________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
जैनेन्द्र-व्याकरणम् [अ०४ पा० ३ २०२०८-२१५ रथवदयोः ॥४।३।२०८॥ रथ वद इत्येतयोः परतः कोः कद् भवति पसे। कुत्सितो रथः कद्रथः । कुत्सितो वदः कद्वदः।
तृणे जातौ ॥४।३।२०६॥ तृणे द्यौ कोः कद्भवति समुदायेन जातावभिधेयायाम् । कत्तृ णा नाम जातिः । तस्या अवयवः कत्तृणम् । जाताविति किम् ? कुत्सितानि तृणानि कुत्तृणा न ।
का पथ्यक्षयोः ॥४॥३१२१०॥ कोः का इत्ययमादेशो भवति पथिन् अक्ष इत्येतयोः परतः । कुत्सितः पन्थाः कापथः। कुत्सितमक्षं काक्षम । अक्षशब्दस्य अकारान्तस्य कृतसान्तस्य चाविशेषेण ग्रहणम् । पस इति निवृत्तम् । कुलितेऽक्षिणी अस्य काक्षः । “स्वाङ्गादक्षिसक्नः" [४२११३] इति टः सान्तः । पथशब्दोऽकारान्तोऽप्यरित । तस्य कुपथमिति पे भवति ।
ईपदर्थे ॥४।३।२११॥ ईपदर्थे कोः का भवति । ईपत्कटुकं काकटुकम । कामधुरम् । कालवणम् । “तिकुप्रादयः" [३॥३॥८१] इति सः । “ककोः षेऽचि" [४।३।२०७] इति तत्रोपलक्षणमात्रम् । अजादावपि परत्वात्कादेश एव | काम्लम् ।
पुरुषे या ॥४।३।२१२॥ पुरुषशब्दे यी कोः का इत्ययमादेशो भवति वा। कुत्सितः पुरुषः कापुरुषः । कुपुरुषः । अपाते विकल्पोऽयम् । ईषदर्थ पूर्वनिर्णयेन नित्यं कादेशः ।
कवमुष्णे ॥४।३।२१३॥ कोः स्थाने कवरूपं भवति उष्णे परतः का च वा । कवशब्दो नपुंसकलिङ्गो निर्दिष्टः । कबोष्णम् । कोष्णम् । अाभ्यां मुक्ते कत्कोः पेऽचि" [४।३।२०७] इति कद्भावे कदुष्णम् । अनीषदथै कदुष्णमेव ।
पृषोदरादीनि यथोपदिष्टम् ॥३।३।२१४॥ पृषोदरप्रकाराणि शब्दरूपाणि यथोपदिष्टं साधुनि भवन्ति । यथा तेषु वर्णनाशागमवणविकाराः विशिष्टैः प्रयुक्ता दृश्यन्ते तथैव तेषां साधुत्वमित्यर्थः । उपदिष्टानतिक्रमेण यथोपदिष्टम् । ये ये उपदिष्टाः इति वी-सायां वा हसः । पृपदुदरमस्य पृषोदरः । प्रपोदरा कन्या । पृषत उद्रानं पृषोदानम् । तकारस्य खं निपात्यम् । अश्वत्थः। कपित्थः । महित्थः । दधित्थः । अश्व इव तिष्ठति कपिरिव तिष्ठति मह्यां तिष्ठति धीव तिष्ठति । “सुपि" [२।२।७] इति स्थः कः । सकारत्य तत्वं निपात्यम् । महीशब्दस्य "स्वे ड्यापोः क्वचित्खी च" [४१३।१७३] इति प्रादेशः । वारिवाहको बलाहकः । बारि शब्दस्य शब्दः परत्य चादेलत्वं निपात्यम् । जोवनस्य मूनं जीमूतम् । वनशब्दस्य खम् । मह्यां रौतीति मयूरः । रौतेरचि टिखं महीशब्दस्य च मयूभावः । शवस्य शयनं श्मशानम् । शवशब्दस्य श्मादेशः शयनस्य च शानम् । अवन्तोऽस्यां सीदन्तीति वृसी। व्र वच्छन्दत्य वृभावः सदेल डन्तस्य च सीभावः । “षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च" "धाशब्दे तु वा षष उत्वम्"। षड् दन्ता अस्य पोडन् । "वयसि दन्तस्य दत" इति दत्रादेशः । षट् च दश चेति षोडश । भिः प्रकारैः पोटा । पड्यावा । इह पड् दधातीति स्त्री। ग्रातः के कृते टापि च पड्धा । लाक्षणिकत्वात्वाभावः “दिकछन्देभ्यस्तीरस्य तारभाव:"। दक्षिणस्य तीरम्, दक्षिणतारम् । उत्तरतारम् । “वाचो वादे डत्वं वलभावश्चोत्तरपदत्येति निपात्यते" । वाग्वादस्यापत्यं वावलिः । एवमन्येऽप्यूह्याः शब्दाः। पिशिताशः । पिशाचः । मुहः स्वनं लातीति मुसलः । ऊर्ध्वकर्ण उलकः । मेहनस्य खत्य माला मेखला । कौ जीयति कुञ्जरः । ऊर्ध्वं खमस्य उलू खलः ।
( "वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशी ।।
धूनां तदर्थोऽतिशयेन योगास्तदुच्यते वर्णविधौ निरुक्तम् ॥") संख्याविसायादेरहनस्याहन्वा डी ॥४॥३२१५॥ संख्या वि साय इत्येवमादरह नशब्दस्य अदन्नित्ययमादेशो वा भवति डौ परतः । द्वयोरहनोभवो व्यहनः । “हृदर्थ" [१३४६] इति पसः । “संख्यादी रश्च" [१॥३॥४७] इति रसंज्ञा । सान्तटः। “एभ्योऽहोऽहः" [४।२।६०] इत्यत्र झिसंख्यादेरित्यनुवर्तनादह्लादेशः ।
For Private And Personal Use Only