SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ जैनेन्द्र-व्याकरणम् [ अ० ४ पा० ४ सू० १३ - १६ चास्तीदम् । “अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च " [१०] इति । अधोरित्यानन्तर्यादसन्तस्यैव प्रतिषेधः । तेनात्र दत्वम् । गोमन्तमिच्छति गोमत्यतेः किप् । गोमान् । अकावित्येव । हे गुणवन् । हे सुपयः । अस्य किलोः ङ्किति || ४|४|१३|| अन्तस्य गोरुङो दीर्भवति कौ झलादौ चकित परतः । प्रशान् । प्रतान् । प्रशान्भ्याम् । झलि किम् ? शान्तः । तान्तः । ङ्कितीति किम् ? शंशान्तः । ततान्तः । यडुपीदम् | ङस्येति किम् ? श्रोदनपक् । पक्तिः । किलोरिति किम् ? गम्यते । ङ्कितीति किम् ? यन्ता । यन्तुः | हनिङ्गम्यचां सनि ||४|४|१४|| हन्तेरिङ्गमेरजन्तानां च दीर्भवति सनि झलादौ परतः । जिघांसति । इङ्गमि-अधिजिगांसते । इङ् इति विशेषणं किम् ? संजिगंसते वत्सो मात्रा । अजन्तानां चिचीषति । सुखपति | चिकीर्षति । उङ इति निवृत्तम् । अचश्चेति हनिङ्गम्योर्योऽच् तस्य स्थाने दील्वे कृते द्वित्वम् । गोरित्येव । दधि सनोति । तो ||४|४|१५|| तनोतेः सनि झलादौ वा दीर्भवति । तितांसति । तितंसति । झलीत्येव । तितनिति । " सनीवन्त " [५।१।६७ ] श्रादिसूत्रे तनिपतिदरिद्राम् इविकल्पः । क्रमः क्त्व ||४:४९६ ॥ वेति वर्तते । क्रमो वा दीर्भवति झलादौ क्त्वात्ये परतः । क्रान्त्वा । कन्त्वा । श्रचश्चेत्यस्य गृह्यमाणेन विशेषणादचः स्थाने दीत्वम् । “ङस्य " [ ४|४|१३ ] इत्यादिना नित्यं प्राप्ते विकल्पः । लत्येव । क्रमित्वाऽकम्येत्यत्र “प्यादेशोऽन्तरङ्गस्यापि विधेर्बाधकः " [वा०] इति पूर्वे दीत्वस्याप्रवृत्तिः । श्रनत्विधाविति स्थानिवद्भावप्रतिषेधात्पश्चादपि झलादित्वं नास्ति । । लोः शृड्डेच ||४|४|१७|| वेति निवृत्तम् । छकारवकारयोः स्थाने शू ऊठ् इत्येतावादेशौ भवतोङसंज्ञके परतः क्वौ हलादौ च किति । प्रश्नः । विश्नः । " वाद् गायं बलीय:" [१०] इति छे तुकः परलान्नियत्वाद्वा शादेशः । अपि च विच्छे रेष्प्रतिषेधार्थं नङो ङित्करणं ज्ञापकं प्रागेव तुकश्छस्य पशावादेशाविति । " श् चान्तर्युगे” [२।२।६७] इति निपातनाजिर्न भवति वकारस्य । स्यो नः । सिवेरौगादिको नः । घेरुङ एपः पूर्वमूडादेशः । “असिद्धं बहिरङ्ग-मन्तरङ्गे” [१०] इत्यनित्यमेतत् । तेन यणादेशः । ऊठ् एप् । सिवेरौणादिके मकि स्यूमः । छस्य क्वौ वर्मप्राट् । गोविट् । वकारस्य छौ हिरण्यः । अक्षद्यूः । श्रद्युवौ । अक्षयुवः । छस्य भादौ पृष्टः । पृष्टवान् । पृष्ट्वा । पृष्टिः । वकारस्य द्यूतः । द्यूतवान् । कितीत्येव द्युभ्याम् । द्युभिः । त्रदिवित्यव्युत्पन्नं गृह्यते । ननुङ्कितिग्रहणं नानुव “दिव उत्” [४|३|१०८ ] इति ऊठ उदादेशे कृते सिद्धम् । एवं च "ब्रश्च" [५/३/५३] आदिसूत्रे छकारग्रहणं न कर्तव्यं स्यात् । न चावश्यमुत्तरार्थं द्ग्रिहणमनुवर्त्यम् । प्रपञ्चार्थस्तर्हि व्रश्चादौ छकारः । ब्रश्चादिसूत्रेण यत्र पत्वं नास्ति तत्र श्रवणार्थः शकारः । प्रश्नः । वांछेः क्विपि वान् । वांशौ । वांशः । गोविशौ । गोविशः । गोविशा । शकारसाहचर्यादूरस्यादेशः विद्वा | ज्वरज्वरस्त्रिव्यविमवां वोङोः ||४|४|१८|| ज्वर त्यर त्रिवि अवि मय इत्येतेषां धूनां वकारोङोः स्थाने ऊडत्ययमादेशो भवति ङे की फलादौ च परतः । जूः । जुरौ । जुरः । जूर्तिः । त्वरः- तूः । तुरौ । तुरः । तूर्तिः । तेन "न वा रुण्यमत्वर” [५|१|१२८] इत्यादिना अनिट्पक्षे तूर्णंः । तूर्णं वान् । अण्डं स्त्रीव्यतीति श्रण्डलूः । Arsaौ । ग्रण्डवः । स्रुत्वा । सूतः । सूतवान् । अवि-कः । उवौ । उवः । ऊतिः । मनि वर्तमाने वेष्टिखं चेति मनष्टिखे ङे परत ऊ च । श्रोम् । मव-भूः । मुवौ । मुवः । मूतिः । ङ्कितीति निवृत्तम् । तेन श्रोतुः । “सित निगमिमव्यविधाञ्कुसिभ्यस्तुः " [उ० सू०] इति तुः । ज्वरादीनामुङः वकारस्यानन्त्यस्य च ग्रहणम् । रः खम् ||४|४|१६|| रेफात्परयोः छोः खं भवति कौ फलादौ च परतः । हूर्छा - हूः । हुरौ । हुरः । हूर्तिः । हू वान् । मूर्छा-मूः । मुरौ । मुरः । मूर्तिः । “अष्टमूर्छिमदाम्” [५।३।५६ ] इति नत्वप्रतिषेधात् मूर्तः । मूर्तवान् । तुर्बी । तूः । तुरौ । तुरः । तूर्णंः । तूर्णंवान् । तूर्तिः । धुर्व । धूः । धुरौ । धुरः । घूर्णं । धूर्तिः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy