________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१२
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० ३ सू० १६० - १६७
वा नीचः || ४|३|१६०॥ नीचोऽवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति द्यौ । सशिष्यः सहशिष्य श्राचार्यः । सपुत्रः सहपुत्रः पिता । नीच इति किम् ? सहयुध्वा । सहकृत्वा । नात्र समुदायस्य नीचोऽवयवः सहशब्दः । नोच इति समुदायस्य विशेषणं सहशब्दस्य सर्वत्र विधौ व्यक्त्वात् । इह सहयुद्धप्रियः । प्रियसति च सदस्य सः कस्मान्न भवति । यदत्र द्यु तदपेक्षया न सहशब्दो नीचोऽवयव इति न भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
ना शिष्य गोवत्सहले ||४|३|१६६ ॥ श्राशिषि सदस्य सादेशो न भवति गोवा सहल वर्जिते द्यौ । स्वस्ति सहशिष्याय गुरवे । स्वस्ति राजे सहपुत्राय । गोवत्सहल इति किम् ? स्वस्त्यस्तु सगवे सहगवे । सवत्साय सहवत्साय | सहलाय सहहलाय ।
समानस्य स ज्योतिर्जनपद रात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ||३|१६|| समानस्य स इत्ययमादेशो भवति ज्योतिष, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्' वचन, बन्धु इत्येतेषु परतः । समानं ज्योतिरस्य सज्योतिः । यदि वा समानं च तज्ज्योतिश्च सज्योतिः । "पूर्वापरप्रथम " [१|३|५३ ] इत्यादिना यसः । सजनपदः । सरात्रिः । सनाभिः । सनामः । सगोत्रः । सरूपः । सस्थानः | [सवर्णः । सवयाः ।] सवचनः । सबन्धुः | असेऽभिधेयवल्लिङ्गम् । यसे च परवल्लिङ्गम् । समानस्येति योगविभागादन्येष्वपि सादेशः । तेन सुधर्मा | सुपक्षः । सगन्धः । सदेशः । समानजातीयः । “जातेश्को बन्धुनि " [४/२/१८ ] इति स्वार्थे छः । समाने तीर्थं भवः सतीयः । दिगादित्वाय इत्येवमादि सिद्धम् ।
|
सत्रह्मचारी ||४|३|१९३॥ सब्रह्मचारीति निपात्यते चरणे गम्यमाने । समानो ब्रह्मचारी समाने ब्रह्मणि व्रतं चरति वा सत्रह्मचारी । समाने ग्रागमे व्रतचारीत्यर्थः ।
घोदयें ||४|३|१६४ ॥ उदर्यशब्दे द्यौ समानस्य वा स इत्ययमादेशो भवति । समानोदरे शयितः सोदर्यः । समानोदर्यः । “समानोदरे शयितः " [३३२०८] इति यः । कथं युधिष्ठिरसोदरो वृकोदर इति । समानस्येति योगविभागात् ।
evere वतौ ||४|३|१६५ ॥ दृश दृक् दृक्ष वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । समानो दृश्यते सदृशः । बहुलवचनात्कर्मणिगादिः । श्रन्यथा वा व्युत्पत्तिमात्रं कार्यम् । समानमात्मानं पश्यति सदृशः । सदृक् । सदृक्षः । “त्यदादौ दृशोऽनालोके टक् च" [२२२२५८] इत्यत्र “समानान्ययोश्च" [वा०] इति वचनाश्चि भवति । सोऽप्यस्मादेव निर्देशात् तत्र स्मर्तव्यः । वतुः समानशब्दात्परो न सम्भवतीति चतुग्रहणमुत्तरार्थम् ।
किमिदमोः कीश् ||४|३|१६६ ॥ किम् इदम् इत्येतयोः की ईश इत्येतावादेशौ भवतः दृशादिषु परतः । क इव दृश्यते कमिव पश्यति वा कीदृशः । कीदृक् । कीदृक्षः । किम्परिमाणमस्य कियानू । “किमः” [३।४।१६२ ] इति वतुर्वकारस्य च वः । श्रयमिव दृश्यते इममिव पश्यति वा ईदृशः । ई । ईदृक्षः । इदम्परिमाणमस्य इवान् । " इदमो वो घः " [३।४।१६१] इति वतुर्वकारस्य च वः । " या सर्वनाम्नः” [४/३/१६७ ] इत्यात्वत्यापवादोऽयम् ।
सर्वनाम्नः || ४ | ३ | १६७ || सर्वनाम्न आकारादेशो भवति दृशगृहक्षवतुषु परतः । स इव दृश्यते तमिव पश्यति वा तादृशः । तादृक् । तादृक्षः । तत्परिमाणमस्य तावान् । " यत्तदेतेभ्यः परिमाणे वतुः” [३|४| १६०] इति वतुः । यादृक्षः । यादृशः । यावान् । श्रन्यादृशः । अन्यादृक् । श्रन्यादृक्षः । श्रा इति द्विमात्रोच्चारणम् “एप्यतोऽपदे" [४३८४ ] इति पररूपनिवृत्त्यर्थम् । ग्रकारोच्चारणं तु हल्निवृत्त्यर्थं स्यात् । अन्यशब्दे च दोषः प्रसज्येत । त्यदादेरिति सिद्ध सर्वनाम्न इति ग्रहणम् श्रन्यशब्दसंग्रहार्थमुत्तरार्थं च ।
For Private And Personal Use Only