________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ४ सू० १-१२] महावृत्तिसहितम्
अन्यस्यापि ॥४॥२३२॥ अन्यस्यापिशब्दस्य द्यावयद्यावपि दीर्भवति । कस्यान्यस्य ? यस्य शिष्टर्दीत्वं प्रयुक्तम् । “शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्भवति" । श्वादन्तः। श्वादंष्ट्रः । श्वाकर्णः । श्वाकुन्दः । श्वावराहः । श्वापुच्छः। श्वापदम् । श्वावराहमिति द्वन्द्वोऽन्यत्र पसो बसो वा । एकश्च दश चैकादश । केशाकेशि । केशेषु केशेषु च गृहीत्वेदं युद्धं वृत्तम् । “तत्रेद मिति सरूपे" [१॥३८६] इति असः । "म इच्” [४।२।१२८] इति इच्सान्तः । तिष्ठद्यादिषु इजन्तत्य हसंज्ञा । अद्यावपि पूरूषः । सादनम् । नारकः । न भवत्यपि पुरुषः । सदनम् । नरक इति ।
चि ॥४।३।२३३॥ अण इति इक इति च निवृत्तम् । च् इति अञ्चतिर्नष्ट नकाराकारो गृह्यते । तस्मिन् परतः पूर्वपदस्य दीर्भवति । प्राचः पश्य | प्राचा। प्राचे । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे । कतृ चा । कर्तृचे । “अचश्व" [१1१।१२] इत्यचः स्थाने दीत्वम् । द धीच इत्यत्र यणादेशमन्तरङ्गमपि बाधित्वा "अचः" [४।४।१२५] इत्यकारस्य खं भवत्यस्मादेव वचनात् ।
जेः ॥४।३।२३४॥ जेीर्भवति द्यौ। कारीगन्धी पुत्रः । कारीपगन्धीपतिः। कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । करीवस्येव गन्धो यस्य करीषगन्धिः । तस्यापत्यं स्त्री। अागतस्याणः “प्योऽक्षु रूपान्त्ययोः" [३।१।६३] इति ध्यादेशः। टाप । “पे प्यस्य पुत्रपत्योर्जिः" [४।३।६] इति जिः । जौ कृते अत्राकृते एव जेर्दीतो ग्रामणिकुलमित्यत्र सावकाशः “इकः प्रोऽड्याः" ३१७२] इत्ययं प्रादेशः प्राप्तः। प्रादेशाभावपक्षे सावकाशमिदं च दीत्वं प्रातम । परत्वाहीत्वं भवति । सकृद्गतन्यायेन पुनः प्रसङ्गान्न प्रादेशः।
इत्यभयनन्दिविरचितायो महावृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः समाप्तः ।
गोः ॥४॥४१॥ हलः ॥४२॥ नाम्यतिसृचतसृ ॥४।४।३॥ नुवा ॥४।४।४॥ नोङः ॥४४॥५॥ धेऽकी ॥४॥४६॥ सन्तस्फमहतोः ॥४७॥ स्वसृनप्तनेष्ट त्वष्टक्षतहोतृपोतृप्रशास्तत्रपाम् ॥४४८। इन्हन्पूषार्यम्णाम् ॥४।४।९।।]
शौ ॥४॥४॥१०॥ शौ परत इन् हन् पूषन् अर्यमन् इत्येवमन्तानां दीर्भवति । बहुदण्डीनि । बहुस्रग्वीणि । बहुपूषाणि । वह्वर्यमाणि । द्वितीयोऽयं नियमः । शावेवेन्नादीनां दीर्भवति नान्यत्र । दण्डिनौ । दण्डिनः । वृत्रहणौ । पृषणौ । अर्यमणौ । तदन्तस्यापि न भवति । परमदण्डिनौ । बहुदण्डिनौ । बहुदण्डिनः ।
सौ ॥४|४|११॥ सौ परत इन्नादीनामुङो दीर्भवति । दम्भी। वाग्मी । तपस्वी । वृत्रहा । पूषा । अर्यमा । पूर्वेण नियमेनाप्राप्तविध्यर्थमिदम् । अकावित्येव । हे दण्डिन् । हे पूषन् । हे अर्यमन् ।
अत्वसोऽधोः॥४॥४॥१२॥ साविति वर्तते । अत्यन्तस्य असन्तस्य च किवजिते सौ परतः उडः दीर्भवत्यधोः । गोमान् । धनवान् । भुक्तवान् । तत्परिमाणमस्य तावान् । अतोरर्थवतोऽनर्थकस्य च ग्रहणम् । अन्यथा भवग्रहणं कुर्यात् । असा साहचर्याद्वा। अतो रुङो दीत्ववचनसामर्थ्यादीत्वे कृते नुम् । अस्सुपयाः । सुस्रोताः । पिबतेरि चेति खुवस्तुडिति स्रोस्तुट् । अघोरिति किम् ? इधुमस्यति इष्वः । दृघदमस्यति दृषदः । यद्येवमधोरिति किमर्थम् ? अतस् इत्येवं वक्तव्यम् ? न । अन्येषां प्रतिषेधार्थम् । पिण्डग्रः । चर्मणः । ज्ञापनार्थ
]कोष्ठकान्तर्गतानां सूत्राणां वृत्तिस्त्रुटिता। सूत्राणि तु जैनेन्द्रपञ्चाध्यायीमनसृत्यात्र
१. प्रतिषु[ निर्दिष्टानि ।
For Private And Personal Use Only