________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ३ सू० १३२-१३६ ]
महावृत्तिसहितम्
३०३
कृति बहुलम् ||४|३|१३२ ॥ षे कृदन्ते द्यौ बहुलमीपोऽनु भवति । बहुलग्रहणं सर्वविकल्प संग्रहार्थम् । स्तम्बेरमः । कर्णेजपः । " प्रावृडू वर्षाशरत्कालदिवां जेऽनुप्” [वा०] प्रावृषिजः । वर्षासुजः । शरदिजः । कालेजः । दिविजः । न भवति कुरुचरः । मद्रचरः । " इन्सिढबध्नातिस्थेषु च न भवति " [वा०] स्थण्डिलशायी । स्थण्डिलवतीं । “व्रते”[रारा६८] इति णिन् । साङ्काश्यसिद्धः । काम्पिल्यसिद्धः । चक्रेबन्धनम् । चक्रबन्धनम् | समस्थः । विपमस्थः । कूटस्थः । पर्वतस्थः । समानाधिकरणे च नेष्यते । परमे कारके । “वर्षत्क्षरशरवराज्जे द्विधा ।” [वा०] वर्षजः । वर्षेजः । क्षरजः । क्षरेजः । शरजः । शरेजः । वरजः । वरेजः । “शयवासवासिष्वकालवाचिनो द्विधा " [वा०] खशयः । खेशयः । बिलशयः । बिलेशयः । वनवासः । बनेवासः । ग्रामवासः । ग्रामेवासः । नववासी । नवेवासी । ग्रामवासी । ग्रामेवासी । कालवाचिन इति किम् ? पूर्वाशयः । अपराह्नेशयः । " बन्धे द्विधा " [वा०] हस्तेबन्धः । हस्तबन्धः । स्वाङ्गादिति नित्यं प्रातिः । चक्रबन्धः । चक्रेबन्धः । बध्नात श्रनुप प्रतिषेधः प्राप्तः । श्रद्धल इत्येव । भूमिशयः । गुप्तिबन्धः । “कृदूग्रहणे तिकारकपूर्वस्यापि " [१०] श्रवतप्तेनकुलस्थितम् । उदके विशीर्णम् । “क्षेपे” [१।३।४१] इति सः । “क्वचिदन्यत्रापि " । ब्राह्मणाच्छंसी । पूर्वस्यैवायं प्रपञ्चः ।
कालतने कालेभ्यो वा || ४ | ३ | १३३ || झसंज्ञके कालशब्दे तनशब्दे च परतः कालिवाचिभ्यः परस्या ईपो वा भवति । इति तरतमौ । “ तादी झः " [ ४|१|११७ ] इति वचनात् । पूर्वाह्णेतराम् । पूर्वाह्णेतरे । श्रस्मिंश्च पूर्वाह्णे श्रस्मिन्नतिशयेन पूर्वाह्णे इति विगृह्यते । “द्विविभज्ये तरेयसू” [४|१|११६] इति । अहराश्रयस्य पूर्वस्य प्रकपतरः । श्रनुपक्षे "किमेन्मिङ भिमादा मद्रव्ये " [ ४।२।२० ] इति एतदन्तात्परो झ इत्याम् भवति । सर्वेषु पूर्वाश्रतिशयेन पूर्वाह्न इति विगृह्यते । "तमेष्ठावतिशायने ” [४|१|११४] इति तमः । पूर्वाह्नतमाम् | पूर्वाह्णतमे भुङ्क्ते । पूर्वाह्णेकाले “विशेषणं विशेष्येति” [ १।३।५२ ] षसे कृते । पूर्वाह्णेकाले पूर्वाह्न काले गतः । पूर्वी जातो भयो वा पूर्वाह्णेतनः । पूर्वाह्नतनः । " वा पूर्वापरादात् " [ ३।२।१४१ ] इति तनट् । इदमेव ज्ञापकं सुत्रन्ताद् हदुत्पत्तेः । कालेभ्य इति किम् ? शुक्लतरे । शुक्लतमे । श्रद्धल इत्येव । रात्रितरायां गतः । श्रस्यां च रात्रौ स्यामतिशयेन रात्राविति । " स्यग्रहणे चाकायः " [ ५० ] इति कान्तात्परौ झतनौ स्वरूपेण गृह्येते न तदन्तविधिना | अपि च "हृदयस्य हृल्लेखया चूलासेषु " [ ४ | ३ | १६१] इत्यत्राणग्रहणेन सिद्धे लेखग्रहणं ज्ञापकं “द्याविव्यधिकारे स्यग्रहणं स्वरूपग्रहणमेव" [१०] ।
ताया आक्रोशे | ४|३|१३४ ॥ ताया अनुव भवति यौ श्राक्रोशे गम्यमाने । चौरस्य कुलम् । दासस्य कुलम् । वृषलस्य भार्या । "ता" [ १।३।७० ] इति प्रसः । श्राक्रोश इति किम् ? मोक्षमार्गः । श्रसूयाविरहे दासकुलमिति भवति । ताया इति योगविभागः । " तेन वाक्दिक्पश्यद्भ्यो युक्तिदण्डहरेष्वनुप्” [वा०] वाचो युक्तिः । दिशोदण्डः । पश्यतोहरः । “ता चानादरे” [१।४।४६ ] इति ता । “देवानां प्रियादिष्वनुप्” [वा०] देवानां प्रियः । दिवोदासः | श्रमुष्यायणः । नडादित्वात्कण् । आमुष्यपुत्रिका । श्रामुष्यकुलिका । मनोज्ञादिपाठाद्वुञ् । “शुनः खौ शेफपुच्छलाङ्गूलेषु" [वा०] शुनःशेफः । शुनःपुच्छः । शुनोलाङ्गलः ।
पुत्रे वा || ४ | ३ | १३५ ॥ पुत्रे द्यौ ताया वाऽनुबू भवति श्राक्रोशे । दास्याः पुत्रः । दासीपुत्रः । चौर्याः पुत्रः । चौरीपुत्रः । पूर्वेण नित्यं प्राप्तः ।
ऋतो विद्यायोनिसंबन्धात् ||४|३|१३६ ॥ ऋकारान्तेभ्यो विधासंबन्धेभ्यो योनिसम्बन्धेभ्यश्च परस्यास्ताया अनुब् भवति । सामथ्याद्विद्यायोनिसंबन्धि यौ । होतुः पुत्रः । होतुरन्तेवासी । पोतुः पुत्रः । पोतुरन्तेवासी । योनिसम्बन्धात् । मातुः पुत्रः । मातुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । ऋत इति किम् ? उपाध्यायपुत्रः । मातुलपुत्रः । उपाध्यायशिष्यः । पुत्रशिष्यः । विद्यायोनिसम्बन्धादिति किम् ? कर्तृ पुत्रः । कर्तृ शिष्यः । विद्यायोनिसम्बन्धिद्याविति किम् ? होतृगृहम् । पितृधनम् ।
For Private And Personal Use Only