________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ३ सू० १६८ - २०७]
महावृत्तिसहितम्
३१३
विष्वग्देवयोश्च टेरद्र्यञ्ची को || ४|३|१६८ ॥ विष्वग देव इत्येतयोः सर्वनाम्नश्च टेरद्रिरादेशो भवत्यञ्चतौ क्व्यन्ते परतः । विणुवतीति विदुः । विषुमञ्चतीति ऋत्विगादिसूत्रेण द्यौ कृते विष्वक् । विष्वञ्चमञ्च कावागतनिवृत्ते नखम् । वाक्ते सुः । “उगिचाम्" [ ५।४।४६ ] इति नुम् । हल्ङयादिखे । स्कान्तले । “क्वित्यस्य कु: "[ ५३७५ ] इति नकारस्य ङकारः । विश्वद्रयङ् । यद्रथङ । तद्रथङ् । कद्रयङ् । विष्वग्देवयोश्चेति किम् ? वृक्षमञ्चतीति वृक्षाङ् । ञ्चाविति किम् ? विष्वग्युक् । देवयुक् । क्वाविति किम् ? विष्वगञ्चनम् । देवाञ्चनम् । ननु कावेवाञ्चतिः केवलो धुर्भवति तत्किं विग्रहणेन । इदं विग्रहं ज्ञापकम् — “अन्यत्र धुग्रहणे ध्वादेः समुदायस्य ग्रहणम्" [प०] इति । तेन कृकम्यादिसूत्रे यत्कृतमयस्कार इत्यादी सत्वं सिद्धन । अन्यथे हैव स्यात् । यस्कृदिति ।
समः समि || ४ | ३ | १६६ ॥ समः समीत्ययमादेशो भवत्यञ्चतौ क्व्यन्ते परतः । सम्यङ् । सम्यञ्चौ सम्यञ्चः । इका सिद्धे समिरिति वचनम् "श्रनित्यमागमशासनम् " [प०] इति ज्ञापयति । तेनं वान्त इत्यादि सिद्धम् । तिरसस्तिर्यखे || ४|३|२००॥ तितस्तिरिरित्ययमादेशो भवत्यञ्चतौक्व्यन्ते परतो यत्राञ्चतेरकारस्य खंन भवति । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यग्भ्याम्। तिर्यग्भिः । ख इति किम् ? तिरश्चः । तिरश्चा | अच इत्यकारस्य खम् । न विद्यते श्रञ्चतेर्विशेषविदितमकारत्य खं यस्मिन् । हलुङो नलं तु सर्वसाधारणं न तस्येह पर्युदासः । न त्वस्य खमिति तस्मिन् तिरिभावः " तिरश्च्यपवर्गे” [२|४|४५ ] इति निर्देशात् । ननु च ' "तिवाकारकाणां कृद्भिः सविधिः" [१०] इति कुदन्ते नैवाञ्चतिना वृत्तौ कृतायां सुबन्तत्वाभावात्कथमञ्चतेर्युसंज्ञा । नैष दोषः । भ्रविलिप्तीत्येवमादौ विषये तित्राकारकाणामित्यस्य व्यापारो न सर्वत्र ।
सहस्य सभिः || ४|३|२०१९ || सदस्य सधिरादेशो भवत्यञ्च क्व्यन्ते परतः । सयङ् । सत्रयञ्चौ । सभ् यञ्चः । सध्रीचः । सध्रीचा । " श्रचः " [ ४|४|१२५ ] इत्यखम् । “चौ” इति दीत्वम् ।
नगेरीपः || ४ | ३ | २०२ ॥ द्विरान्दानवान्ताच्च गेः परस्य अपशब्दस्य ईकारादेशो भवति । द्विगता आपो यस्मिन्निति द्वीपः । प्राक् "परस्यादेः " ईकारः पश्चात् "ऋक्पूरब्धूः" इत्यः सान्तः । “अन्तःशब्दस्य अ (सा)ङ्किविधिण वेषु गिसंज्ञोक्ता" [वा०] अन्तर्गता श्रापोऽस्मिन्नन्तरीपः । समीपम् । वीपम् । इह क्रियायोगाभावाद्विसंज्ञोपलक्षितानां प्रादीनां ग्रहणम् । अनगेरिति किम् ? प्रापम् । परापम् । समापम् । sat ||४|३|२०३ || देशाभिधानेऽनोः परस्यापः उकारादेशो भवति । अनुगता आपोऽस्मिन्नित्यनूपो देशः । देश इति किम् ? अन्वी वनम् । कथं कूपः सूपः अनूप इति ? प्रपोदरादिपाठात् ।
छकारकेऽन्यस्य टुक ||४|३|२०४ || छे कारके च परतोऽन्यस्य दुगागमो भवति । श्रन्यस्येदम् अन्यस्मिन् भवं वा ग्रन्यदीयम् । गहादिपाठाच्छः । अन्यस्य कारकम् अन्यत्कारकम् । अन्यः कारकः अन्यत्कारकः । श्रताभास्थस्याशीराशास्थास्थितोत्सुकोतिरागे ॥४|३|२०५॥ प्रतास्थस्यामास्थस्य चान्यस्य
दुगागमो भवति श्राशिष् आशा आस्था ग्रास्थित उत्सुक ऊति राग इत्येतेषु परतः । ग्रन्या ग्राशीः श्रन्यदाशीः अन्या आशा अन्यदाशा | अन्या ग्रास्था अन्यास्था | अन्य स्थितः अन्यदास्थितः । श्रन्य उत्सुकः श्रन्यदुत्सुकः । अन्या ऊतिः श्रन्यदूतिः । श्रन्यो रागः अन्यद्वागः । “विशेषणं विशेष्येणेति" [ १।३।५२ ] यसः । श्रताभास्थ - स्येति किम् ? अन्यत्याशा अन्याशा । अन्येनास्थितः अन्यास्थितः ।
वार्थे द्यौ || ४|३|२०६ ॥ अन्यस्य वा दुग् भवति । अन्योऽर्थः अन्यस्मै अर्थः अन्यदर्थः । श्रताभास्थ स्येत्येव । श्रन्यस्यार्थोऽन्यार्थः । अन्येनार्थोऽन्यार्थः ।
कस्कोः पेऽचि || ४|३|२०७ ॥ कोः कद्भवति पसंज्ञके सेऽजादौ यौ । कुत्सितोऽजः । “तिकुप्रादयः " [१/३/८१ ] इति पसः । कदजः । कदवः । कदन्नम् । प इति किम् १ क्त्रिभो राजा । अचीति किम् ? कुब्राह्मणः । कुषलः | कल्कोरिति योगविभागात्त्रशब्देऽपि भविष्यति । कुत्सितास्त्रयः कत्त्रयः । " किमो वा त्रौकद्वयः " [वा०] के त्रयः कवयः ।
४०
For Private And Personal Use Only