तिषः। पुनः कितीति ग्रहणं विस्पष्टार्थम् ।
प्ये ॥४४॥३८॥ प्ये च परतोऽनुदात्तोपदेशादोनां खं भवति । प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । प्रसत्य । प्रक्षत्य । अझलादावपि विध्यर्थमिदम् ।
वा मः ॥४॥३६॥ अनुदात्तोपदेशादिषु मकारान्तानां वा ङखं भवति प्ये परतः । प्रयत्य । प्रयम्य । प्ररत्य । प्ररम्य । प्रणत्य । प्रणम्य । प्रगत्य । प्रगम्य । पूर्वण नित्ये खे प्राप्ते विकल्पः ।
न क्तिचि दीश्च ॥४॥४॥४०॥ क्तिचि परतः अनुदात्तोपदेशादीनां ङखं दीश्च न भवति । यन्तिः । रन्तिः। नन्तिः । वन्तिः। तन्तिः । क्षन्तिः। अनुदात्तोपदेशादीनामित्येव । शान्तिः। दीत्वं भवत्येव ।
गमः क्वौ ॥ ॥४१॥ गमः क्वौ परतो ङस्य खं भवति । जनगत् । कलिगत् । मोक्षगतो मुनयः । "वर्णाश्रये नास्ति त्याश्रयम्" [प०] इति झलाद्यभावादप्राप्तं ङखमनेन विधीयते । पूर्वसूत्राच्चकारोऽनुवर्तते, सोऽत्रानुक्तसमुच्चयार्थः । तेन गमादीनां क्वौ ङखं द्रष्टव्यम् । संयत् । परीतत् । “वागमिङ" [१।३।८२] इति पसे कृते “नहिवृति" [४।३।२१६] इत्यादिना परेर्दीत्वम् ।
वन्याः ॥४|४|४२॥ अनुदात्तोपदेशादि निवृत्तम् । ङस्येति वर्तते । ङान्तस्य गोर्वनि परत यात्वं भवति । विजायत इति विजावा। "मन्वन्वनिब्विचः क्वचित्" [२।२।६२] इति वन् । “वशि" [५/११११४] इतीटप्रतिषेधः । अन्तेऽलः स्थाने आत्वम् । एवम् अग्रेगावा। दधिक्रावा। दीत्वोच्चारणं किमर्थम् ? ओण अपनयन इत्यस्माद्वनि अवावा । घुण घूर्ण भ्रमणे। घ्यावा । इवि व्याप्तौ-यावा । “इदिद्धोर्नुम्" [५।१।३७] "वलि व्योः खम्" [३३५५] इति वनि परतो नकारस्य खम् । एतच्च वर्णनिमित्तं नागनिमित्तमिति न धखेऽवात् "ध्युङः" [५।२।८३] इत्येप प्राप्तस्तमन्तरङ्गत्वाद्य णादेशो बाधते ।
For Private And Personal Use Only