________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० २१६-२२१] महावृत्तिसहितम्
३१५ भवार्थे अागतस्य कालाट टअः "रस्योबनपत्ये" [३।११७४] इत्युपि डौ कृते "वा डिश्योः [४।४।१२४] इति वाऽनोऽखम् । द्वयह्नि । द्वयहनि । द्वन्यह्ने । यावत्सु अहस्सु भवो यावदहः । “वतोर्वेट" [३।४।२०] इत्यत्र वत्यन्तस्य संख्यासंज्ञोक्ता। डौ यावदह्नि। यावदहनि ! यावदहे । विगतमहय॑ह्नः । “तिकुप्रादयः” [१३३८१] इति पसः । ङौ व्यह्नि । व्यहनि । व्यहे । सायमहः । सायाह्नः । विशेषणसविधिः। सायंशब्दस्य झिसंज्ञकस्यात एक निपातनान्मकारस्य खम् । अकारान्तस्य सम्भवेऽहनादेशो निपात्यः । सायाह्नि। सायाहनि । सायाः। संख्याविसायादेरिति किम् ? पूर्वाह्न गतः । पूर्वमहः पूर्वाह्नः। विशेषणसविधिः । “अतोऽह्नः" [५॥॥६१] इति णत्वम् ।
दखे पूर्वस्याणो दीः ॥३२१६॥ ढकाररेफयोः खं यस्मिन् वर्णे स दूखस्तस्मिन् पूर्वस्याणो दीर्भवति । पसेऽप्यदोषः । खस्याभावरूपत्वेऽपि पौर्वापर्य बुद्धिकृतम् । यथा वर्णयोरयोगपद्येऽपि अचीको यणित्येवमादौ । लीढमुपगूढं मूढेन । अग्नी रथम् । वायू रथम् । पुना रक्त वासः । दुख इतीनिर्देशात् पूर्वस्येति लब्धे पूर्वग्रहणं किम् ? पूर्वमात्रत्य यथा द्यावेव स्यात् । अन्यथा द्यावेव स्यात् । नीरक्तम् । दूरक्तम् । इह न स्याद् अजर्घाः इति । जर्ग धः लडः सिप एप् । भभावः । धकारस्य जश्त्वम् । “सिपि रिर्वा" [५।३।८१] “दः" [५।३।८२] इति रिः । अण इति किम् ? तृहू तृढः । वृहू वृढः ।
सहिषहोऽस्यौः ॥४॥३।२१७॥ सहिवहोरवर्णस्य अोकारादेशो भवति दूखे । सोटा। सोढुम् । सोढव्यम। वोढा। वोढम् । वोढव्यम् । अस्येत्यग्रहणादैपि कृतेऽपि भवति । उदवोढाम् उदवोद । उत्पूर्वाद्वहेर्लुङ । तसस्ताम् । थसस्तम् । थत्य तः । “झलो झलि" [५।३।४४] इति सेः खम् । ढत्वादेरसिद्धत्वाद् “व्रजवद" [५।११७६] इत्यादिना प्रागैप । अस्येति किम् ? ऊढवान् ।
कणे लनणस्याविष्टाष्टपञ्चभिन्नछिन्नछिद्रवस्वस्तिकस्य ॥४३२१८॥ कर्ण धौ लक्षणवाचिनो दीर्भवति विष्टादीन् वर्जयित्वा । दात्रमिव दात्राकर्णः । शंकूकर्णः । द्विगुणाकर्णः । द्वबहुलाकर्णः। द्वयोरगुल्योः समाहारो द्वघडलम् । “पेऽङ्गुलेर्भिसंख्यादेः" [४।२।८८] इति सान्तः । लक्षणस्येति किम् ? शोभनकर्णः। शोभनत्वं तत्त्वाख्यानं न तु लक्षणम् । अतएव तत्त्वाख्यानादिहापि न भवति । लम्बकर्णः। अविद्धकर्णः । अथवा लक्षणशब्देन चिह्नविशेषोऽभिप्रेतः स्वामिविशेषसंबन्धज्ञापनार्थम् । पशूनां यात्राकारादि चिहनं लक्षणम् । तदभावाल्लम्बकर्णादिषु न भवति । अविष्टादेरिति किम् ? विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स वकर्णः। स्वस्तिककर्णः।
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥४॥३।२१६॥ नहि वृति वृधि व्यधि रुचि सहि तनि इत्येतेषु किबन्तेषु परतः पूर्वपदस्य दीर्भवति । नहि-उपानत् । परीणत् । वृत्-नीवृत् । उपावृत् । वृषि-प्रावृट् । व्यधि-मर्मवित् । हृदयावित् । श्वावित् । रुचि-यतीरुक् । अभीरुक । कथं मलरुक् । श्वेतरुक ? सम्पदादिक्विपि न भवतीत्यदोषः। अथवा तिकारकदीत्वमिष्यते । सहि-जलासट । तुरासट् । तनि-परीतत् । “गमः क्वौ १४१४१] इत्यत्र “गमादीनां उखमिप्यते" [वा०] । क्वाविति किम ? उपननम् ।
गिरिवने किंशुलुककोटराद्योः खौ ॥४।३२२०॥ गिरि वन इत्येतयोः परतो यथासंख्यं किंशुलुकादीनां कोटरादीनां च दीर्भवति खौ । गिरौ-किंशुलुकागिरिः । अञ्जनागिरिः। नलागिरिः । वने-कोटरावणम् । मिश्रकावणम् । सिध्रकावणम् । किंशुलुककोटराद्योरिति किम् ? कृष्णगिरिः । भद्रसालवनम् । नन्दनवनम् ।
वले ॥४॥३२२१॥ वले त्ये परतः पूर्वस्य दीर्भवति । श्रासुतीवलम् । दन्तावलः । मत्वर्थ "रजःकृप्यासुतिपरिषदो बलः" [॥१॥३८] "दन्तशिखात् खौ” [४॥१॥३६] इति च वलः ।
For Private And Personal Use Only