SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ४ सू० २०-२७] महावृत्तिसहितम् ३१६ शूठोरयमपवादः । कितीति निवृत्तम् । यपि जोहोति । मोमोति। “न धुखेऽगे" [१1१1१८] इति गविषय एपप्रतिषेधो न भवति । इटीटः॥४४॥२०॥ इटि परत इट उत्तरस्य खं भवति । इडीटोमध्ये सामर्थ्यासेः खम् ।। अदेवीत् । अकोषीत् । अग्रहीदिल्यत्र "ग्रहोऽलिटि दीः” [५।१।८५] इति दीत्वे कृते इटः स्थानिवद्भावात्सेः खम् । असिद्धवदत्राभात् ॥४॥४॥२१॥ असिद्धवच्छास्त्रं भवति या भसंशब्दनात् । अत्र शास्त्रे कर्तव्य इत्यधिकारो वेदितव्यः । श्राङभिविधौ द्रष्टव्यः । एधि इत्यत्र नित्यत्वादस एत्वखभावयोः कृतयोभल्लक्षणं धित्वमप्राप्तमसिद्धत्वाद्भवति । जहीत्यत्र जादेशे कृते “श्रतो हेः” [४/४/६६] इत्युप् प्राप्नोति असिद्धत्वान्न भवति । गतमित्यत्र किति झलि रखे कृते अतः खं प्राप्तमसिद्ध त्वान्न भवति । एवं यथायोगमुत्सर्गलक्षणसमावेशः । श्रादेशलक्षणप्रतिषेधश्च वेदितव्यः । वत्करणं किम् ? स्वाश्रयमपि यथा स्यात् । देभतुः । देभुः । दम्भेरुपतख्यानेन लिट: कित्त्वे कृतेऽनु नखस्य सिद्धत्वात् “हलमध्ये लिख्यतः” [४।४।१०८] इत्येत्वं भवति । तथा चुगागने उवादेशो सिद्धः । बभूव । बभूवतुः । बभूवुः । युडागमः "एर्गिवाक्चादुङोऽसुधियः" [४७८] इति यणादेशे कर्तव्ये सिद्धः। उपदिदीये। उपदिदीयते । उपदिदीयिरे। अग्रहणं किम् ? अभाजि रागः । “उङोऽतः" [५।२।४] इत्यैपि कर्तव्ये नकारस्य खं नासिद्धम् । अाभादिति किम् ? रन्धिव । ररन्धिम । हल्मध्ये लिटयत इति एत्वे कर्तव्ये नुमशास्त्रं नासिद्धम। श्नान्नखम् ।।४।४।२२।। श्ना परस्य नकारस्य खं भवति । व्यनक्ति । हिनस्ति । सशकारस्य ब्रहणं किम् ? नन्दिता । नन्दकः । नैतदस्तिमगढ़का-लुत्या विद्ग्रहणानुवृत्तः। ङ्कितो नात्परस्य खमिष्टम् । इह तह मा भूत् । यज्ञानाम् । यत्नानाम् "नामि" [ ३] इति दीत्वात्परत्वेन नखमिदं स्यात् । “सुपि"पा।१७] इति तु दीत्वं सन्निपातपरिभाषया वार्यते । स्थानिवद्भावाद्वा नखं प्राप्नोति । प्रश्नानाम् , विश्नानाम् इत्यत्र लाक्षणिकत्वान्न भवति । श्नादिति श्नमो नष्टनकारस्थ ग्रहणम् । न इति सो नाशे अकारेणोच्चारणार्थेन निर्दशः । हलुङः वित्यनिदितः ॥४ाधा२३।। हल उङो नकारस्य खं भवत्यनिदितो गोः ङ्किति परतः। सस्तः । स्रस्यते । ध्वस्तः । ध्वस्यते । स्नाति । सनोस्रत्यते । भ्रश्नाति । बनीभ्रश्यते । हल इति जातिग्रहणमपि । मग्नः । मग्नवान् । हल इति किम् ? नीतम् । नेनीयते । उङ इति किम् ? नद्धम् । नानह्यते । कितीति किम् ? संसित्वा । मृडादिनियमादकित्त्वम् । अनिदित इति किम् ? शङ्कयते । मङ्कायते । तपर करणं किम् ? समिद्धम । हलुङ इति योगविभागः । तेन “लनिकाप्योः उपतापशरीरविकारयोनखम्'। विलगितः। विकपितः । विलङ्गितः । विकम्पितः इत्यन्यत्र । वंशसंजस्वजां शपि ॥४४॥२४॥ दंश सज स्वज इत्येतेषां शपि परत उडी नकारस्य खं भवति । दशति । सजति । परिष्वजते । रञ्जः ॥४ाधा२५॥ रञश्च शपि परत उडो नकारस्य खं भवति । रजति । रजतः । रजन्ति । योगविभाग उत्तरार्थः । णौ मृगरमणे ॥४ाधार६॥रजेणी परतो मृगरमणेऽथे नकारस्य खं भवति । रजयति मृगान् व्याधः । मृगान् रममाणान् दर्शयतीत्यर्थः । “जनीज़क्नसुरजोऽमन्ताश्च” इति मित्वादुङः प्रादेशः । मृगरमण इति किम् ? रञ्जयति बत्रम् । घत्रि भावकरणे ॥४॥२७॥ भावकरणाभिधायिनि घनि परतो रजे कारस्य खं भवति । अाश्चर्यो रागः । विचित्रो रागः । करणे रजति तेन रागः। भावकरण इति किम् ? रजत्यस्मिन्निति रङ्गः। करणेऽधिकरणे च "हलः" [२१३११०२इति घन । घिनुणि कथं नखम् । रागी । “दुहानुरुध" [१२।११८] For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy