________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०४
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ३ सू० १३७ - १४६
वा स्वसृपत्योः || ४|३|१३७ ॥ ऋकारान्तेभ्यो विद्यायोनिसंबन्धेभ्यः परस्यास्ताया वाऽनु भवति स्वसृपत्योः परतः । मातृष्वसा । मातुः स्वसा । मातुः ष्वसा । पितृष्वसा । पितुः स्वसा । पितुः ष्वसा । उपि "मातृपितृभ्यां स्वसुः " [५/४६६ ] इति षत्वम् । अन्यत्र “वानुपि [ ५/४/६७ ] इति वा पत्वम् । दुहितुः पतिः । दुहितृपतिः | स्वसुः पतिः । स्वसृपतिः । पूर्वेण नित्ये प्राप्ते विकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रनङ् द्वन्द्वे ||४|३|१३८ ॥ ऋतो विद्यायोनिसम्बन्धादिति वर्तमानम् अर्थात्तान्तं सम्पद्यते । ऋकारान्तानां विधिनां यो द्वन्द्वस्तत्र द्यौ पूर्वस्यानङादेशो भवति । होतापोतारौ । नेष्टांद्रातारौ । प्रशास्ताप्रति हर्तारौ । एककर्तृकर्मणि विद्याकृतः संबन्धोऽस्ति । योनिसम्बन्धे मातापितरौ । माताननान्दारौ । नकारोच्चारणं किम् ? श्रा इत्युच्यमाने "रन्तोऽणुः ” [१1१1४८ ] इति रन्तः स्यात् । ऋत इति किम् ? पितृपितामहौ । विद्यायोनिसंबंधादिति किम् ? कर्तृकारयितारौ । सम्बन्धग्रहण किम् ? पितृभ्रातरौ । नात्र विद्यातो योनितो वा परस्परसंबन्धोऽस्ति । मण्डूकप्लुत्या पुत्रग्रहणमनुवर्तते । तेन पुत्रेऽपि यौ ऋकारान्तस्य न भवति । पितापुत्रौ ।
मातापुत्रौ ।
देवताद्वन्द्वे||४|३|१३६॥ देवतावाचिनां च द्वन्द्वे द्यावानङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्रावृहस्पती । सूर्याचन्द्रमसौ । द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणं सहवापनिर्देशार्थम् । तेन ब्रह्मप्रजापती, शिववैश्रवण, स्कन्दविशाखौ इत्येवमादिषु शास्त्रे सहदाननिर्देशाभावान्न भवति । इष्टद्वन्द्वपरिग्रहार्थं वा पुनर्वचनम्। श्रत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वशब्दो निपातितः । ततो लोकप्रसिद्ध साहचर्याणामानङ् भवति । " वायोरुभयत्र प्रतिषेधः इष्यते " [ वा० ] श्रग्निवायू । वाय्वग्नी ।
सोमवरुणेऽग्नेरीः ||४ | ३ | १४० ॥ सोमवरुणइत्येतयोः परतोऽग्नेरीकारादेशो भवति देवताद्वन्द्वे । अग्नीषोम | अग्नीवरुणौ । श्रन्तस्यालः स्थाने श्रनङोऽपवाद ईकारः । " स्तुत्सोमौ चाग्नेः " [५/४/६५ ] इति पत्वम् । द्वन्द्वे इत्येव । उपचारादग्निसोमौ माणवकौ ।
ऐपीत् ||४|३|१४१ ॥ साहचर्यादैच् भाजि द्यौ श्रग्नेरिकारादेशो भवति देवताद्वन्द्वे | अग्निश्च वरुणश्च देवते त्या श्राग्निवारुणी । श्रग्निमारुतम् । देवतार्थेऽणि उभयोः पदयोरैपि कृते ईत्वानङोरपवाद इकारः । "विष्णोः प्रतिषेधो वक्तव्यः [वा ] अग्निश्च विष्णुश्च देवतेऽस्य श्राग्नीवैष्णवम् । श्रानडेव भवति । ऐपीति किम् ? आग्नेन्द्रः । “नेन्द्रस्य” [ ५१२।०७ ] इतिद्यो रैष्प्रतिषेधः ।
"3
दिवो द्यावा ||४३|१४२|| दिवो यात्रा इयमादेशो भवति द्यौ देवताद्वन्द्वे । द्यौश्च भूमिश्च द्यावाभूमी | द्यावानते । द्यावाक्ष में । अनेकाल्त्वात्सर्वादेशः ।
दिवसश्च पृथिव्याम् ||४|३|१४३ || दिवो दिवस इत्ययमादेशो भवति द्यावा च पृथिव्यां द्यौ देवताद्वन्द्वे । दिवस्पृथिव्यो । द्यावाडथिव्यौ । उच्चारणार्थेनाकारेण निर्देशो रित्वबाधनार्थः ।
उपासोः || ४ | ३ | १४४ ॥ उषस उपासा इत्ययमादेशो भवति द्यौ देवताद्वन्द्वे । उपश्च नक्तम् च उषासानक्तम् | उषासानक्ते । नक्तं शब्दो मकारान्तो झिसंशकोऽकारान्तश्च नपुंसकलिङ्गोऽस्ति ।
मातरपितरौ वा || ४ | ३ | १४५ || मातरपितराविति वा निपात्यौ । मातरपितरौ । यौ ऋकारस्याभावो निपात्यते | पढ़ें “श्रनङ द्वन्द्व ” [४।३।१३८] इत्यानङि कृते मातापितरौ ।
स्त्रयुक्तपुंस्काद नूरेकार्थेऽडट् प्रियादौ स्त्रियां पुंवत् ||४| ३ | १४६ ॥ उक्तपुंस्कात्परो यः स्त्रीत्यः तदन्त एकार्थे यो स्त्रियां वर्तमाने डडन्तप्रियादिवर्जिते पुंवद्भवति । स्थानेऽन्तरतम इत्यन्तरतमतः पुं शब्देन तुल्यो भवतीत्यर्थः । दर्शनीया भार्या अस्य दर्शनीयभार्यः । शोभनभार्यः । चारजङ्घः । स्त्री इति किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । उक्तपुंस्कादिति किम् ? माला वृन्दारिकः । तथा द्वणीभार्यः कच्छपः । वरटाभाय
For Private And Personal Use Only