SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० ४ पा० ३ सू० १४७-१४६ ] महावृत्तिसहितम् ३०५ 1 हंसः । वडवाभार्योऽश्वः । तथा अङ्गारकाः शकुनयः । कालिकाश्चैषां स्त्रियः । कालिकाभार्या अङ्गारकाः । नहि दुण्यादयः शब्दाः समानायामाकृतौ पुंसि वृत्ताः । पुंवद्भावेऽर्थतः श्रान्तरतभ्ये कच्छपादिप्रयोगः प्रसज्येत । ग्रनूरिति किम् ? वामोरुभार्यः । अनूरिति स्त्रीत्यपर्युदासाद् ग्रन्योऽपि स्त्रीत्य एव गृह्यते इति स्त्रीग्रहणमनर्थकं तत्कृतमस्त्रीत्यान्तापि स्त्री पुंवद्भवतीति ज्ञापनार्थम् । ऐडिविडभार्यः । पार्थं भार्यः । दारदभार्यः । श्रसिजभार्य इति सिद्धम् । इडिविड पृथु नयो राष्ट्रसमानशब्दत्वादपत्यार्थेऽञ । दरद, उसिजा श्राभ्यां मगधेत्यादिनाऽण् । स्त्रियाम् " श्रतोऽप्राच्यभर्गादेः " [ ३|१|१५८ ] इत्यणोरुप | इडिविडभार्या अस्येति पुंवद्भावे ऐडिविडभार्य इत्यादि । एकार्थं इति किम् ? कल्याण्या माता कल्याणीमाता । श्रड प्रियादाविति किम् ? कल्याणी पञ्चमा रात्रयः । कल्याणीपञ्चमः । कल्याणीदशमः । " डट्स्त्रीप्रमाण्योरः " [४।२।११६] इत्यः सान्तः । यदि डडन्ता स्त्री संविज्ञानादिना प्रधानं तदा पुंवद्भावप्रतिषेधः सान्तश्चाकारो वेदितव्यः । इह माभूत् कल्याणपञ्चमीकः पक्षः । कल्याणीमनोज्ञः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा | स्वा । कान्ता | समा । चपला । दुहिता । वामा इति प्रियादिः । दृढं भक्तिरस्य दृढभक्तिः । शोभनभक्तिरित्यादौ न पूर्वपदं स्त्रीलिङ्गमिति । तेन प्रियादौ धौ पूर्वस्य टावाशंका न कर्तव्या । स्त्रियामिति किम् ? कल्याणो प्रधानमेषां कल्याणं प्रधानाः । उक्तः पुमान् समानायामाकृतौ अभिन्ने प्रवृत्तिनिमित्ते जात्यादिके येन शब्देन स तथोक्तः । अथवा उक्तः पुमान् यस्मिन्नर्थेत्यादिके स तथोक्तः । तद्वाच्यपि शब्द उक्तपुंस्क इति व्युत्पादनं किमर्थम् । द्रोणीभार्यः । कुटीभार्यः । अत्र द्रोणकुटशब्दौ प्रकृत्यन्तरे पुंलिङ्गी । कथं गर्गभार्यः, प्रसूतभावः । प्रजातभार्यः इति । यत्राप्येकजात्यपेक्षया कथञ्चित्समानाकृतित्वमूह्यम् । I तसाद || ४ | ३ | १४७॥ तसादिषु परतः उक्तपुंस्कादनूः स्त्रीपुंवद्भवति । श्रादिशब्दः प्रकारवाची । तस् । त्र । तर । तम । चरट् । जातीय । देश्य । देशीय कल्प। पाश । रूप था। थम् । दा । हिं । थ्य | केषु परतः । तस्यास्ततः । तस्यां तत्र । श्राद्यतरा । श्रयतमा पट्टी भूतपूर्वा पटुचरी । पट्वीप्रकारा । पटुजातीया । ईपदसिद्धा पट्वी पटुदेश्या । पटुदेशीया । वृद्धकल्पा । याप्या वृद्धा वृद्वपाशा । प्रशस्ता वृद्धा वृद्धरूपा । तया प्रकृत्या तथा । कया प्रकृत्या कथम् । तस्यां वेलायां तदा । ग्रस्यां वेलायाम् एतर्हि । श्रजायें हितम् श्रजश्यम् | "अजाविभ्यां यः " [ ३|४|६ ] इति ध्यः । दरच्छब्दात् पुवद्भावे च कृते दारदिका । के पुंवद्भावात्परत्वेन प्रादेशः । परिवका । मृद्विका । बह्वल्पार्थाच्छसि बीभ्यो देहि बहुशो देहि । अल्पाभ्यो देहि अल्पशो देहि । “गुणवचनात्त्वतलोः” [वा०] पट्ट्ट्या भावः पदत्वम् । पटुता । गुणवचनादिति किम् ? क्षत्रियात्वम् | क्षत्रियाता | कठीत्वम् । कठीता । "भस्य हृत्यढे पुंवद्भावो वक्तव्यः " [वा०] हस्तिनीनां समूहो हास्तिकम् । ईखस्य स्थानिवद्भावाहिखं न स्यात् । श्रढ इति किम् ? श्यैन्याः अपत्यं श्यैनेयः । रौहिणेयः । कथम् अनायी देवता अस्य आग्नेयः ? " श्रग्निकलिभ्यां ढण्" [ ३२२८] इति । "ढेऽपि कचित्पु वद्भावो वक्तव्यः " [वा०] "ठण्छुसोश्च " [वा०] । भवत्या इदं भावत्कम् । भवदीयम् । श्रवस्थायां पु'वद्भावे "इसुसुक्तः कः " [ ५१२१५२ ] इति कादेशः । मानिनोः ॥ ४|३|१४८ ॥ यङि मानिनि च परत उक्तपुंस्कादनूः स्त्री पुंवद्भवति । एनीवाचरति एतायते । हरिणीवाचरति हरितायते । मानिनि द्यौ । इमां दर्शनीयां मन्यते दर्शनीयमानी देवदत्तः । " मृद्ग्रहणे लिङ्गविशिष्टस्यापि " [ ५० ] । दर्शनीयां मन्यते देवदत्तां जिनदत्ता दर्शनीयमानिनी । एकार्थे स्त्रीलिङ्गे च पूर्वेणैव सिद्धः पुकद्भावः । दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी स्त्री । नङः || ४|३|१४६ ॥ वो तश्व यः ककारस्तदुङः स्त्रिया न पुंवद्भावः । पात्रिकाभावः । कारिकाभार्यः । लाक्षिकीतः । लाक्षिकीपाशा । लाक्षिकीयते । लाक्षिकीमानिनी स्त्री । विलेपिकाया धर्म्ये 'वैलेपिकम् । “ऋन्महिष्यादेः” [ ३।३।१६६ ] इत्यणि कृते "भस्य हृत्यढे” [वा०] इति पुंवद्भावः प्राप्तः । पुंवद्भावे हृीत्वनिवृत्तिः स्यात् । सामान्येनायं प्रतिषेधः । वुहृद्ग्रहणं किम् ? मूकभार्यः । जागरूकमार्यः । वराकभार्यः । ३६ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy