________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०६
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० ३ सू० १५०-१५४
डखोः || ४|३|१५०॥ डडिति प्रत्याहारेण डडन्ता खुश्च स्त्री न पुंवद्भवति । पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीतमः । पञ्चमीपाशः । पञ्चमीयते । पञ्चमीमानिनी । खौ - दत्ताभार्यः । दानक्रिया व्युत्पत्तिद्वारेण संज्ञाशब्देऽप्युक्तपुंस्कत्वमस्ति । दत्तो माणवकः इति पुंवद्भावः प्राप्तः । एवं गुनाभार्यः । दत्तातः । गुप्तातः । दत्तिकामानिनी । दत्तिकायते ।
Acharya Shri Kailassagarsuri Gyanmandir
रक्तविकारे ४ | ३ | १५१ ॥ रक्तविकारवर्जितेऽर्थे यो हृत् ञ्णित् तदन्तस्त्री न पुंवद्भवति । जित्सभार्यः । त्-िसौनीभार्यः । माथुरीभार्यः । अर्धखाय भवा अर्धखारी । “परिमाणस्थानतोऽर्थाद्वा पूर्वस्य" [५।२।३२] नैप् । अर्धखारी भायी अस्य अर्धख भार्यः । वैयाकरणी भार्या अस्य वैयाकरणीभार्यः । सौनीतः । सौन्नीपाशा । सौन्नीयते । सौष्नीमानिनी । ञ्णिदिति किम् ? तावतीभार्या अस्य तावद्भार्यः । मध्ये भवा मध्यमा भर्या अस्य मध्यममार्यः । त्रिष्टष्टानिभार्यः । त्रिष्टस्यापत्यं स्त्री "फिरदो: " [ ३|१|१४७ ] इति फि: । “ इतो मनुष्यजातेः” [३।१।५५] इति ङी पुंवद्भावः । हृदिति किम् ? पुष्पलावी भार्या ग्रस्य पुष्पलावभार्यः । रक्तविकार इति किम् ? कषायेण रक्ता काषायी बृहतिकाऽस्य काषायवृत्तिकः । लोहस्य विकासे लौही ईमा अस्य लौहे रथः ।
श्रमानिनीत्स्वाङ्गात् ||४|३|१५२|| स्वाङ्गात्परो य ईत् तदन्ता स्त्री न पुंवद्भद्वैति मानिनि द्यौ । दीर्घकेशीभार्यः । श्लक्ष्णमुखीभार्यः । दीर्घकेशीतः । दीर्घकेशीपाशा । दीर्घकेशीयते । श्रमानिनीति किम् ? श्लक्ष्णमुखमानिनी। ईदिति किम् ? पृथुजघनभार्यः । अकेशभार्यः । “न क्रोडादिवह्नचः” [३|१|४६] “सहनञ् विद्यमानात् " [ ३|१|५० ] इति च ङीप्रतिषेधः । त्वाङ्गादिति किम् ? पटुभार्यः ।
जातिश्च ||४३|१९५३|| जातिच स्त्री न पुंवद्भवति श्रमानिनि द्यौ । कवीभार्यः । बहुचीभार्यः । कटीतः । कठीपाशा | कठीयते । " वृद्धं च चरणैः सः" इति वचनाज्जातिः । श्रमानिनीत्येव । कटमानी । कठमानिनी । चशब्दः किमर्थः ? "भस्य हत्यढे" [वा०] इति प्राप्तस्य पुंवद्भावस्य प्रतिषेधो न भवतीत्यनुक्तसमुच्चयार्थः । तेन हस्तिनीनां समूहो हास्तिकम् |
पुंवद्यजातीयदेशये || ४ | ३ | १५४ ॥ उक्तपुंस्कादनूः स्त्री पुकद्भवति यसंज्ञके से स्त्रीलिङ्गे द्यौ जातीय देशीय इत्येतयोश्च परतः । यसे श्रायसूत्रेण पुंवद्भावः सिद्धः । जातीयदेशीययोश्च तसादौ पाठात् । तस्माप्रतिषेधनिवृत्त्यर्थं प्रारम्भः । " न वुहत्कोङः " [४।३।१४६ ] इत्युक्तं तत्रापि पुंवद्भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । "डबो: " [ ४ | ३ | १५० ] इत्युक्तं तत्रापि भवति । पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । दत्तवृन्दारिका । दत्तदेशीया । "ठिणद्ध दरक्तविकारे” [४|३|१५१] इत्युक्तं तत्रापि भवति श्रौत्सवृन्दारिका । श्रौत्सजातीया । श्रौत्सदेशीया । स्रौघ्नवृन्दारिका । सोध्नजातीया । " श्रमानिनीत्स्वाङ्गात् " [४|३|१५२] इत्युक्तं तत्रापि भवति । दीर्घकेशवृन्दारिका । दीर्घकेशजातीया । दीर्घकेशदेशीया । " जातिच” [४।३।१५३] इत्युक्तं तत्रापि भवति । कठवृन्दारिका । कठजातीया । कठदेशीया । पुंवद्भाववचनात्सर्वस्य प्रतिषेधस्य निवृत्तिः । उक्तपुंस्कादनूरित्यनुवर्तते । उक्तपुंस्कादिति किम् ? मालावृन्दारिका । मालाजातीया । मालादेशीया | कालिकाश्च ता वृन्दारिकाश्च कालिकावृन्दारिका । कालिका तया । कालिका देशीया । अनूरिति किम् ? वामोरूवृन्दारिका । वामोरूजातीया । वामोरूदेशीया । " अडप्रियादौ” [ ४।३।१४६ ] इत्युक्तम् । तत्राप्यनेन पुंवद्भवति । कल्याणी चासौ पञ्चमी कल्याणपञ्चमी । कल्याणी चासौ प्रिया कल्याणप्रिया । कल्याणमनोज्ञा । श्रथात्र कथं पुंवद्भावः, मृग्याः क्षीरम् मृगक्षीरम् कुक्कुटथा अण्डम् कुक्कुटाण्डम् । काक्याः शावः काकशावः ? स्त्रीलिङ्गस्य पूर्वपदस्य सामान्येन विवक्षितत्वाददोषः । स्त्रीत्यान्तापि स्त्री पुंवद्भवतीत्युक्तम् । इडिविट् चासौ वृन्दारिका च ऐडिविडवृन्दारिका इत्यादौ पुंवद्भाव श्रायसूत्रेणैव सिद्धः |
For Private And Personal Use Only