________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० २२२-२३१ मतो बह्वच्छरादेरनजिरादेः ॥४।३।२२२॥ मतौ परतः बह्वचः शरादीनां च दोर्भवति अजिरादीन् वजयित्वा खौ। उदुम्बरावती। मशकावती । वीरणावती । पुष्करावती । उदुम्बरा अस्मिन् देशे सन्ति 'तदस्मिन्नस्तीति देशः खो" [२१५७] इत्यणि प्राप्त “नद्यां मतुः" [३।६५] इति मतुः। शरादीनां शरावती । वंशावती । शर |] वंश । धूम । अहि । कपि । मणि । मुनि । शुचि । इति शरादिः । बच्छरादेरिति किम् ? इलुवती । मधुवती । “खौ" [५।३।३२] इति मतोर्वत्वम् । अनजिरादेरिति किम् ? अजिरवती । खदिरवती । अलिनवती । चक्रवाकवती । कारण्डवती । खाविति किम् ? बलयवती ।
इको चहेऽपीलोः ॥४॥३२२३॥ इगन्तस्य पीलुवर्जितस्य वहे द्यौ दीर्भवति । खाविति वर्तते । ऋषीवरम् । मुनीवहम् । पचाद्यजन्तेन वहशब्देन तसः। इक इति किम् ? पिएडवहम् । अपीलोरिति किम् ? पीलुवहम् । "अपील्वादेरिति वक्तव्यम्” [वा०] । दारुवहम् ।
गेः कासे ॥४॥३२२४॥ इक इति वर्तते । इगन्तस्य गेः कासे धो दीर्भवति । नाकासम् । वीकासम् । अनूकासम् । पचाद्यजन्तस्य कासस्येदं ग्रहणम् । इक इत्येव । प्रकाशते इति प्रकाशः।।
दस्ति ॥४।३।२२५॥ दा इत्येतस्य यस्तकार आदेशस्तदादौ परत इगन्तस्य गेीर्भवति । नीत्तम् । वीत्तम् । परीत्तम् । “गेस्तोऽचः" [५।२।१४६] इत्याकारस्य तकारः । दकारचर्वस्यात एव दीत्ववचनात्सिदुत्वम् । “गेस्तोऽचः' इत्यत्र द्वितकारको वा निर्देशः इति सर्यादेशः । द इति किम् ? वितीर्णम् । तीति किम् ? निदत्तमिति वेष्यते । इक इत्येव । प्रत्तम् । आत्तम् ।
घञ्यमनुष्ये प्रायः ॥४।३।२२६॥ इक इति निवृत्तम् । घनन्ते द्यौ गेः प्रायो दीर्भवति अमनुष्येऽभिधेये । अपामार्गः । नीमार्गः । नीक्लेदः । प्रावारः । “आच्छादने वृजः" [२।३।५०] इति घज । नोवारः । “नौ वुर्धान्ये”[२॥३॥४४] इति घञ । प्राकारः कर्मणि । अधिकरणे प्रासादः । अमनुष्य इति किम् ? निपीदन्त्यस्मिनिति निषादः । “हलः" [२।३।१०२] इत्यधिकरणे घन । “सदोऽप्रतेः" [५।४।४७] इति पत्वम् । प्राय इति किम् ? प्रसदनं प्रसादः । निवेशः। प्रकासः । प्रकरणं प्रकारः । वेशादिषभयम् । प्रतिवेशः । प्रतीवेशः । प्रतिबोधः । प्रतीबोधः। गेरित्येव । चन्दनसारः ।
खावष्टनः ॥४॥३।२२७॥ खुविषयेऽष्टन्नित्येतस्य दीर्भवति यौ। अष्टापदः । अष्टावक्रः । अष्टावन्धनः। अाविटपः । खाविति किम् ? अष्टमहाप्रातिहार्यो जिनः। अष्टगुणः सिद्धः। “अष्टनः कपाले हविषि वक्तव्यम्" [वा०] । अष्टसु कपालेषु संस्कृतमष्टाकपालं हविः । संस्कृतार्थे अागतस्याण: "रस्योबनपत्ये" [३।१।७४] इत्युप् । “गवे च युक्ते" [वा०] । अष्टाभिगोभिर्युक्तम् अष्टागवं शकटम् । युक्तशब्दस्याप्रयोगः । यथा भीमसेनशब्दे सेनशब्दस्य ।
चितेः कपि ॥४॥३॥२२८॥ चितेर्दीभवति कपि परतः । एका चितिरस्य एकचितीकः । द्विचितीकः । त्रिचितीकः ।
विश्वस्य वसुराटोः ॥४।३।२२६॥ विश्वस्य दीर्भवति वसु राडित्येतयोः परतः । विश्वतो वस्वस्य विश्वावसुः । विश्वस्मिन् राजत इति विश्वाराट् । “सत्सूद्विष" [२॥२॥५६] श्रादिसूत्रेण क्वि । राडिति विकृतनिर्देशो यत्रात्यैतद्रूपं तत्र यथा स्यादिह मा भूत् । विश्वराजौ । विश्वराजः ।
नरे खौ ॥४।३।२३०॥ नरे द्यौ विश्वस्य दीर्भवति खुविषये विश्वा नरो यस्य विश्वानरः । वसेन यसेन वा व्युत्पत्तिः । खाविति किम् ? विश्वे नरा अस्य विश्वनरो राजा ।
ऋषी मित्रे ॥४॥३।२३१॥ ऋषावभिधेये मित्रे धौ विश्वस्य दीर्भवति । विश्वामित्रो नाम ऋषिः । ऋपाविति किम् ? विश्वमित्रः सुजनः ।
For Private And Personal Use Only