________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० २८-३५ आदि सूत्रे त्यजरजादि निपातनासिद्धम् । “दशनहः करणे अट्" इति सूत्रे दशेति विकरणनिर्देशेन निपातनम् । अजादिषु पाटाद् दंष्ट्रेति “रजकरजनरजत्सु नखे यत्नः कर्तव्यः" [वा०] “शिल्पिनि वुः" । युः । औणादिकश्च "अस् सर्वधुम्यः” इत्यस् ।
स्यदाघोदधौद्मप्रश्रथहिमश्रथाः॥४॥४॥२८॥ स्यद, अबोद, एध, योद्मन् , प्रश्रथ, हिमश्रथ इत्येते शब्दा निपात्यन्ते । स्यद इति स्पन्देघनि नखमैबभावश्च निपात्यते जवेऽभिधेये। गोस्यदः । अश्वस्यदः । कृद्योगे तासः । जवादन्यत्र तैलस्यन्दो घृतस्यन्दः । अवोद इति उन्देरवपूर्वस्य घनि नखं निपात्यते । एध इन्धेर्धनि नखमेप च निपात्यते । “न धुखेऽगे" [1111८] इति प्रतिषेधो मा भूत् । श्रोद्म इति उन्देरौणादिके मनि नखम् । प्रश्रयः हिमश्रथ इति श्रन्थेः प्रपूर्वत्य हिमपूर्वस्य च पनि नखमैबभावश्च निपात्यते । “न ध्रुखेऽगे" [१११।१८] इत्यत्र इकोऽनुवर्तनादेपः प्रतिषेधो न स्यात् ।
नाञ्चेः पूजे ॥४॥४॥२९॥ अञ्चतेः पूजेऽर्थे नकारस्य खं न भवति । अञ्चितोऽस्य गुरुः । समय जिनं गतः । “अञ्चेः पूजायाम्" [५।१।१०१] इति तक्त्वोरिट् । हलुङ इति नखप्राप्तिः । पूज इति किम् ? उदक्तमुदकं कुपात् । अक्वा रजुम् । “वोदितः" [५।१।१०४] इत्यनेनेट्पक्षे मृडादिनियमादकित्त्वम् । अञ्चित्वा । ते “यस्थ" [५।१।१२१] इति प्रतिषेधः । नाञ्चेरित्यनेनैव प्रतिषेधेन नकारः कृतचुत्वो निर्दिष्टः ।
क्त्वि स्कन्दस्यन्दोः ॥४४॥३०॥ क्त्वात्ये परतः स्कन्द स्यन्द इत्येतयो कारस्य खं न भवति । स्कन्ला । स्यन्त्वा । स्यन्देः “स्वरति" [५१६२ ] इत्यादिनाऽनिटपक्षे कित्वान्नखं प्राप्तम् । इट्पक्षे तु मृडादिनियमादेवाकिल्वे सति नखाभावः सिद्धः। क्त्वीति द्वितकारकनिर्देशः । तकारादौ क्त्वात्ये इति । तेन प्रस्कद्य प्रस्योत्पत्र "अनल्विधी"[१५६] इति स्थानिवद्भावप्रतिषेधान्नकारादित्वं नास्तीति खं भवत्येव ।
.. जनशोर्वा ॥४४॥३१॥ ज इति वर्णग्रहणम् । जान्तस्य गोनशेश्च वा नखं भवति क्त्यात्ये परतः । रक्त्या । रंकवा। भक्वा । भक्त्वा । नटा । नंवा । नशे "रधादेः" [५/१६३] इति विभाषितेटोऽनिट्पने "मस्जिनशोमलि" [५/१॥३६] इति नुम् । “हलुङः" [४।४।२३] इति नित्ये नखे प्राप्त विकल्पः । हल इति जातिग्रहणपते मस्जेरपि नित्यं नखे प्रासे मंक्त्या । अनवपक्षे द्वयोः स्फसंज्ञामाश्रित्य स्कादिसम्बन् ।
भजेौं ॥४॥४॥३२॥ भजेः औ परतो वा नखं भवति । श्रभाजि । अभजि पापं मुनिना । नम्खमप्राप्तमनेन पक्षे विधीयते ।
शास इत् ॥४॥४॥३३॥ गोरुङः कितीति वर्तते । शासेरुङ इदादेशो भवति किति परतः । कितिशिष्टा। शिष्टि: । शिष्टः । शिष्टवान् । शिष्यः | "स्तुशासिणवृहजुषः क्यप" [11] इति क्यप । डितिशिष्टः । शिष्यः । “शास्वसघसाम्' [५।४।४०] इति षत्वम् । अजादावङ्ये वेति नियमो भविष्यति । सामर्थ्यादयं हलादौ किति विधिः । हलीति यदि क्रियेत "वर्णाश्रये नास्ति त्याश्रयम्" [प०] इति क्वौ न स्यात् । मित्रं शास्तीति मित्रशीः । श्राय शास्तीति आर्यशीरिति । शासु अनुशिष्टावित्यस्येह ग्रहणम् । अन्यस्य दीत्वस्य विधेरसम्भवात्तेन पाङः शासु इच्छायामित्यस्येत्वं न भवति । श्राशास्यते। श्राशास्ते । “लिङाशिपि" [२।४।६५] इति निर्देशादन्यस्यापि क्वावित्वम् ।
अङि॥४॥४॥३४॥ अङि परतः शास उङ इद्भवति । अन्वशिषत् । अन्वशिषताम् । अन्वशिपन् । नियमाध्यमारम्भः । अजादावङ्येव किति नान्यस्मिन् । शशासुः। शासति । जनादित्वात्थसंज्ञा। “अस्थात्" [५/१४] इत्यदादेशः।
शा हो ॥४॥४॥३५॥ शासः शा इत्ययमादेशो भवति हौ परतः। उङमपेक्ष्य पूर्व शास इदिव्यवयव योगलक्षणा ता। सामर्थ्यात् स्थानलक्षणा संपद्यते। अनुशाधि । प्रशाधि । श्राहाविति यदि सूत्रं क्रियेत
For Private And Personal Use Only